14010: ह्रस्वं लघु

Padacheda: ह्रस्वम् | S | 1 | 1 |

लघु | S | 1 | 1 |

Sutrartha

ह्रस्वस्वरः लघुसंज्ञकः भवति ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा लघु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः ह्रस्वः अस्ति, तस्य औत्सर्गिकरूपेण **लघु इति संज्ञा भवति **— इति अस्य सूत्रस्य आशयः । यथा-

<li>1. “शिव” इति शब्दे शकारोत्तरः इकारः, वकारोत्तरः अकारः च लघुसंज्ञकौ स्तः । <li>2. “स्मृति” इति शब्दे मकारोत्तरः ऋकारः, तकारोत्तरः इकारः च लघुसंज्ञकौ स्तः । <li>3. “गुरु” इति शब्दे गकारोत्तरः उकारः, रेफोत्तरः उकारः च लघुसंज्ञकौ स्तः ।

लघुसंज्ञायाः प्रयोजनम्

लघुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । त्रीणि उदाहरणानि एतानि - <listsp> 1. पुगन्तलघूपधस्य च (7.3.86) अनेन सूत्रेण सार्वधातुके, आर्धधातुके वा प्रत्यये परे अङ्गस्य उपधा-लघु-वर्णस्य गुणादेशः भवति । यथा, “तृच्”-प्रत्यये परे “भिद्”-धातोः उपधा-इकारस्य ह्रस्वत्वात् लघुसंज्ञायां सत्याम् गुणादेशे (एकारे) कृते “भेत्तृ” इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —

भिदिँर् (विदारणे, रुधादिः, (7.2))
→ भिद् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच्-प्रत्ययः]
→ भेद् + तृ [**पुगन्तलघूपधस्य च** (7.3.86) इति **उपधा-लघु-वर्णस्य** गुणादेशः । इकारस्य गुणः एकारः]
→ भेत् + तृ [**खरि च** (8.4.55) इति चर्त्वम्]
→ भेत्तृ

<li>2. यस्मिन् प्रातिपदिके अन्तिमः स्वरः इक्-प्रत्याहारस्थः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) लघुसंज्ञकः अस्ति, तस्मात् इगन्ताच्च लघुपूर्वात् (5.1.131) अनेन सूत्रेण भावार्थे “अण्” इति तद्धितप्रत्ययः विधीयते । यथा, “मुनि” इति शब्दे अन्तिमः स्वरः इक्-प्रत्याहारस्थः (= इकारः) तथा च उपोत्तमः स्वरः उकारः (= लघुसंज्ञकः) अस्ति इति कारणात् अस्मात् शब्दात् भावार्थे “अण्”-प्रत्ययः भवति । प्रक्रिया इयम् —

मुनि + अण् [**इगन्ताच्च लघुपूर्वात्** (5.1.131) इति अण्]
--> मौनि + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
--> मौन् + अ [**यस्येति च** (6.4.148) इति इकारलोपः]
--> मौन

<li>3. यस्मिन् धातौ उपधायां लघुस्वरः विद्यते, तस्मात् विहितस्य “णिच्”-प्रत्ययस्य “ल्यप्”-प्रत्यये परे ल्यपि लघुपूर्वात् (6.4.146) इत्यनेन अयादेशः भवति । यथा -

प्र + कथ (स्तेये, (10.1)) + णिच् + ल्यप्
--> प्र + कथ् + इ + य [**अतो लोपः** (6.4.48) इति अकारलोपः]
--> प्र + कथ् + अय् + य [ **ल्यपि लघुपूर्वात्** (6.4.146) इति णिच्-प्रत्ययस्य अयादेशः]
--> प्रकथय्य

</listsp>

अष्टाध्याय्यां लघुसंज्ञायाः प्रयोगः

अष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः सप्तसु सूत्रेषु कृतः अस्ति —

  1. इगन्ताच्च लघुपूर्वात् (5.1.131)

  2. ल्यपि लघुपूर्वात् (6.4.56)

  3. र ऋतो हलादेर्लघोः (6.4.161)

  4. अतो हलादेर्लघोः (7.2.7)

  5. पुगन्तलघूपधस्य च (7.3.86)

  6. सन्वल्लघुनि चङ्परेऽनग्लोपे (7.4.93)

  7. दीर्घो लघोः (7.4.94)

अनुवृत्तिरूपेण तु अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।

लघुसंज्ञायाः बाधं कृत्वा गुरुसंज्ञाविधानम्

यस्मात् ह्रस्वस्वरात् अनन्तरम् संयोगः अस्ति, तस्य ह्रस्वस्वरस्य संयोगे गुरु (1.4.11) इत्यनेन अग्रिमसूत्रेण गुरु इति संज्ञा भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारसामर्थ्यात् प्रकृतसूत्रकृतां लघुसंज्ञां बाधते । यथा, “कृष्ण” अस्मिन् शब्दे विद्यमानस्य ककारोत्तरस्य ऋकारस्य संयोगे गुरु (1.4.11) इत्यनेन गुरुसंज्ञा भवति, या प्रकृतसूत्रकृतां लघुसंज्ञां बाधते ।

Sutrartha (English)

A ह्रस्व स्वर gets the term लघु.

Vasu English Summary

A short vowel is called लघु ‘light’.

Vasu English Translation

A short vowel is called लघु ‘light’. This defines the word Laghu. A hrasva vowel which has already been defined (1.2.27), is under certain circumstances called laghu or ‘light’; thus the i of भिद to break, is laghu, and by being laghu it is gunated before the affix ता + आ, as भेत्ता he will break, by virtue of the rule (6.3.8), which declares that a laghu penultimate vowel is gunated before a Sarvadhatuka or an ardhadhatuka affix. So also छेत्ता, अचीकरत् and अजीहरत्.

Kashika

मात्रिकस्य ह्रस्वसंज्ञा कृता, तस्यानेन लघुसंज्ञा विधीयते। ह्रस्वमक्षरं लघुसंज्ञं भवति। भेत्ता। छेत्ता। अचीकरत्। अजीहरत्। लघुप्रदेशाः — पुगन्तलघूपधस्य च (७.३.८६) इत्येवमादयः॥

Balamanorama

ह्रस्वं लघु - ह्रस्वं लघु । ह्रस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम् । अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि ।

Padamanjari

इह सर्पिष्ट्वामित्यत्र’ह्रस्वातादौ तद्धिते’ इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥

Nyaas

भेत्ता इति। पुगन्तलघूपधस्य च (7.3.86) इति गुणः। अचीकरत् इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,`णौ चङ्युपधायाः` (7.4.1) इति ह्रस्वः। ओः पुयण्च्यपरे (7.4.80) इति वचनं ज्ञापकम् - णौ कृतं स्थानिवद्भवतीति। चङि (6.1.11) इति कृशब्दो द्विरुच्यते। उरत् (7.4.66) इत्यत्त्वम्, रपरत्वम्, सन्वल्लघुनि (7.4.93) इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, दीर्घो लघोः (7.4.94) इति दीर्घत्वम्॥

Prakriyasarvasvam

ह्रस्वमक्षरं लघुसंज्ञम् ।