14024: ध्रुवमपायेऽपादानम् ========================= **Padacheda:** ध्रुवम् | S | 1 | 1 | अपाये | S | 7 | 1 | अपादानम् | S | 1 | 1 | Sutrartha --------- **"एकस्मात् पदार्थात् अपरस्य पदार्थस्य पृथक्करणम्" अस्यां क्रियायाम् "यस्मात्" पृथक्करणं भवति, तत् कारकम् अपादानसंज्ञं भवति । यथा - वृक्षात् पर्णं पतति ।** **कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमम् सूत्रम् । **यस्यां क्रियायां अपायः (= विश्लेषः / पृथक्करणम् / separation) विद्यते, तस्यां क्रियायाम् यद् **अवधिभूतम्** अस्ति, इत्युक्ते यः पदार्थः पृथक्करणस्य सीमां दर्शयति (यस्मात् पदार्थात् अन्यस्य पदार्थस्य अपायः जायते इत्याशयः), सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति** । यथा -
  • 1. वृक्षात् पर्णं पतति इति क्रियायाम् "पर्णस्य वृक्षात् पृथक्करणं" भवति । अत्र "वृक्ष"पदार्थः अवधिभूतः, अतः अत्र "वृक्ष"पदार्थस्य **अपादानसंज्ञा** भवति ।
  • 2. देवदत्तः धावतः अश्वात् पतति इति क्रियायाम् "देवदत्तस्य अश्वात् पृथक्करणं" भवति । अत्र "अश्व"पदार्थः अवधिभूतः, अतः अत्र "अश्व"पदार्थस्य **अपादानसंज्ञा** भवति ।
  • 3. देवदत्तः ग्रामात् निर्गच्छति इति क्रियायाम् "देवदत्तस्य ग्रामात् पृथक्करणं" भवति । अत्र "ग्राम"पदार्थः अवधिभूतः, अतः अत्र "ग्राम"पदार्थस्य **अपादानसंज्ञा** भवति ।
  • 4. कपिः पर्वताद् अवरोहति इति क्रियायाम् "कपेः पर्वतात् पृथक्करणं" भवति । अत्र "पर्वत"पदार्थः अवधिभूतः, अतः अत्र "पर्वत"पदार्थस्य **अपादानसंज्ञा** भवति ।
  • 5. देवदत्तः सार्थात् हीनः इति क्रियायाम् "देवदत्तस्य सार्थात् (= समूहात्) पृथक्करणं" भवति । अत्र "सार्थ"पदार्थः (समूहपदार्थः) अवधिभूतः, अतः अत्र "सार्थ"पदार्थस्य **अपादानसंज्ञा** भवति । **ध्रुवम् इति शब्दस्य अर्थः** सूत्रे प्रयुक्तस्य **ध्रुवम्** इति शब्दस्य अर्थः यद्यपि कोशेषु "स्थिरः" इति सामान्यरूपेण दीयते, तथापि अत्र अस्य शब्दस्य अर्थः **अवधिभूतः** इति स्वीक्रियते । यदि "ध्रुवम्" इत्यस्य अर्थः "स्थिरः" इति स्वीक्रियेत, तर्हि देवदत्तः धावतः अश्वात् पतति अस्मिन् वाक्ये "अश्व"पदार्थस्य स्थिरत्व-अभावात् अपादानसंज्ञा नैव स्यात् । परन्तु अत्रापि अपादानसंज्ञा अवश्यम् इष्यते, अतः अत्र "ध्रुवम्" इति शब्दस्य अर्थः **सः पदार्थः यः पृथक्करणस्य सीमां प्रदर्शयति** इति स्वीक्रियते । वस्तुतस्तु, **ध्रुवम्** इत्यस्य अर्थः **स्थिरः** इत्येव स्वीक्रियते चेदपि अत्र न कश्चन दोषः, यतः "स्थिरत्वम्" केवलम् "पृथक्करणस्य सन्दर्भेण" अस्ति, अन्यक्रियायाः सन्दर्भेण न । यथा, देवदत्तः धावतः अश्वात् पतति इत्यत्र यद्यपि धावनक्रियानुरोधेन अश्वस्य स्थिरत्वं नास्ति, तथापि पतनक्रियानुरोधेन तस्य स्थिरत्वमेव स्वीक्रियते, यतः अत्र अश्वः स्वयं नैव पतति । अतएव बालमनोरमाकारः ब्रूते - द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृश-चलन-अनाश्रयभूतम् ध्रुवम् । द्वौ पदार्थौ, यौ आदौ संयुक्तौ स्तः (यथा - "वृक्षः" "पर्णं" च), ताभ्याम् यदा एकः पदार्थः ("पर्णम्") अन्यस्य ("वृक्षस्य") अपेक्षया चलनं प्रारभते तदा तत्र विश्लेषः अस्ति इति उच्यते । अस्मिन् विश्लेषे द्वितीयः पदार्थः ("वृक्षः") तु प्रथमस्य ("पर्णस्य") अपेक्षया स्थिरः एव अस्ति । अयमेव विषयः **ध्रुवम्** इति शब्देन निर्दिष्टः वर्तते - इति अत्र बालमनोरमाकारस्य आशयः अस्ति । **वार्त्तिकम् - ** अस्मिन् सूत्रे भाष्ये, काशिकायां च इति वार्त्तिकं पाठ्यते । **जुगुप्सा** (घृणा, निन्दा), **विरामः** (परावृत्तिः), तथा च **प्रमादः** (कर्तव्यविस्मरणम्) - एतेषाम् अर्थानाम् सन्दर्भेण अपि अपादानं भवति - इति अस्य वार्त्तिकस्य आशयः । क्रमेण स्पष्टीकरणम् एतादृशम् -
