14042: साधकतमं करणम्

Padacheda: साधकतमम् | S | 1 | 1 |

करणम् | S | 1 | 1 |

Sutrartha

क्रियासिद्धौ प्रकृष्ट-उपकारकत्वेन यस्य विवक्षा क्रियते, तत् कारकं करणसंज्ञं भवति । यथा - परशुना छिनत्ति, अग्निना पचति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे विद्यमानम् इदं सूत्रं करणम् इति संज्ञां विदधाति । क्रियां कर्तुम् आवश्यकानि यानि साधनानि, तेषु सर्वेषु यस्य साधनस्य **प्रकर्षेण उपकारि साधनम् इति विवक्षा क्रियते, तस्य अनेन सूत्रेण करणसंज्ञा भवति** । यथा, वृक्षच्छेदनकार्ये “परशुः” इति शस्त्रस्य यदि “इदं प्रकर्षेण उपकारि अस्ति” इति विवक्षा क्रियते, तर्हि अत्र “परशु”पदार्थस्य करणसंज्ञां कृत्वा, तस्याः निर्देशार्थम् कर्तृकरणयोस्तृतीया (2.3.18) इत्यनेन तृतीया विभक्तेः प्रयोगं च कृत्वा <ex>परशुना छिनत्ति</ex> इति प्रयोगः सिद्ध्यति । एवमेव, पचनक्रियायाम् अग्निं प्रकर्षोपकारिणं मत्त्वा <ex>अग्निना पचति</ex> इति प्रयोगः सिद्ध्यति ।

<hlb>साधकम्</hlb> तथा च <hlb>साधकतमम्</hlb>

प्रकृतसूत्रे प्रयुक्ते साधकतमम् इत्यमिन् पदे साधक इति मूलः शब्दः अस्ति । साधकः इत्यस्य अर्थः कारकम् इति ज्ञेयः । क्रियासिद्धौ ये पदार्थाः भागं गृह्णन्ति, ते सर्वेऽपि साधकानि (कारकाणि) नाम्ना ज्ञायन्ते । अमुम् एव विषयम् स्पष्टीकुर्वन् प्रकृतसूत्रे भाष्यकारः वदति - <inline>सर्वाणि च कारकाणि साधकानि, न च असाधके प्रवृत्तिः </inline> । एतेषु सर्वेषु अपि साधकेषु यत् श्रेष्ठम् साधकम्, तस्य निर्देशः साधकतम इति शब्देन क्रियते, तस्य च प्रकृतसूत्रेण करणसंज्ञा भवति ।

साधकतमस्य निर्णयः

सर्वेषु अपि साधकेषु श्रेष्ठम् साधकं कथं ज्ञेयम् - इत्यस्य उत्तरम् भर्तृहरिणा वाक्यपदीये दत्तम् अस्ति । तत्र सः वदति - <source> क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र, करणत्वं तदा स्मृतम् ॥ <light>- वाक्यपदीयम्, 3.7.90</light>

अन्वयः - यद्व्यापारात् अनन्तरम् क्रियायाः परिनिष्पत्तिः विवक्ष्यते, तत्र करणत्वम् स्मृतम् । </source> क्रियायाः सिद्ध्यर्थम् यद्यपि भिन्नानि साधकानि उपयुक्तानि सन्ति, तथापि यस्य साधनस्य प्रयोगात् अनन्तरम् “इदानीं क्रिया समाप्ता जाता” इति वक्तुं शक्यते, तस्य साधकस्य “साधकतम”रूपेण ग्रहणं भवति, किञ्च तस्यैव करणसंज्ञा अपि भवति - इति अत्र भर्तृहरेः आशयः वर्तते । यथा, वृक्षच्छेदनक्रियायाम्, “यावत् परशुना वृक्षे प्रहारः क्रियते तावत्पर्यन्तम् एव छेदनकार्यम्, परशोः प्रयोगः समाप्यते चेत् छेदनकार्यं अपि समाप्तम् मन्यते” इति सामान्यव्यवहारः, अतः छेदनकार्ये परशोः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा क्रियते, येन <ex>परशुना छिनत्ति</ex> इति प्रयोगः सिद्ध्यति । एवमेव, पचनकार्ये विद्यमानेषु बहुषु साधनेषु “अग्नेः प्रयोगात् अनन्तरम् पचनक्रिया समाप्यते” इति स्वीकृत्य अग्नेः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा सम्भवति, येन <ex>अग्निना पचति</ex> इति प्रयोगः सिद्ध्यति ।

