14012: दीर्घं च¶
Padacheda: दीर्घम् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
दीर्घस्वरः गुरुसंज्ञकः भवति ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः दीर्घः अस्ति, तस्य **गुरु इति संज्ञा भवति **— इति अस्य सूत्रस्य आशयः । यथा-
<li>1. “देवी” इति शब्दे दकारोत्तरः एकारः, वकारोत्तरः ईकारः च गुरुसंज्ञकौ स्तः । <li>2. “पौत्र” इति शब्दे पकारोत्तरः औकारः गुरुसंज्ञकः अस्ति । <li>3. “भूमि” इति शब्दे भकारोत्तरः ऊकारः गुरुसंज्ञकः अस्ति ।
गुरुसंज्ञायाः प्रयोजनम्
गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । द्वे उदाहरणे एतादृशे - <listsp> <li>1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् गुरोश्च हलः (3.3.103) इति सूत्रेण “अ” इति कृत्प्रत्ययः भवति । यथा “ईह्” इति धातोः अनेन सूत्रेण “अ”-प्रत्यये कृते “ईहा” इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
ईहँ (चेष्टायाम्, भ्वादिः, (1.719))
→ ईह् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः आदिस्थः ईकारः **दीर्घं च** (1.4.12) इत्यनेन गुरुसंज्ञकः अस्ति । अतः **गुरोश्च हलः** (3.3.103) इति सूत्रेण अस्मात् धातोः "अ"-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इति "टाप्"-प्रत्ययः अपि विधीयते ।]
→ ईहा [**अकः सवर्णे दीर्घः** (6.1.101) ]
<li>2. यस्मिन् प्रातिपदिके उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) गुरुसंज्ञकः अस्ति, तस्मात् भावार्थे **योपधाद्गुरूपोत्तमाद्वुञ् ** (5.1.132) इत्यनेन “वुञ्” इति प्रत्ययः विधीयते । यथा -
रमणीयस्य भावः
--> रमणीय + वुञ् ["रमणीय" इति शब्दे उपधायाम् यकारः अस्ति, तथा च उपोत्तमः स्वरः (ईकारः) गुरुसंज्ञकः अस्ति । अतः अस्मात् प्रातिपदिकात् भावार्थे **योपधाद्गुरूपोत्तमाद्वुञ् ** (5.1.132) इत्यनेन "वुञ्" इति प्रत्ययः विधीयते]
--> रमणीय + अक [**युवोरनाकौ** (7.1.1) इति "अक"-आदेशः]
--> रामणीय + अक [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
--> रामणीय् + अक [**यस्येति च** (6.4.148) इति अकारलोपः]
--> रामणीयक
अष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः
अष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —
गुरोश्च हलः (3.3.103)
इजादेश्च गुरुमतोऽनृच्छः (3.1.36)
**अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ** (4.1.78)
योपधाद्गुरूपोत्तमाद्वुञ् (5.1.132)
**गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ** (8.2.86)
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
Sutrartha (English)¶
A दीर्घ स्वर gets the term गुरु.
Vasu English Summary¶
And a long vowel is also called गुरु ‘heavy’.
Vasu English Translation¶
And a long vowel is also called गुरु ‘heavy’. This is clear the anuvritti of the word conjunct is not understood in this sutra. As i of ईहांचक्रे he endeavoured, ईक्षांचक्रे he saw. Here the letter ई is guru, and because of its being called guru, the rule (3.1.36) is applied in forming the perfect tense by the addition of the augment आस्. Thus all long vowels, and short vowels followed by conjunct consonants are guru or heavy. All other short vowels are laghu.
Kashika¶
संयोग इति नानुवर्तते। सामान्येन संज्ञाविधानम्। दीर्घं चाक्षरं गुरुसंज्ञं भवति। ईहांचक्रे। ईक्षांचक्रे॥
Siddhanta Kaumudi¶
दीर्घं च गुरुसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi¶
गुरु स्यात्॥
Laghu Shabdendushekhar¶
इति सञ्ज्ञेति । प्रथमाध्यायस्थानां सन्धिकार्योपयोगिनीनां सञ्ज्ञानां प्रकरणमिति समाप्तमित्यर्थः । तेनाऽऽम्रेडित - प्रगृह्य- भसञ्ज्ञा लोपसंज्ञाद्यनुपन्यासेऽपि न क्षति । अ अ (8.4.68) इत्याद्युपन्यासस्तु प्रासङ्गिकः ॥ इति लघुशब्देन्दुशेखरे संज्ञाप्रकरणम् ॥
Balamanorama¶
दीर्घं च - दीर्घं च । संयोग इति नानुवर्तते । दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संज्ञाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥********************अथ सन्नन्तप्रक्रिया ।अथ सन्प्रक्रिया निरूप्यन्ते ।
Nyaas¶
ईहाञ्चक्रे, उहाञ्चक्रे इति। आम्प्रत्ययवत् (1.3.63) इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- `इजादेश्च गुरुमतोऽनुच्छः (3.1.36) इत्यात्मप्रत्ययः॥
Prakriyasarvasvam¶
गुरुसंज्ञम् ।
Sutra Prayogas¶
प्रति (भट्टिकाव्यम्): प्रतिः प्रतिनिधि- प्रतिदानयोः इति प्रतिनिधौ कर्मप्रवचनीयत्वम्।
अधिकर्ता (भट्टिकाव्यम्): विभाषा कृञि इति या संज्ञा तस्या गत्युपसर्गसंज्ञाबाधनार्थत्वात्।