  • 1. जुगुप्सा - जुगुप्सा इत्युक्ते **निन्दा, घृणा** । यस्य पदार्थस्य विषये निन्दा प्राकट्यते, तस्य **अपादान**संज्ञा भवति । यथा - पापात् जुगुप्सति । पापस्य निन्दां करोति इत्यर्थः । एवमेव, पापात् बीभत्सते । अत्र द्वयोः अपि उदाहरणयोः पापपदार्थस्य अपादानसंज्ञा भवति ।
  • 2. विरामः - विरामः इत्युक्ते **कस्माच्चित् पदार्थात् चित्तनिवृत्तिः** । यस्मात् पदार्थात् चित्तनिवृत्तिः भवति, तस्य **अपादान**संज्ञा भवति । यथा - पापात् विरमति । पापस्य चिन्तनं न करोति इत्याशयः । एवमेव, पापात् निवर्तते । उभयत्र पापपदार्थस्य अपादानसंज्ञा जायते ।
  • 3. प्रमादः - प्रमादः इत्युक्ते **स्वकर्तव्यात् विमोहः / परावृत्तिः** । यस्मात् पदार्थात् एतादृशी परावृत्तिः भवति, तस्य **अपादान**संज्ञा भवति । यथा - धर्मात् प्रमाद्यति । स्वधर्मस्य पालनं न करोति इत्याशयः । एवमेव धर्मात् मुह्यति । उभयत्र धर्मशब्दस्य अपादानसंज्ञा भवति । **अपादानस्य निर्देशार्थम् पञ्चम्याः प्रयोगः** विभक्तिप्रकरणे **अपादाने पञ्चमी** (2.3.28) इति सूत्रं पाठ्यते । **यस्मिन् पदार्थे अपादानशक्तिः विद्यते, तस्य पदार्थस्य शब्देन निर्देशार्थम् पञ्चमीविभक्तेः प्रयोगः भवति** - इति अस्य सूत्रस्य आशयः । यथा, वृक्षात् पर्णं पतति इत्यत्र "वृक्ष"पदार्थे विद्यमानाम् अपादानशक्तिं दर्शयितुम् "वृक्ष"शब्दात् पञ्चमीविभक्तेः प्रत्ययस्य प्रयोगः कृतः अस्ति । **अपादानस्य त्रयः भेदाः** वाक्यपदीये साधनसमुद्देशे भर्तृहरिणा अपादानस्य त्रयः भेदाः उक्ताः सन्ति - निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ (वाक्यपदीये 3.7.136) अपादानं त्रिविधम् अस्ति - **(अ) निर्दिष्टविषयम् अपादानम्**, **(आ) उपात्तविषयम् अपादानम्**, तथा च **(इ) अपेक्षितक्रियम् अपादानम्** । एतानि त्रीणि अपि अपादानानि प्रकृतसूत्रेणैव सिद्ध्यन्ति । एतेषाम् अर्थाः, उदाहरणानि च एतादृशानि -
  • 1. निर्दिष्टविषयम् अपादानम् यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः दृश्यते, तत् अपादानम् **निर्दिष्टविषयम् अपादानम्** इत्युच्यते । यथा - वृक्षात् पर्णं पतति, ग्रामाद् आगच्छति, पर्वताद् अवरोहति - इत्यादिकम् ।
  • 2. उपात्तविषयम् अपादानम् उपात्तम् इत्युक्ते **कथञ्चित् प्राप्तम्** । यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः न वर्तते, परन्तु अन्यस्यां कस्यांश्चित् क्रियायाम् "अपायः" गर्भितः अस्ति (इत्युक्ते तस्याः क्रियायाः माध्यमेन अपायः जायते), तत्र विद्यमानम् अपादानम् **उपात्तविषयम् अपादानम्** अस्ति इत्युच्यते । यथा - बलाहकात् विद्युत् विद्योतते (The lightening shines from the clouds) । अत्र "विद्योतते" इति मुख्या क्रिया अस्ति । परन्तु अस्याः क्रियायाः पूर्त्यर्थम् विद्युतः मेघात् निष्क्रमणम् अपि भवति । अनेन प्रकारेण अत्र मेघात् विद्युतः अपायः अप्रत्यक्षरूपेण "विद्योतते" अनया क्रियया प्रदर्शितः वर्तते । अतः अत्र "उपात्तविषयम् अपादानम् अस्ति" इति स्वीक्रियते । एवमेव, कुसुलात् पचति इत्यस्य अर्थः "कुसुलदेशात् पचनसामग्रीम् आनीय पचति" इति अस्ति । अत्रापि मुख्यक्रिया "पचति" इति अस्ति, तथापि अस्यां क्रियायाम् "पचनसामग्रेः कुसुलदेशात् पृथक्करणम्" इति अपायः अपि गर्भितः वर्तते । अतः इदम् अपि उपात्तविषयकस्य अपादानस्य उदाहरणम् ।