साधकतमम् विवक्षाधीनम् अस्ति

भर्तृहरिणा स्वविरचितायां कारिकायां विवक्ष्यते इति शब्दः प्रयुक्तः अस्ति । विवक्ष्यते इत्युक्ते वक्तुः इच्छाम् अनुसृत्य निर्णीयते । क्रियार्थम् आवश्यकानि यानि साधकानि, तेषु कस्य साधकस्य प्रयोगात् अनन्तरम् क्रिया समाप्यते इति बहुत्र वक्तुः इच्छाम् अनुसरति, अतएव भर्तृहरिणा अस्य शब्दस्य अत्र प्रयोगः कृतः वर्तते । यथा, वृक्षच्छेदनकार्यस्य विषये यदि कश्चित् वदति - “परशोः कार्यं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्”, तर्हि तस्य मतेन परशुपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन <ex>परशुना छिनत्ति</ex> इति प्रयोगः सिद्ध्यति । परन्तु अस्यैव छेदनस्य विषये कश्चन अन्यः वदेत् - “मम बलं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्” । अस्मिन् पक्षे बलपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन <ex>बलेन छिनत्ति</ex> इति प्रयोगः अपि साधुत्वं प्राप्नोति । एवमेव कश्चन अन्यः हस्तयोः साधकतमस्य विवक्षां कृत्वा स्वीकृत्य <ex>हस्ताभ्यां छिनत्ति</ex> इति प्रयोक्तुम् अर्हति । किञ्च, द्वयोः अधिकानां वाऽपि पदार्थानाम् युगपत् साधकतमत्वं स्वीकृत्य <ex>हस्तेन परशुना बलेन च छिनत्ति</ex> इत्यादयः प्रयोगाः अपि अवश्यं सङ्गच्छेरन् ।

कारकसंज्ञायां तरतमयोगो न भवति

प्रकृतसूत्रे पाणिनिमहर्षिणा साधकतमम् इति तमप्-प्रत्ययान्तशब्दः प्रयुक्तः अस्ति । परन्तु कारकप्रकरणे अन्येषु सूत्रेषु एतादृशः तमप्-प्रत्ययान्तशब्दः प्रायेण न दृश्यते । यथा, अपादानसंज्ञायाः विषये “ध्रुवतमम् अपाये अपादानम्” इति नोच्यते । अधिकरणसंज्ञायाः विषये अपि “आधारतमम् अधिकरणम्” इति नोच्यते । अतः प्रकृतसूत्रे विद्यमानः तमप्-प्रत्ययान्तशब्दः एतत् प्रतिपादयति, यत् कारकप्रकरणे यत्र तमप्-प्रत्ययान्तशब्दः न वर्तते, तत्र श्रेष्ठ-कनिष्ठचिन्तनं नैव करणीयम् । यथा, अपाये साध्ये सर्वेषाम् अपि ध्रुवाणाम् ध्रुवमपायेऽपादानम् (1.4.24) इत्यनेन अपादानसंज्ञा अवश्यं भवेत्, न केवलं ध्रुवतमस्य । अतएव उपात्तविषयकस्य अपेक्षितक्रियकस्य च अपादानस्य निर्देशः अपि ध्रुवमपायेऽपादानम् (1.4.24) इत्यनेनैन भवति । एवमेव, आधारोऽधिकरणम् (1.4.43) इत्यनेन सूत्रेण सर्वप्रकारकाणाम् अपि आधाराणाम् अधिकरणत्वम् उच्यते, न हि केवलम् मुख्यप्रकारकस्य व्यापक-आधारस्य । अनेन प्रकारेण कारकप्रकरणे अन्यत्र (यत्र तमप्-प्रत्ययान्तशब्दः न दृश्यते तत्र) श्रेष्ठ-कनिष्ठस्य चिन्तनं नैव करणीयम् । अमुम् एव विषयम् सिद्धान्तरूपेण निर्दिशन् भाष्यकारः वदति - <hlb>कारकसंज्ञायां तरतमयोगो न भवति </hlb> । तर-तम-योगः इत्युक्ते “श्रेष्ठ-कनिष्ठस्य चिन्तनम्” । तत् कारकप्रकरणे अन्यत्र न भवति, इति अत्र भाष्यकारस्य आशयः वर्तते । </source>

