14043: दिवः कर्म च
==================
**Padacheda:** दिवः | S | 6 | 1 |
कर्म | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha
---------
**दिव्-धातोः प्रयोगे यत् साधकतम्, तत् कारकं कर्मसंज्ञकं करणसंज्ञकं च भवति । यथा - अक्षान् दीव्यति, अक्षैः दीव्यति ।**
**कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयं सूत्रम् । **अनेन सूत्रेण **दिव् (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)** (4.1), अस्य धातोः **साधकतमस्य** (प्रकृष्टोपकारकस्य)** कर्मसंज्ञा** विधीयते** । यद्यपि धातुपाठे दिव्-धातोः बहवः अर्थाः उक्ताः सन्ति, तथापि प्रकृतसूत्रस्य सन्दर्भेण **क्रीडा** (द्यूतक्रीडा) इत्येव अर्थः अत्र स्वीक्रियते । सामान्यरूपेण अस्यां द्यूतक्रीडायां प्रकर्षेण उपयोगिनः सन्ति "अक्षाः" (dice) । अतः द्यूतक्रिडायां अक्षाः एव साधकतमत्वेन परिगण्यन्ते, अतश्च "अक्ष"पदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, अक्षान् दीव्यति, । किञ्च, सूत्रे चकारग्रहणसामर्थ्यात् **साधकतमं करणम्** (1.4.42) इत्यनेन अक्षपदार्थस्य करणसंज्ञा अपि भवति, येन अक्षैः दीव्यति इत्यपि प्रयोगः सिद्ध्यति । एवमेव, "मनस्"-पदार्थम् साधकतमं मत्वा, तस्य कर्मसंज्ञां करणसंज्ञां च कृत्वा मनसा दीव्यति तथा च मनः दीव्यति इति प्रयोगौ अपि सङ्गच्छेते ।
**संज्ञाद्वयस्य युगपत्-विधानम्**
अत्र इदम् अवधेयम्, यत् प्रकृतसूत्रेण **दिव्**-धातोः प्रयोगे साधकतमस्य कर्मसंज्ञा तथा च करणसंज्ञा युगपत् विधीयते । इत्युक्ते, एकस्मिन् एव समये अक्षपदार्थः कर्मसंज्ञकः अपि अस्ति, करणसंज्ञकः अपि अस्ति । एतादृशं संज्ञाद्वयस्य युगपत् विधानम् मनसादेवः तथा च देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्येतयोः द्वयोः प्रयोगयोः साधुत्वज्ञापनार्थम् आवश्यकम् अस्ति । क्रमेण विवरणम् एतादृशम् -
1. मनसादेवः - मनसा दीव्यति इति वृत्तिवाक्ये, "मनस्"-शब्दस्य कर्मसंज्ञां स्वीकृत्य **कर्मण्यण्** (3.2.1) इत्यनेन **अण्**-प्रत्यये कृते, तथा च तस्मिन्नेव समये "मनस्"-शब्दस्य करणसंज्ञां स्वीकृत्य, तस्याः निर्देशार्थम् विग्रहवाक्ये "मनसा" इति तृतीयान्तं रूपं प्रयुज्य, अग्रे उपपदसमासे "मनस् + टा + दिव् + अण्" इति स्थिते, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन तृतीयैकवचनस्य **टा**-प्रत्ययस्य लुकि प्राप्ते, **मनसः संज्ञायाम्** (6.3.4) इत्यनेन प्रत्ययस्य अलुक् भवति । अग्रे **दिव्**-धातोः उपधागुणं कृत्वा मनसादेवः इति शब्दः सिद्ध्यति । अनेन प्रकारेण अस्य शब्दस्य सिद्धौ कर्मसंज्ञासामर्थ्यात् अण्-प्रत्ययः, तथा च करणसंज्ञासामर्थ्यात् तृतीया, तस्याः च अलुक् - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते ।
2. देवदत्तः यज्ञदत्तेन अक्षैः देवयते - इदं णिजन्तवाक्यम् अस्ति, यस्य आशयः "यज्ञदत्तः अक्षैः दीव्यति, देवदत्तः तं तथा कर्तुं प्रेरयति" इति वर्तते । अत्र णिजन्तवाक्ये "अक्ष"पदार्थस्य युगपत् कर्मसंज्ञा तथा च करणसंज्ञा आवश्यकी वर्तते । तदित्थम् - "अक्ष"-पदार्थस्य करणसंज्ञाम् स्वीकृत्य तस्याः निर्देशार्थम् तृतीयायाः प्रयोगः साधुत्वं प्राप्नोति , येन "अक्षैः" इति शब्दः सिद्ध्यति । किञ्च, तस्मिन्नेव समये, "अक्ष"-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते, येन **दिव्**-धातुः सकर्मकः भवति, तथा च शुद्धकर्तुः (**यज्ञदत्त**पदार्थस्य) णिजन्तप्रयोगे कर्तृसंज्ञा न बाधते । यदि **दिव्**-धातुः अकर्मकरूपेण परिगण्येत, तर्हि **गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ** (1.4.52) इत्यनेन सूत्रेण **दिव्**-धातोः शुद्धकर्ता (यज्ञदत्तः) णिजन्तप्रयोगे कर्मसंज्ञकः अभविष्यत्, येन "यज्ञदत्तेन" इति प्रयोगः असाधुत्वं प्राप्नुयात् । एतदेव न, अपितु, **दिव्**-धातोः अकर्मकत्वे सति **अणावकर्मकाच्चित्तवत्कर्तृकात् ** (1.3.88) इत्यनेन सूत्रेण **णिच्**-प्रत्ययान्त-**दिव्**-धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः समभविष्यन्, येन "देवयते" इति प्रयोगः अपि असाधुत्वं प्राप्नुयात् । एतौ दोषौ दूरीकर्तुम् अत्र "अक्ष"-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते । एतादृश्यां कर्मसंज्ञायां सत्यां **दिव्**-धातुः सकर्मकः भवति, येन शुद्ध-कर्तुः ("यज्ञदत्त"पदार्थस्य) णिजन्तप्रयोगे अपि कर्तृसंज्ञा एव तिष्ठति, तथा च एतादृशस्य अनभिहित-शुद्ध-कर्तुः निर्देशार्थम् **कर्तृकरणयोस्तृतीया** (2.3.18) इत्यनेन तृतीया एव विधीयते, येन "यज्ञदत्तेन" इति प्रयोगः साधुत्वं प्राप्नोति । एवमेव, **दिव्**-धातोः सकर्मकत्वात् **अणावकर्मकाच्चित्तवत्कर्तृकात् ** (1.3.88) इति अकर्मक-धातु-विशिष्टं सूत्रम् अपि न प्राप्नोति, येन "देवयते" इति णिजन्तधातोः आत्मनेपदे कृतः प्रयोगः अपि **णिचश्च** (1.3.74) इत्यनेन अवश्यमेव साधुत्वं प्राप्नोति । एतादृशम्, देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्यत्र, "यज्ञदत्तेन" तथा च "देवयते" इति प्रयोगार्थं कर्मसंज्ञा, अपि च "अक्षैः" इति प्रयोगार्थम् करणसंज्ञा - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते ।
