14011: संयोगे गुरु¶
Padacheda: संयोगे | S | 7 | 1 |
गुरु | S | 1 | 1 |
Sutrartha¶
संयोगे परे ह्रस्वस्वरः गुरुसंज्ञकः भवति ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण संयोगः विद्यते चेत् तस्य ह्रस्वस्वरस्य **गुरु इति संज्ञा भवति ** — इति अस्य सूत्रस्य आशयः । यथा-
<li>1. “अर्थ” इति शब्दे आदिस्थः अकारः गुरुसंज्ञकः अस्ति, यतो हि अस्मात् अकारात् अनन्तरम् अव्यवहितरूपेण रेफ-थकार-संयोगः विद्यते । <li>1. “मित्र” इति शब्दे मकारोत्तरः इकारः गुरुसंज्ञकः अस्ति । <li>2. “पुष्प” इति शब्दे पकारोत्तरः उकारः गुरुसंज्ञकः अस्ति । <li>3. “कृष्ण” इति शब्दे ककारोत्तरः ऋकारः गुरुसंज्ञकः अस्ति ।
गुरुसंज्ञया लघुसंज्ञायाः बाधः
ह्रस्वस्वरस्य ह्रस्वं लघु (1.4.10) इत्यनेन औत्सर्गिकरूपेण लघुसंज्ञायां प्राप्तायाम्, तस्मात् स्वरात् अव्यवहितपरः संयोगः अस्ति चेत्, तस्यैव स्वरस्य संयोगे गुरु (1.4.11) इति सूत्रेण गुरुसंज्ञा अपि भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारात् पूर्वं प्राप्तां लघुसंज्ञाम् बाधते । यस्य ह्रस्वस्वरस्य गुरुसंज्ञा भवति, तस्य लघुसंज्ञा न भवति इत्यर्थः ।
गुरुसंज्ञायाः प्रयोजनम्
गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । अस्य द्वे उदाहरणे एतादृशे - <listsp> <li>1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् गुरोश्च हलः (3.3.103) इति सूत्रेण “अ” इति कृत्प्रत्ययः भवति । यथा “कुण्ड्” इति धातोः अनेन सूत्रेण “अ”-प्रत्यये कृते “कुण्डा” इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
कुडिँ (दाहे, भ्वादिः, (1.303))
→ कुन्ड् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः]
→ कुन्ड् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः ककारोत्तरः उकारः **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञकः अस्ति । अतः **गुरोश्च हलः** (3.3.103) इति सूत्रेण अस्मात् धातोः "अ"-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इति "टाप्"-प्रत्ययः अपि विधीयते ।]
→ कुण्ड् + अ + आ [**नश्चापदान्तस्य झलि** (8.3.24), **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति नकारस्य अनुस्वार-परसवर्णौ]
→ कुण्डा [**अकः सवर्णे दीर्घः** (6.1.101) ]
<li>2. यः धातुः इजादिः अस्ति, तथा च यस्मिन् **गुरुसंज्ञकः स्वरः ** विद्यते, तादृशात् धातोः लिट्लकारस्य प्रक्रियायाम् “आम्” इति प्रत्ययः विधीयते । यथा -
इविँ (व्याप्तौ, (1.670)
--> इन्व् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः]
--> इन्व् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ इन्व् + आम् + ल् [इन्व्-धातौ विद्यमानः इकारः **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञकः भवति । अतः अस्मात् धातोः लिट्लकारप्रक्रियायाम् **इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) इति "आम्"-प्रत्ययः विधीयते ।]
→ इन्व् + आम् [**आमः** (2.4.81) इति लकारप्रत्ययस्य लुक् ]
→ इन्व् + आम् + चकार [ **कृञ्चानुप्रयुज्यते लिटि** (3.1.40) इति कृ-धातोः अनुप्रयोगः । **आम्प्रत्ययवत् कृञोनुप्रयोगस्य** (1.3.63) इति तस्य परस्मैपदे प्रयोगः । तस्य प्रथमपुरुषैकवचनम् "चकार" इति]
→ इन्वाञ्चकार [**मोऽनुस्वारः** (8.3.23) इति मकारस्य अनुस्वारः, ततः **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः ]
</listsp>
अष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः
अष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —
गुरोश्च हलः (3.3.103)
इजादेश्च गुरुमतोऽनृच्छः (3.1.36)
**अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ** (4.1.78)
योपधाद्गुरूपोत्तमाद्वुञ् (5.1.132)
**गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ** (8.2.86)
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
Sutrartha (English)¶
A ह्रस्व स्वर which is followed by a संयोग gets the term गुरु.
Vasu English Summary¶
When a conjunct consonant follows a short vowel is termed गुरु ‘heavy’.
Vasu English Translation¶
When a conjunct consonant follows a short vowel is termed गुरु ‘heavy’. A hrasva vowel however is not to be called ‘light’ when it is followed by a conjunct consonant. As the i of शिक्षा ‘learning’ is a heavy vowel. Thus शिक्षा is derived from शिक्ष + अ (3.3.103), (let the affix अ come after that verb which has a heavy vowel and ends in a consonant when the word to be formed is feminine). So also कुण्डा and भिक्षा.
Kashika¶
ह्रस्वमिति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा। भिक्षा। गुरुप्रदेशाः — गुरोश्च हलः (३.३.१०३) इत्येवमादयः॥
Siddhanta Kaumudi¶
संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi¶
संयोगे परे ह्रस्वं गुरु स्यात् ॥
Laghu Shabdendushekhar¶
संयोगे गुरु। भेत्ता इत्यादौ गुणस्तु क्नो: कित्त्वसामर्थ्येन भूतपूर्वलघूपधग्रहणाद् बोध्यः ।
Balamanorama¶
संयोगे गुरु - संयोगे गुरु ।ह्रस्व॑मित्यनुवर्तते । तदाह — संयोगे पर इत्यादिना ।
Nyaas¶
कुण्डा, हुण्डा इति। कुडि दाहे (धातुपाठः-270), हुडि सङ्घाते (धातुपाठः-269), नुम्विधावुपदेशिवद्वचनादुपदेशावस्तायामेव नुम्। शिक्षा, भिक्षा इति। शिक्ष विद्योपादाने (3.3.103) इत्यकारप्रत्ययः, अजाद्यतष्टाप (4.1.4) ॥
Prakriyasarvasvam¶
संयोगे परे तु ह्रस्वं¹ गुरुसंज्ञम् । एका संज्ञेत्युक्तेरत्र ह्रस्वस्य लघुत्वं न ।
Sutra Prayogas¶
गृणद्भ्यो (भट्टिकाव्यम्): अनु-प्रतिगृणश्च इति सम्प्रदानसंज्ञा।