दलकृत्यम्

1. तमप्-ग्रहणं किमर्थम् ? ** - ** (1) केवलं साधकतमस्यैव करणसंज्ञा भवेत्, इति स्पष्टीकर्तुम्, तथा च (2) <hl>कारकप्रकरणे तरतमयोगः न भवति इति ज्ञापयितुम् प्रकृतसूत्रे तमप्-ग्रहणं क्रियते</hl> । अतएव <nex>गङ्गायां घोषः</nex> इत्यस्मिन् उदाहरणे आधारोऽधिकरणम् (1.4.43) इत्यनेनैव औपश्लेषिकम् अधिकरणम् अपि सिद्ध्यति । किञ्च, अतएव <nex>सिंहात् बिभेति</nex> इत्यादिषु वाक्येषु विद्यमानम् उपात्तविषयम् अपादानम् ध्रुवमपायेऽपादानम् (1.4.24) इत्यनेनैव सिद्धे, अपादानप्रकरणस्य अन्यानि सूत्राणि भाष्यकारः प्रत्याचष्टे ।

Vasu English Summary

That which is especially auxiliary in the accomplishment of the action is called Instrument or करण कारक।

Vasu English Translation

That which is especially auxiliary in the accomplishment of the action is called Instrument or करण कारक। A दात्रेण लुनाति he cuts with the sickle. परशुना छिनत्ति he divides by the axe. The instrument कारक takes the third-case affix.

Why do we say ‘especially’? Because in the case of the other karakas, the non-mention of the word ‘especially’ makes it possible for us to use those cases, in not their strict sense. Thus though the locative case should be used where strictly a thing is located in another, yet we may say गङ्गायां घोषः the herdsman in the Ganges, not strictly in, but on the banks of, the Ganges. कूपे गर्गकुलम् the family of frogs in the well, i.e. on the sides of the well.

Bhashya

साधकतमं करणम् तमग्रहणं किमर्थं न साधकं करणमित्येवोच्येत ? साधकं करणमितीयत्युच्यमाने सर्वेषामेव कारकाणां करणसंज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषो भवति । नैतदस्ति प्रयोजनम् । पूर्वास्तावत्संज्ञा अपवादत्वाद्बाधिका भविष्यन्ति। पराः परत्वादनवकाशत्वाच्च । इह तर्हि धनुषा विध्यति अपाययुक्तत्वाच्चाऽपादानसंज्ञा , साधकत्वाच्च करणसंज्ञा प्राप्नोति । तमग्रहणे पुनः क्रियमाणे न दोषो भवति । एवं तर्हि लोकत एतत्सिद्धम् । तद्यथा, - लोके अभिरूपायोदकमानेयमभिरूपाय कन्या देयेति, न चानभिरूपे प्रवृत्तिरस्ति, तत्र अभिरूपतमायेति गम्यते । एवमिहाऽपि साधकं करणमित्युच्यते, सर्वाणि च कारकाणि साधकानि, न चाऽसाधके प्रवृत्तिरिति, तत्र साधकतममिति विज्ञास्यते । एवं तर्हि सिद्धे सति यत्तमग्रहणं करोति तज्ज्ञापयत्याचार्यः - कारकसंज्ञायां तरतमयोगो न भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अपादानमाचार्यः किं न्याय्यं मन्यते, यत्र संप्राप्य निवृत्तिः । तेनेहैव स्यात् - ग्रामादागच्छति, नगरादागच्छतीति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति । तथाऽऽधारमाचार्यः किं न्याय्यं मन्यते, यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् - तिलेषु तैलम् दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति ॥ 42 ॥

Kashika

क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम्, तत् साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः — कर्तृकरणयोस्तृतीया (२.३.१८) इत्येवमादयः॥

Siddhanta Kaumudi

क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥

Laghu Siddhanta Kaumudi

क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥

Balamanorama

साधकतमं करणम् - साधकतमं करणं । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते ।साधकतम॑मित्यस्य व्याख्यानमेतत् । साधकशब्दादतिशायने तमबिति तमप् । अतिशयितं साधकं साधकतममिति भावः । यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति । साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः, — कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम् । अन्यथाआधारोऽधिकरण॑मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं चतिलेषु तैलं॑,दध्नि सर्पि॑रित्यादावेव स्यात् ।गङ्गायां घोषः॑, कूपे गर्गकुल॑मित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् ‘आधारोऽधिकरणं’ ‘सप्तम्यधिकरणे च’ इत्यत्र वक्ष्यते ।

