14011: संयोगे गुरु ================== **Padacheda:** संयोगे | S | 7 | 1 | गुरु | S | 1 | 1 | Sutrartha --------- **संयोगे परे ह्रस्वस्वरः गुरुसंज्ञकः भवति ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा **गुरु** इति संज्ञा अनेन सूत्रेण पाठ्यते । **ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण संयोगः विद्यते चेत् तस्य ह्रस्वस्वरस्य **गुरु** इति संज्ञा भवति ** — इति अस्य सूत्रस्य आशयः । यथा-
  • 1. "अर्थ" इति शब्दे आदिस्थः अकारः गुरुसंज्ञकः अस्ति, यतो हि अस्मात् अकारात् अनन्तरम् अव्यवहितरूपेण रेफ-थकार-संयोगः विद्यते ।
  • 1. "मित्र" इति शब्दे मकारोत्तरः इकारः गुरुसंज्ञकः अस्ति ।
  • 2. "पुष्प" इति शब्दे पकारोत्तरः उकारः गुरुसंज्ञकः अस्ति ।
  • 3. "कृष्ण" इति शब्दे ककारोत्तरः ऋकारः गुरुसंज्ञकः अस्ति । **गुरुसंज्ञया लघुसंज्ञायाः बाधः** ह्रस्वस्वरस्य **ह्रस्वं लघु** (1.4.10) इत्यनेन औत्सर्गिकरूपेण लघुसंज्ञायां प्राप्तायाम्, तस्मात् स्वरात् अव्यवहितपरः संयोगः अस्ति चेत्, तस्यैव स्वरस्य **संयोगे गुरु** (1.4.11) इति सूत्रेण गुरुसंज्ञा अपि भवति । **इयं गुरुसंज्ञा एकसंज्ञाधिकारात् पूर्वं प्राप्तां लघुसंज्ञाम् बाधते** । यस्य ह्रस्वस्वरस्य गुरुसंज्ञा भवति, तस्य लघुसंज्ञा न भवति इत्यर्थः । **गुरुसंज्ञायाः प्रयोजनम्** गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । अस्य द्वे उदाहरणे एतादृशे -
  • 1. यस्मिन् हलन्तधातौ **गुरुसंज्ञकः स्वरः** विद्यते, तस्मात् स्त्रियाम् **गुरोश्च हलः** (3.3.103) इति सूत्रेण "अ" इति कृत्प्रत्ययः भवति । यथा "कुण्ड्" इति धातोः अनेन सूत्रेण "अ"-प्रत्यये कृते "कुण्डा" इति रूपं सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text कुडिँ (दाहे, भ्वादिः, (1.303)) → कुन्ड् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः] → कुन्ड् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः ककारोत्तरः उकारः **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञकः अस्ति । अतः **गुरोश्च हलः** (3.3.103) इति सूत्रेण अस्मात् धातोः "अ"-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इति "टाप्"-प्रत्ययः अपि विधीयते ।] → कुण्ड् + अ + आ [**नश्चापदान्तस्य झलि** (8.3.24), **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति नकारस्य अनुस्वार-परसवर्णौ] → कुण्डा [**अकः सवर्णे दीर्घः** (6.1.101) ]
  • 2. यः धातुः इजादिः अस्ति, तथा च यस्मिन् **गुरुसंज्ञकः स्वरः ** विद्यते, तादृशात् धातोः लिट्लकारस्य प्रक्रियायाम् "आम्" इति प्रत्ययः विधीयते । यथा - .. code-block:: text इविँ (व्याप्तौ, (1.670) --> इन्व् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः] --> इन्व् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → इन्व् + आम् + ल् [इन्व्-धातौ विद्यमानः इकारः **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञकः भवति । अतः अस्मात् धातोः लिट्लकारप्रक्रियायाम् **इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) इति "आम्"-प्रत्ययः विधीयते ।] → इन्व् + आम् [**आमः** (2.4.81) इति लकारप्रत्ययस्य लुक् ] → इन्व् + आम् + चकार [ **कृञ्चानुप्रयुज्यते लिटि** (3.1.40) इति कृ-धातोः अनुप्रयोगः । **आम्प्रत्ययवत् कृञोनुप्रयोगस्य** (1.3.63) इति तस्य परस्मैपदे प्रयोगः । तस्य प्रथमपुरुषैकवचनम् "चकार" इति] → इन्वाञ्चकार [**मोऽनुस्वारः** (8.3.23) इति मकारस्य अनुस्वारः, ततः **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः ] **अष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः** अष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति — 1. **गुरोश्च हलः** (3.3.103) 2. **इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) 3. **अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ** (4.1.78) 4. **योपधाद्गुरूपोत्तमाद्वुञ्** (5.1.132) 5. **गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ** (8.2.86) अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते । Sutrartha (English) ------------------- A ह्रस्व स्वर which is followed by a संयोग gets the term गुरु. Vasu English Summary -------------------- When a conjunct consonant follows a short vowel is termed गुरु 'heavy'. Vasu English Translation ------------------------ When a conjunct consonant follows a short vowel is termed गुरु 'heavy'. A *hrasva* vowel however is not to be called 'light' when it is followed by a conjunct consonant. As the *i* of शिक्षा 'learning' is a heavy vowel. Thus शिक्षा is derived from शिक्ष + अ (3.3.103), (let the affix अ come after that verb which has a heavy vowel and ends in a consonant when the word to be formed is feminine). So also कुण्डा and भिक्षा. Kashika ------- ह्रस्वमिति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा। भिक्षा। गुरुप्रदेशाः — **गुरोश्च हलः** (३.३.१०३) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- संयोगे परे ह्रस्वं गुरु स्यात् ॥ Laghu Shabdendushekhar ---------------------- **संयोगे गुरु**। भेत्ता इत्यादौ गुणस्तु क्नो: कित्त्वसामर्थ्येन भूतपूर्वलघूपधग्रहणाद् बोध्यः । Balamanorama ------------ **संयोगे गुरु** - संयोगे गुरु ।ह्रस्व॑मित्यनुवर्तते । तदाह — संयोगे पर इत्यादिना । Nyaas ----- `कुण्डा, हुण्डा` इति। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269), नुम्विधावुपदेशिवद्वचनादुपदेशावस्तायामेव नुम्। `शिक्षा, भिक्षा` इति। `शिक्ष विद्योपादाने` (3.3.103) इत्यकारप्रत्ययः, `अजाद्यतष्टाप` (4.1.4) ॥ Prakriyasarvasvam ----------------- संयोगे परे तु ह्रस्वं¹ गुरुसंज्ञम् । एका संज्ञेत्युक्तेरत्र ह्रस्वस्य लघुत्वं न । Sutra Prayogas -------------- * **गृणद्भ्यो** (भट्टिकाव्यम्): `अनु-प्रतिगृणश्च` इति सम्प्रदानसंज्ञा।