14022: द्व्येकयोर्द्विवचनैकवचने =============================== **Padacheda:** द्वि-एकयोः | S | 7 | 2 | द्विवचन-एकवचने | S | 1 | 2 | Sutrartha --------- **द्वित्वस्य निर्देशार्थम् द्विवचनसंज्ञकप्रत्ययाः, तथा च एकत्वस्य निर्देशार्थम् एकवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालौ गच्छतः, बालः गच्छति ।** यत्र **द्वित्वस्य** निर्देशः करणीयः, तत्र **द्विवचनसंज्ञकप्रत्ययाः** एव प्रयोक्तव्याः, तथा च यत्र **एकत्वस्य** निर्देशः करणीयः, तत्र **एकवचनसंज्ञकप्रत्ययाः** एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा -
  • 1. बालौ गच्छतः इत्यत्र बालकपदार्थस्य द्वित्वनिर्देशार्थम् "बाल"-प्रातिपदिकात् **द्विवचनसंज्ञकः** "औ"-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः द्वौ कर्तारौ दर्शयितुम् "गम्"-धातोः **द्विवचनसंज्ञकः** "तस्" इति प्रत्ययः प्रयुक्तः अस्ति ।
  • 2. बालः गच्छति इत्यत्र बालकपदार्थस्य एकत्वनिर्देशार्थम् "बाल"-प्रातिपदिकात् **एकवचनसंज्ञकः** "सुँ"-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः एकं कर्तारं दर्शयितुम् "गम्"-धातोः **एकवचनसंज्ञकः** "तिप्" इति प्रत्ययः प्रयुक्तः अस्ति । **द्विवचनम्, एकवचनम् इति संज्ञे** अष्टाध्याय्याम् **द्विवचनम्** तथा च **एकवचनम्** इति संज्ञे द्वाभ्यां सूत्राभ्यां पाठ्येते -
  • 1. **तान्येकवचनद्विवचनबहुवचनान्येकशः** (1.4.102) इति सूत्रेण आहत्य **तस्**, **थस्**, **वस्**, **आताम्**, **आथाम्** तथा च **वहि** इति षण्णाम् "तिङ्"-प्रत्ययानाम् द्विवचनम्, तथा च **तिप्**, **सिप्**, **मिप्**, **त**, **थास्** तथा च **इट्** इति अन्येषां षण्णाम् "तिङ्"-प्रत्ययानाम् एकवचनम् इति संज्ञा विधीयते ।
  • 2. **सुपः** (1.4.103) इति सूत्रेण आहत्य **औ**, **औट्**, **भ्याम्**, **भ्याम्**, **भ्याम्**, **ओस्** तथा च **ओस्** एतेषां सप्तानां "सुप्"-प्रत्ययानाम् द्विवचनम्, तथा च **सुँ**, **अम्**, **टा**, **ङे**, **ङसिँ**, **ङस्** तथा च **ङि** इति अन्येषां सप्तानाम् "सुप्"-प्रत्ययानाम् एकवचनम् इति संज्ञा विधीयते । एतेषाम् द्विवचनसंज्ञकप्रत्ययानाम् एकवचनसंज्ञकप्रत्ययानां च प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण - **यत्र द्विवचनस्य विवक्षा अस्ति, तत्रैव द्विवचनस्य प्रत्ययः प्रयोक्तव्यः; यत्र च एकवचनस्य विवक्षा अस्ति तत्र एकवचनस्य प्रत्ययः प्रयोक्तव्यः ** - इति **नियमः** कृतः अस्ति । अतः **इदं नियमसूत्रम् **। **द्वित्वभिन्नस्थलेषु अपि द्विवचनस्य प्रयोगः** "तिष्यः च पुनर्वसू च" इति द्वन्द्वसमासं कृत्वा "तिष्यपुनर्वसु" इति यत् प्रातिपदिकं सिद्ध्यति, तस्य विषये **तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्** (1.2.63) इति सूत्रेण बहुत्वनिर्देशार्थम् अपि **द्विवचनसंज्ञकप्रत्ययाः एव** विधीयन्ते । यथा - उदितौ तिष्यपुनर्वसू दृश्येते इति । Sutrartha (English) ------------------- For referring to two, the द्विवचन forms are used, where as for referring to one, the एकवचन forms are used. Vasu English Summary -------------------- The dual and singular case-affixes are employed severally in the sense of duality and unity. Vasu English Translation ------------------------ The dual and singular case-affixes are employed severally in the sense of duality and unity. This is also clear. When duality is to be expressed, a dual case-affix should be employed, and in the case of unit, the singular case-affix. Thus ब्राह्मणौ पचतः the two *Brahmins* cook. ब्राह्मणः पचति the *Brahmin* cooks. Kashika ------- द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचने भवतः। एतदपि सामान्यविहितयोर्द्विवचनैकवचनयोरर्थाभिधानम्। द्वित्वे द्विवचनं भवति, एकत्व एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति॥ Siddhanta Kaumudi ----------------- द्वित्वैकत्वयोरेते स्तः ॥ Laghu Siddhanta Kaumudi ----------------------- द्वित्वैकत्वयोरेते स्तः॥ Balamanorama ------------ **द्व्येकयोर्द्विवचनैकवचने** - द्वयेकयोः ।द्वयेकयो॑रिति भावप्रधानो निर्देशः, अन्यथाद्वयके॑ष्विति स्यादित्यभिप्रेत्य व्याचष्टे — द्वित्वैकत्वयोरिति । Tattvabodhini ------------- **द्व्येकयोर्द्विवचनैकवचने** - द्वयेकयोः । इहद्वयेक॑शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह — द्वित्वैकत्वयोरिति । सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः । Padamanjari ----------- द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र'संख्याया अल्पीयस्यः' इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥ Nyaas ----- `द्व्येकयोः` इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। `एतदपि` इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। `अर्थाभिधानम्` इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्॥ Prakriyasarvasvam ----------------- द्वित्वैकत्वयोरर्थयोः क्रमादेते स्तः । इत्येकवचनं सु । कृष्ण सु उलोपः । ‘ससजुषो रुः’ (८-२-६६) इति रुः । ‘खरवसानयोः-’ (८-३-१५) इति विसर्गः । कृष्णः । सामान्येनैकवचनं वाच्यं नैकत्व एव तत् । सङ्ख्याहीनेऽप्यव्ययादौ तेनैकवचनं भवेत् ॥ ५७५ ॥ द्विवचने त्वर्थद्वित्वाद् द्विष्प्रयोगः । कृष्ण कृष्ण औ । ‘सरूपाणाम्—’ (१–२–६४) इत्येकशेषः । कृष्ण औ ॥ Sarala ------ **द्व्येकयोरिति** । भाष्यकृता - तु "एकवचनम्" इति सामान्यसूत्रं कृत्वा तस्य बाधकं "द्विबह्वोर्द्विवचनबहुवचने" इति सूत्रं कृत्वा एकपदं प्रत्याख्यातम् । तथा चोच्चैरित्याद्यव्ययेभ्योऽप्येकवचनं सिद्ध्यति । प्रातिपदिकार्थगते एकत्वे विवक्षिते एकवचनं, द्वित्वे विवक्षिते द्विवचनमिति च सूत्रार्थः ॥ Sudha ----- **द्व्येकयोरिति ।** द्व्येकयोरिति भावप्रधाननिर्देशः । अन्यथा द्व्येकेष्विति स्यादित्यभिप्रेत्याह - **द्वित्वैकत्वयोरिति ।**