Tattvabodhini

साधकतमं करणम् - साधकतमं करणम् । प्रकृष्टेति । यद्द्यापारानन्तरं फलनिष्पत्तिस्तत्पर्रकृष्टम् । उक्तञ्च — — ॒क्रियायाः फलनिष्पत्तिर्यद्द्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्इति ।विवक्ष्यते॑इत्यनेन स्थाल्यादीनामपि करणत्वमस्तीति सूचितम् । आह च — ॒वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॑इति । अयं भावः — कारकत्वं तद्द्यप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न नियतं, किन्तु वैवक्षिकम् । न हिगौः सर्वं प्रति गौरवे, न तु कञ्चित्प्रत्यगौः॑ इति वद्विशेषणं सर्वं प्रति विशेषणमेवेति वक्तुं शक्यम् । तथाच कया धातुव्यक्त्या उपस्थापितेऽर्थे किं कत्र्रादिकमिति प्रश्नेप्रकृतधातुव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेन व्यापारस्य फलस्य वा आश्रयोऽधिकरण॑मिति स्थितम् । पच्यर्थो व्यापार श्चाऽनेकधा । एवञ्च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनातात्पर्यकत्वे एधाः कर्तारः, तण्डुलधारणादिपरत्वे स्थाली कत्रीं, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः ।स्थाल्या पचती॑त्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, नतु कत्र्री, देवदत्तादिव्यापारास्यैव तद्धातीपात्तत्वात्, तथा आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता, तस्मिन्नेवार्थे भक्षयतिनोपात्ते प्रयोज्यः कर्म । अधिपूर्वैः शीहादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणामित्यादि ज्ञेयम् । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इति केषाञ्चिदुक्तिः परास्ता । यद्धातूपात्तक्रियायां यदा यस्त स्वातन्त्र्यं विवक्ष्यते तदा तत्क्रियायां स कर्ता, यदुपात्तया कर्तुऋ क्रियाया यदा आप्तुमिष्टतमत्वेन यद्विवक्ष्यते तदा तत्कारकं तत्क्रियायां कर्मेत्येव शब्दविशेषपाधिकस्य कर्तृत्वादेः प्रत्यक्षे उक्तिसम्भवाऽभावात् । यत्तुत केचित्परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेत्वृक्षात्पर्णं पतती॑त्यादौ स्वसमवेतक्रियाजन्यविभागादिफलशालिनि कर्तर्यतिव्याप्त्यभावेऽप्यापादानेऽतिव्याप्तिः स्यादेव । अतश्च धात्वर्थताव्च्छेदकफलशालित्वं कर्मत्वमित्येवाभ्युपगन्तव्यम् । एवञ्च सतिग्रामं गच्छती॑त्यादिसकर्मकेषु गमनजन्यसंयोगादाविष्टाऽनुरोधेने