Vasu English Summary
--------------------
That which is especially auxiliary in the accomplishment of the action, of the verb दिव् 'to play' is called कर्म - object, as well as करण।
Vasu English Translation
------------------------
That which is especially auxiliary in the accomplishment of the action, of the verb दिव् 'to play' is called कर्म - object, as well as करण।
The present *sutra* ordains accusative case, where by the operation of the last aphorism there ought to have been Instrumental case. The force of च in the *sutra* is to indicate that *karana* is also to be read into this. As अक्षात् दीव्यति or अक्षै र्दीव्यति he plays the dice or with the dice.
Kashika
-------
पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम्, तत् कर्मसंज्ञं भवति चकारात् करणसंज्ञं च। अक्षान् दीव्यति। अक्षैर्दीव्यति॥
Siddhanta Kaumudi
-----------------
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
Balamanorama
------------
**दिवः कर्म च** - दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह — दिवः साधकतममिति । दिवुधात्वर्थं प्रति साधकतममित्यर्थः । चादिति । चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः ।
Tattvabodhini
-------------
**दिवः कर्म च** - द्विद्रोणेनेति । द्वयोद्र्रोणयोः समाहारो द्विद्रेणम् । पात्रादित्वात्स्त्रित्वाऽभावः । द्रोणद्वयसम्बन्धि धान्यमित्यर्थः । इह षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक् । चादिति । करणशब्दानुवृत्त्या,परिक्रयणे संप्रदानमन्यतरस्या॑मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम् । तेनमनसा दीव्यती॑तिमनसदिव॑इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति ।मनसः संज्ञायाम्इत्यलुक् । किञ्चअक्षैर्देवयते देवदत्तो यज्ञदत्तेने॑त्यत्र सकर्मकत्वादणि कर्तुर्णौगतिबुद्धी॑त्यनेन कर्मत्वं न,अणावकर्मका॑दिति परस्मैपदमपि न भवति । ननु कर्मकरणसंज्ञासमावेशस्यमानसादेव॑इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्, अत्राहुः — कार्यकालपक्षेकर्मणि द्वितीये॑त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति । स्यादेतत् — ॒दीव्यन्तेऽक्षा॑इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात् । तथादेवना अक्षा॑इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात् । मैवम् । एकाव ह्यत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम् ।
Padamanjari
-----------
ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रीडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह - पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् । नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह - चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात् - यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारात्तु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीया - “मनसः संज्ञायाम्” इत्यलुक् - मनसा देवः। इह चाक्षैर्देवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् 'गतिबुद्धि' इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, “अणावकर्मकात्" इति परस्मैपदं च। यदि तर्हि समावेशः - अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः - विदेवना अक्षाः, 'करणाधिकरणयोश्च' इति ल्युट्; कर्मसंज्ञाया अवकाशः - दीव्यन्ते भवताक्षाः, 'भावकर्मणोः' इति यगात्मनेपदे, अक्षानित्यत्रोभयसंज्ञाकार्यप्रसङ्गे परत्वात्तृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च 'कर्मणि द्वितीया' इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः - दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्चैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात् ।
Nyaas
-----
`दीव्यति` इति। `हलि च` (8.2.77) इति दीर्घः॥
Prakriyasarvasvam
-----------------
दीव्यतेः साधकतमं कर्माख्यं करणाख्यं च स्यात् । गोपी दीव्यति । गोप्या दीव्यति । तया क्रीडतीत्यर्थः ॥
Sutra Prayogas
--------------
* **दुरक्षान्** (किरातार्जुनीयम्): `दिवः कर्म च` इति करणे कर्मसंज्ञा।
* **प्राणैर्दिदेविषन्** (भट्टिकाव्यम्): `दिवः कर्म च` इति चकारात् करणसंज्ञा ।
* **विषयान्** (भट्टिकाव्यम्): `दिवः कर्म च` इति करणसंज्ञापवादात् कर्मसंज्ञा।
* **परिघं** (भट्टिकाव्यम्): `दिवः कर्म च` इति परिघस्य कर्मसंज्ञा।