  • 3. अपेक्षितक्रियम् अपादानम् यत्र वाक्ये काऽपि क्रिया निर्दिष्टा नास्ति, परन्तु सन्दर्भं दृष्ट्वा समुचितायाः क्रियायाः अध्याहारं च कृत्वा तस्याः आधारेण अपायस्य ज्ञानं भवति, तत्र **अपेक्षितक्रियम् अपादानम्** अस्ति इत्युच्यते । यथा - कुतो भवान् ? अहं पाटलीपुत्रात् इत्यस्मिन् संवादे न काचित् क्रिया स्पष्टरूपेण दृश्यते । परन्तु अत्र सन्दर्भं दृष्ट्वा "इयं चर्चा आगमनक्रियायाः सन्दर्भेण अस्ति" इति निर्णयः भवितुम् अर्हति । अस्याम् आगमनक्रियायाम् "पाटलीपुत्र"पदार्थस्य अवधिभूतत्वात् अपादानसंज्ञा अपि जायते । इदम् अपेक्षितक्रियम् अपादानम् । ** इति वार्त्तिकस्य अनावश्यकता** प्रकृतसूत्रस्य भाष्ये भाष्यकारेण इति वार्त्तिकं अवश्यं पाठितम् अस्ति; परन्तु तत्रैव अग्रे सः **इदं वार्त्तिकम् अनावश्यकम् अस्ति** इत्यपि ब्रूते - तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । - महाभाष्यम् अत्र भाष्यकारस्य आशयः अयम् - **जुगुप्सा**, **विरामः**, तथा च **प्रमादः** इत्येताभिः क्रियाभिः **उपात्तविषयम्** अपादानं दीयते, यत् सूत्रस्यैव आधारेण ज्ञापयितुम् शक्यम् । तत्कथम् इति चेत्, पापात् जुगुप्सति इत्यत्र आदौ बुद्धौ *अहं पापं न करिष्यामि* इति निर्णयं कृत्वा, ततः पापात् स्वस्य पृथक्करणं क्रियते, अतः जुगुप्सक्रियायाम् अपायः अवश्यमेव गर्भितः वर्तते । एवमेव, विरामस्य प्रमादस्य चापि विषये बुद्ध्याः निवृत्तिः अवश्यं भवति, अतश्च तत्रापि अपायः अवश्यमेव गर्भितः अस्ति इति भाष्यकारस्य आशयः अस्ति । अनेन प्रकारेण तिसृषु अपि क्रियासु अपायस्य उपस्थितित्वात्, **ध्रुवमपायेऽपादानम्** (1.4.24) इति प्रकृतसूत्रेणैव त्रयाणाम् अपि विषयाणाम् सन्दर्भेण अपादानसंज्ञा सम्भवति, तदर्थम् पृथक् वार्त्तिकम् अनावश्यकम् एव ज्ञेयम् - इति निर्णयः भाष्यकारेण अत्र दत्तः अस्ति । Vasu English Summary -------------------- A noun whose relation to an action is that of a fixed point from which departure takes place is called अपादान or Ablation. Vasu English Translation ------------------------ A noun whose relation to an action is that of a fixed point from which departure takes place is called अपादान or Ablation. This defines the Ablation or *Apadana* *karaka*. Thus ग्रामादागच्छति he comes from the village. पर्वतादवरोहति he descends from the mountain. स्वार्थाद्धीनः lost his object. रथात् पतितः fallen from the chariot. The *Apadana* takes the 5th case-affix (2.3.28) and the above examples show this. When therefore this relation is to be expressed, 'the fixed point (like *grama*, *purvata* &c., in the above) which is the limit denoted by a word dependent on a verb, is called ablation.' Vart:- The objects of verbs denoting 'aversion,' 'cessation' and 'negligence' are also called ablation. Thus:- अधर्माञ्जुगुप्सते he dislikes injustice; अधर्माद्विरमति he ceases from injustice. धर्मात्प्रमाद्यति he neglects justice. Bhashya ------- ध्रुवमपायेऽपादानम् (264) ध्रुवग्रहणं किमर्थम् ? ग्रामादागच्छति शकटेन। नैतदस्ति । करणसंज्ञाऽत्र बाधिका भविष्यति। इदं तर्हि - ग्रामादागच्छन्कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति । अत्राप्यधिकरणसंज्ञा बाधिका भविष्यति । इदं तर्हि - वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति । जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ॥ 1 ॥ जुगुप्साविरामप्रामादार्थानामुपसंख्यानं कर्तव्यम् । जुगुप्सा - अधर्माज्जुगुप्सते । अधर्माद्बीभत्सते। विराम - धर्माद्विरमति । धर्मान्निवर्तते । प्रमाद - धर्मात्प्रमाद्यति । धर्मान्मुह्यति । इदं चोपसंख्यानं कर्तव्यम् - सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति । तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - -अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । इह च साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति यस्तैः साम्यं गतवान्भवति स एतत्प्रयुङ्क्ते । गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् ॥ 2 ॥ गतियुक्तेष्वपादानसंज्ञा नोपपद्यते । रथात्प्रवीतात्पतितः । अश्वात्र्रस्तात्पतितः। सार्थाद्गच्छतो हीन इति । किं कारणम् ? अध्रुवत्वात् । न वाऽध्रौव्यस्याविवक्षितत्वात् ॥ 3 ॥ न वैष दोषः । किं कारणम् ? अध्रौव्यस्याविवक्षितत्वात् नाऽत्राऽध्रौव्यं विवक्षितम् । किं तर्हि ? ध्रौव्यम् । इह तावदश्वात्त्रस्तात्पतित इति, यत्तदश्वेऽश्वत्वमाशुगामित्वं तद्ध्रुवं तच्च विवक्षितम् । रथात्प्रवीतात्पतित इति यद्रथे रथत्वं रमन्तेऽस्मिन् रथ इति तद्ध्रुवं तच्च विवक्षितम् । सार्थाद्गच्छतो हीन इति, यत्तत्सार्थे सार्थत्वं सहार्थीभावस्तद्ध्रुवं तच्च विवक्षितम् । यद्यपि तावदत्रैतच्छक्यते वक्तुम्। ये त्वेतेऽत्यन्तंगतियुक्तास्तत्र कथम् - धावतः पतितस्त्वरमाणात्पतित इति ? अत्रापि - ।न वाऽध्रौव्यस्याऽविवक्षितत्वादित्येव सिद्धम्। कथं पुनः सतो नामाऽविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा - अलोमिका एडका। अनुदरा कन्येति । असतश्च विवक्षा भवति - समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति ॥ 24 ॥ Kashika ------- ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारकमपादानसंज्ञं भवति। ग्रामादागच्छति। पर्वतादवरोहति। सार्थाद् धीनः। रथात् पतितः॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्॥ अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः — **अपादाने पञ्चमी** (२.३.२८) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥ Balamanorama ------------ **ध्रुवमपायेऽपादानम्** - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः । Tattvabodhini ------------- **ध्रुवमपायेऽपादानम्** - ध्रुवमपाये ।ध्रु गतिस्थैर्ययोः॑ अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ् ।ध्रुव स्थेर्ये॑ इति केचित् । तत्रइगुपध — ॑इति कः । ध्रुवं स्थिरम् । अपायशब्देन विवक्षितमाह — विश्लेष इति । एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम् । तच्चाऽर्थादवधिरेवेत्याह — अवधिभूतमिति । धावत इति । इह धावनक्रियाविशिष्टस्याऽप्यआस्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते,परस्परस्मान्मेषावपसरतः॑ इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते । उक्तं च हरिणा — ॒अपाये यदुदासीनां चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते । पततो ध्रुव एवास्वो यस्मादआआत्पतत्यसौ । तस्याप्यआस्य पतेन कुडआदि ध्रुवमिष्यते । मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति ।पर्वतात्पततोऽआआत्पतती॑त्यत्र तु पर्वतावधिकपतनाश्रयो योऽआस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्,उद्धृतौदन स्थाली॑ त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात् । एतच्च मनोरमायां स्थितम् । नन्विह ध्रुवग्रहणं किमर्थम् । न चग्रामादागच्छति शकटेने॑त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत् । अत्र वदन्ति — कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति ।जुगुप्साविरामप्रमादार्थानासुपसंख्यानम् । जुगुप्सेति । जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः । संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः । भाष्याकारस्तु — कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं,भीत्रार्थानाम् -॑इत्यादि सूत्राणि च प्रत्याचख्यौ । पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः । Padamanjari ----------- ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु'ध्रुव गतिस्थैर्ययोः' इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च - अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव'भीत्रार्थानाम्' इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत् - निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन - अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति - धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि'कारके' इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥ Nyaas ----- अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह - `ध्रुवं यदापायमुक्तम्` इति। `अपाये साध्ये` इति। विषयसप्तमीयम्। अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे - ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह - `अवधिभूतम्` इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽआआत् पतित इत्येवमादावप्यपादानसंज्ञा अआआदेः सिद्धा भवति। असति ह्यत्रापि सत्यपि चलत्वेऽआआदेरप्यपायेऽवधिभावः।अथेह कथमपादानसंज्ञा - अधर्याज्जुगुप्सते, अधर्माद्विरमति, धर्मात्प्रमाद्यतीति, न ह्यत्रापायोऽस्ति? कथम्? कार्यसम्प्राप्तिपूर्वको ह्रपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह - `जुगुप्सा` इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - `अपादानम्िति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम् - यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा - अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति - दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति - `नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति` स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते। तथा च ध्रुवमपायेऽपादानमित्येवं स#इद्धम्। `प्रमाद्यति` इति। `मदी हेर्षे` (धातुपाठः-1208), **शमामष्टानां दीर्घः श्यनि** (7.3.74) इति दीर्घः। अथेह कथमपादानसंज्ञा - ग्रामान्नागच्छतीति? कथञ्च न स्यात्? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः? नैष दोषः अत्र ह्रपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्रपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्। तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः। Praudhamanorama --------------- **ध्रुवमिति।** ध्रु गतिस्थैर्ययोः, अस्मात्कुटादेः पचाद्यच्। ध्रुव स्थैर्ये इति पाठे तु इगुपधलक्षणः कः। ध्रुवं—स्थिरम्, प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयः। तच्चार्थादवधेरेवेत्याह— Prakriyasarvasvam ----------------- कस्यचिदपगमे सति यत् पूर्वस्मादविशेषं तदपादानसंज्ञम् ।। Vartika ------- जुगुप्साविरामप्रमादार्थनामुपसंख्यानम् । Sutra Prayogas -------------- * **मुनिव्रतात्** (कुमारसम्भवम्): `ध्रुवमपायेऽपादानम्` इति सूत्रेण अपादानत्वसिद्धिः। * **वृक्षाद्** (भट्टिकाव्यम्): `ध्रुवमपायेऽपादानम्` इति अपादानसंज्ञायां पञ्चमी।