धात्वर्थतावच्छदकत्वेऽभ्युपगतेऽपि,वृक्षात्पतती॑त्याद्यकर्मकेषु पतनाद#इजन्यविभागादौ तदवच्छेदकत्वाऽकल्पनान्नापादानेऽतिव्याप्तिः, नवा॒ ग्रामं गच्छती॑त्यादौ कर्तर्यतिव्याप्तिः,संयोगादिफलजनकीभूतधात्वर्थस्य परसमवेतत्वविशेषणात्कर्मत्वेनाभिमतं यत्तद्भिन्नस्य परशब्देनाऽत्र विवक्षितत्वादित्याहुः । तदप्येतेन प्रत्युक्तम् ।ग्रामं गमयति देवदत्त॑मित्यादौ गन्तर्यव्याप्तेः । णिजर्थप्रेरणाजन्यप्रयोज्यव्यापारे गमनादौ धात्वर्थतावच्छेदकत्वाऽभावात् । तत्त्वाभ्युपगमे तुदेवदत्तेन पाचयती॑त्यादौ प्रयोज्यकर्तर्यतिव्याप्तेः ।गतिबुद्धी॑त्यादिशास्त्राभ्युपगमं विना क्वचित्प्रयोज्यकर्तरि क्रमत्वं, क्वचित्तु कर्तृत्वमिति निर्धारयितुमशक्यत्वात् ।ह्मक्रोरन्यतरस्या॑मिति शास्त्रमन्तरेणहारयति कारयति वा कटं भृत्येन भृत्य॑मित्यत्र वैकल्पिककर्मत्वस्य दुरुपपादत्वाच्च । एतादृशेषि वैयाकरणोक्त्यैव निर्वाह इति चेत्, तर्हिआकडारादेका सञ्ज्ञा, या पराऽनवकाशा चे॑त्यक्त्वान्निरवकाशया अपादानसंज्ञया सावकाशायाः कर्मसञ्ज्ञाया बाधान्नोक्तातिव्याप्तिरिति किमनेनधात्वर्थतावच्छेदके॑त्यादि परिश्रमेण । स्यादेतत् — ॒आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने॑त्यादिप्रयोगः कथं सङ्गच्छते, एकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्तृत्वकर्मत्वादेरसम्भवात्, परया कर्तृसञ्ज्ञया कर्मकरणादिसञ्ज्ञाया बाधात् । नैष दोषः । अहङ्काराद्युपधिभेदेनात्मनोऽपि बेदमाश्रित्यआत्मानमात्मना हन्ति॑इत्यादिप्रयोगस्याकरे समर्थितत्वात् । ननुसाधकं करण॑मित्येवास्तु, कारकाधिकारादिह कारकमिति वर्तते, साधकं कारकं हि पर्यायः, तथा चोभयोपादानेन प्रकर्षो लभ्यत इत्याशयेन पृच्छति -तमब्ग्रहणं किमिति । इतरस्तु कारकप्रकरणे गौणमुक्यन्याय एतत्सूत्रादन्यत्र न प्रवर्तत इति ज्ञापनाय तमब्ग्रहणमित्याशयेन ज्ञापनफलमुदाहरति -गङ्गायां घोष इति । उक्तज्ञापनाऽनङ्गीकारे त्विहाधिकरणसञ्ज्ञा न स्यात् । तिलेषु तैलं, दधनि सर्पिरित्यादौ मुख्याधारे तस्याश्चरितार्थत्वादिति भावः । अत्र व्याचख्युः — यदा च तीरधर्म आधारत्वं सामीप्यात्प्रवाहे उपचर्यते तदेदं प्रयोजनम्, यदा तु गङ्गाशब्द एव तीरे वर्तते तदा तु न प्रयोजनम्, तीरस्य मुख्याधारत्वात् । तत्रा द्यपक्षे विभक्तिर्लाक्षणिकी,द्वितीये तु प्रकृतिर्लाक्षणिकीत्यादि ।

