14038: क्रुधद्रुहोरुपसृष्टयोः कर्म
==================================
**Padacheda:** क्रुध-द्रुहोः | S | 6 | 2 |
उपसृष्टयोः | S | 6 | 2 |
कर्म | S | 1 | 1 |
Sutrartha
---------
**सोपसर्गस्य क्रुध् तथा द्रुह् धातोः प्रयोगे "यं प्रति कोपः जायते" तत् कारकं कर्मसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।**
**कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । अनेन सूत्रेण सोपसर्गस्य **क्रुध् (क्रोधे)** (4.86), तथा **द्रुह् (जिघांसायाम्)** (4.96), एतयोः धात्वोः विषये कर्मसंज्ञा विधीयते । **एतयोः क्रिययोः कर्ता **यं प्रति कोपं करोति** तत् कारकम् प्रकृतसूत्रेण **कर्मसंज्ञं** भवति** । क्रमेण उदाहरणानि एतानि -
1. **क्रुध् (क्रोधे)** (4.86) - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः **अमर्षः** (क्रोधः) इति दत्तः अस्ति । **क्रोधस्य प्रथमः सोपानः कोपः अस्ति ** इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र **यस्य विषये कोपः जायते** (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य कर्मसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति ।
2. **द्रुह् (जिघांसायाम्)** (4.96) - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः **अपकारः** इति दीयते । **अपकारः** इत्युक्ते **दुःखजनिका क्रिया** । सा क्रिया यया अन्यस्य अहितं भवति, **द्रोहः** नाम्ना ज्ञायते । अस्य **द्रोहस्य मूले अपि कोपः एव वर्तते**, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।
**बाध्यबाधकभावः**
प्रकृतसूत्रम् **क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यस्य **अपवादरूपेण** प्रवर्तते । **क्रुध्** तथा **द्रुह्** धात्वोः सन्दर्भेण यं प्रति कोपः वर्तते, तस्य **क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यनेन वस्तुतः सम्प्रदानसंज्ञा प्राप्नोति । परन्तु उपसर्गस्य उपस्थितौ अस्याः **सम्प्रदानसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते** ।
**दलकृत्यम्**
1. **उपसृष्टयोः इति किम् ? ** - **केवलस्य (अनुपसर्गस्य) **क्रुध्**-धातोः विषये, **द्रुह्**-धातोः च विषये प्रकृतसूत्रस्य प्रयोगः मा भूत्** - इति दर्शयितुम् अत्र **उपसृष्टयोः** इति पदं स्थापितम् अस्ति । अतएव देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति इत्यत्र प्रकृतसूत्रेण कर्मसंज्ञा न भवति ।
**सूत्रनिर्माणस्य प्रयोजनम्**
**क्रुध्** तथा **द्रुह्** एतौ धातू सोपसर्गौ अपि अकर्मकौ एव स्तः । अतश्च एतयोः विषये यं प्रति कोपः भवति तस्य **कर्तुरीप्सिततमं कर्म** (1.4.49) इत्यनेन कर्मसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रेण एतयोः विषये विशेषरूपेण कर्मसंज्ञा उच्यते । यदि प्रकृतसूत्रं नैव स्यात्, तर्हि सोपसर्गयोः **क्रुध्**/**द्रुह्**-धात्वोः विषये अपि **क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यनेन सम्प्रदानसंज्ञा एव अभविष्यत् । अपि च, तस्याः निषेधार्थम् प्रकृतसूत्रस्य स्थाने "क्रुधद्रुहोरुपसृष्टयोः न" इति सूत्रं रच्यते चेदपि तत्र कस्यापि कारकस्य अभावात् **षष्ठी शेषे** (2.3.50) इत्यनेन षष्ठीविभक्तिः अभविष्यत् । एतादृशं मा भूत्, अपितु इष्टा कर्मसंज्ञा एव भवेत् इति ज्ञापनाय अत्र प्रकृतसूत्रम् आवश्यकम् अस्ति ।
Vasu English Summary
--------------------
But in the case of the verbs क्रुद्ध् and द्रुह् , when preceded by prepositions, the person against whom the feeling of anger etc. is directed is called कर्म कारक or object.
Vasu English Translation
------------------------
But in the case of the verbs क्रुद्ध् and द्रुह् , when preceded by prepositions, the person against whom the feeling of anger etc. is directed is called कर्म कारक or object.
This aphorism is a proviso to the last, and enjoins accusative case, where by the last, there would have been dative. The word *upasrishta* means having *upasarga* or preposition. As देवदत्तमभिक्रुध्यति अभिद्रुह्यति. When used simply, those verbs of course govern the Dative case by the last aphorism. As देवदत्ताय क्रुध्यति.
Kashika
-------
पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसंबद्धयोर्यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तमभिक्रुध्यति। देवदत्तमभिद्रुह्यति। उपसृष्टयोरिति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति॥
Siddhanta Kaumudi
-----------------
सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
Balamanorama
------------
**क्रुधद्रुहोरुपसृष्टयोः कर्म** - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।
Padamanjari
-----------
उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥
Prakriyasarvasvam
-----------------
सोपसर्गयोरनयोः कोपविषयः कर्मैव । कृष्णमभिक्रुध्यत्यभिद्रुह्यति च कंसः ।
Sutra Prayogas
--------------
* **भूतानाम्** (किरातार्जुनीयम्): `क्रुधद्रुहोरुपसृष्टयोः कर्म` इति कर्मसंज्ञा।
* **मां** (भट्टिकाव्यम्): `क्रुध - द्रुहोरुपसृष्टयोः` इति कर्मसंज्ञा।
* **माम्** (भट्टिकाव्यम्): `क्रुध द्रुहोरुपसृष्टयोः कर्म` इति कर्मसंज्ञा।