Padamanjari

‘षिधू संराद्धौ’ इत्यस्य हेतुमण्ण्यन्तस्य’सिद्ध्यतेरपारलौकिके’ इत्यात्वे राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥’विवक्ष्यते’ इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च - वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥

Nyaas

ननु च सामग्र्यधीना हि क्रियासिद्धरेकस्याप्यभावेन न भवति। तत् कस्यात्र प्रकर्षो यत्परिग्रहाय साधकतमशब्दस्य ग्रहममित यश्चोदयेत्, तं प्रत्याह - क्रियासिद्धौ इत्यादि। प्रकृष्टम् = अत्यन्तमुपकारकम्। अथ वा - प्रकर्षः प्रकृष्टम् नुपंसके भावे क्तः (3.3.114) । प्रकृष्टेन प्रकर्षेणोपकारकं प्रकृष्टोपकारकं यत् क्रियायसिद्धिविषये प्रकर्षेणोपकारकं विवक्षितं तत् साधकतमम्। विवक्षितग्रहणं यदा प्रकृष्टोपकारकत्वेन विवक्ष्यते, तदा साधकतमव्यवहारो विज्ञायते, नान्येदित ज्ञापनार्थम्। तथाहि - विवक्षावशाद् यदेव कदाचित् करणम्भवति - धनुषा विध्यतीति, तदेव कदाचित् स्वातन्त्र्यविवक्षायां कर्त्तृत्वमनुभवति - टधनुर्विध्यतीति। लुनाति इति। प्वादीनां ह्रस्वः (7.3.80) ।तमब्ग्रहणं किम्? गङ्गायां घोषः इति। यदि तमब्ग्रहणं न क्रियेत, ततोऽत्राधिकरणसंज्ञा न स्यात्। इह हि द्विवध आधारः- गौणः,मुख्यश्च। तत्र मुख्यो य आधेयेन व्याप्यते, यथा - तिलेषु तैलमस्ति;अत्र तैलेनाधेयेनाधारभूतास्तिला व्याप्ताः। अव्याप्तो गौणो यथा - गङ्गायां घोष इति। अत्र हि सामीप्याद् गङ्गायां आधारत्वमुपचरितम्, न मुख्यम्; व्याप्त्यभावात्। तत्रासति तमब्ग्रहणे गौणमुख्ययोर्मुख्ये कार्यसंम्प्रत्ययः (व्या।प।4) इति मुख्यस्यैवाधिकरणसंज्ञा स्यात्, नेतरस्य; तमब्ग्रहणात् तस्यापि भवति; तथपीह तमब्ग्रहणं न कर्तव्यम्,कथम्? विनापि तेन प्रकर्षावगतेः। यथैव ह्रनभिरूपाय कन्यादानस्य प्रवृत्तिर्नास्तीत्यभिरूपाय कन्या देयेत्युक्ते विनापि प्रकर्षप्रत्ययेनाभिरूपतमायेति गम्यते; तथेहापि कारकाधिकारादसाधके संज्ञायाः प्रवृत्तिर्नस्तीति साधकं करणम् इत्युक्तेऽन्तरेणापि तमब्ग्रहणं साधकतममिति गम्यते, तत्क तमब्ग्रहणेन? तदेतत् तमब्ग्रहणं ज्ञापनार्थं कृतम्। एतदनेन ज्ञाप्यते - इह कारकाधिकारे इतः सूत्रादन्यत्र विना तमब्ग्रहणेन प्रकर्षो नाश्रीयते इति। तेन आधारोऽधिकरणम् (1.4.45) इत्यनेन गङ्गायां घोषः इत्यादावमुख्यस्यापि गङ्गादेराधारस्याधिकरणसंज्ञा सिद्धा भवति॥

Praudhamanorama

प्रकृष्टेति। यद्व्यापारादनन्तरं क्रियानिष्पत्तिस्तत्प्रकृष्टम्। उक्तं च— क्रियायाः परिनिष्पत्तिः यद्व्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥ इति। विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिककरणत्वमस्तीति ध्वनयति। आह च— वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ इति। अयं भावः- कारकत्वं तद्व्याप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न व्यवतिष्ठते। न हि गौस्सर्वं प्रति गौरेव न तु किंचित्प्रत्यगौरितिवद् विशेषणं विशेषणमेवेति सुवचम्। तथा च कयाचिद् धातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने प्रकृतव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेनाश्रयोऽधिकरणम्। पच्यर्थो व्यापारश्चानेकधा। एवं च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनतात्पर्यकत्वे एधाः कर्तारः, तण्डुलधारणादिपरत्वे स्थाली कर्त्री, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः। स्थाल्या पचतीत्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, न तु कर्त्री, देवदत्तादिव्यापारस्यैव तद्धातूपात्तत्वात्। तथा—आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता। तस्मिन्नेवार्थे भक्षयतिनोपात्ते कर्म। अधिपूर्वैः शीङादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणमित्यादि। एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इत्यादि परास्तम्, शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादौ उक्तिसम्भवाभावात्। एतेन परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेद् अपादानेऽतिव्याप्तिमाशङ्क्य धात्वर्थतावच्छेदकफलशालि कर्मेति परिष्कुर्वन्तोऽपि प्रत्युक्ताः, ग्रामं गमयति देवदत्तमित्यादौ गन्तर्यव्याप्तेः। तन्मते गमनस्य प्रकृत्यर्थत्वेऽपि तत्त्वानवच्छेदकत्वात्। तत्र णिचो व्यापारार्थकत्वं न प्रकृतेः। तत्त्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः। पारिभाषिकमनुशासनोपयोगि कर्मत्वं वचनबलात् व्यवस्थितमिति चेद्? अपादानेऽपि तर्हि तन्नास्तीत्यवधेहि, एकसंज्ञाधिकारेऽनवकाशया सावकाशाया बाधात्। अत एव ‘आत्मानमात्मना हन्ति’ इत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमाशङ्क्याहङ्कारादिविशिष्टात्मभेदमाश्रित्य समाहितं भाष्ये।

Prakriyasarvasvam

क्रियासिद्धावत्युपकारकं करणं स्यात् ॥