14006: ङिति ह्रस्वश्च

Padacheda: ङिति | S | 7 | 1 |

ह्रस्वः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

“स्त्री” इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः , तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू, मति, भूरि, धेनु, लघु ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति <hlb>नदी</hlb> इति संज्ञा । प्रकृतसूत्रेण अस्याः नदीसंज्ञायाः द्वयोः स्थलयोः विकल्पेन विधानं क्रियते । तदित्थम् - **स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम् (यथा - “धी”, “श्री” इत्यादीनाम्) तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् (यथा - “भ्रू”, “भू” इत्यादीनाम्) यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषेधे जाते, ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते** - इति अस्य सूत्रस्य प्रथमः अंशः । अपि च, ह्रस्व-इकारान्तानाम् ह्रस्व-उकारान्तानां च स्त्रीलिङ्गवाचिनाम् (यथा - “मति”, “धेनु” इत्यादीनाम्) शब्दानाम् पूर्वसूत्रैः नदीसंज्ञायां नैव प्राप्तायाम्, **ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा विकल्पेन विधीयते** - इति अस्य सूत्रस्य द्वितीयः अंशः । क्रमेण विवरणम् एतादृशम् - <br> <hlb>1. दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्ग-इयङ्स्थानिनाम् /दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्ग-उवङ्स्थानिनाम् शब्दानाम् नदीसंज्ञा</hlb> स्त्री इति शब्दं विहाय ये शब्दाः दीर्घ-ईकारान्ताः इयङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - “धी”, “श्री” इत्यादयः) , उत दीर्घ-ऊकारान्ताः उवङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - “भ्रू”, “भू” इत्यादयः) , तेषां विषये यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषेधे जाते ङित्-प्रत्ययेषु परेषु (इत्युक्ते, **ङे, ङसिँ, ङस्, ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) एतेषां शब्दानां नदीसंज्ञा पुनः विकल्पेन विधीयते** । इत्युक्ते, एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं सिद्ध्यति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे अपरं रूपम् ** - इति । क्रमेण उदाहरणानि एतानि - <listsp> <li>**1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः

**नदीसंज्ञापक्षे** -
धी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> धी + आट् + ए  [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> धी + ऐ [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> ध् इयङ् + ऐ  [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
--> धियै
<br>
**नदीसंज्ञा-अभाव-पक्षे** -
धी + ङे  [चतुर्थी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + ए  [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
--> धिये

अनेन प्रकारेण “धी” इति शब्दस्य चतुर्थ्येकवचनस्य “ङे”-प्रत्यये परे आडागमं कृत्वा “धियै”, तथा च आडागमं विना “धिये “ इति द्वे रूपे भवतः । एवमेव “भ्रू” शब्दस्य अपि “भ्रुवै” तथा च “भ्रुवे” एते द्वे रूपे सिद्ध्यतः । <li>**2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः**

**नदीसंज्ञापक्षे** -
धी +  ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> धी + आट् + असि / अस् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> धी + आस् / आस् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> ध् इयङ् + आस् / आस् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
-->  धियाः  [रुत्वविसर्गौ]
<br>
**नदीसंज्ञा-अभाव-पक्षे** -
धी +  ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + अस् / अस् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
-->  धियः [रुत्वविसर्गौ]

अनेन प्रकारेण “धी” इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः “ङसिँ”/”ङस्”-प्रत्यययोः परयोः आडागमं कृत्वा “धियाः”, तथा च आडागमं विना “धियः “ इति द्वे रूपे भवतः । एवमेव “भ्रू” शब्दस्य अपि “भ्रुवाः” तथा च “भ्रुवः” एते द्वे रूपे सिद्ध्यतः । <li>**3. सप्तम्येकवचनस्य आम्-प्रत्ययः**

**नदीसंज्ञापक्षे** -
धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> धी + आम् [नदीसंज्ञायां सत्याम् **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति प्रत्ययस्य आम्-आदेशः]
--> धी + आट् + आम्   [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> धी + आम्  [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> ध् इयङ् + आम्  [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
--> धियाम्
<br>
**नदीसंज्ञा-अभाव-पक्षे** -
धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + इ  [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
--> धियि

अनेन प्रकारेण “धी” इति शब्दस्य सप्तम्येकवचनस्य “ङि”-प्रत्यये परे आमादेशम् आडागमं च कृत्वा “धियाम्”, तथा च तयोः विना “धियि “ इति द्वे रूपे भवतः । एवमेव “भ्रू” शब्दस्य अपि “भ्रुवाम्” तथा च “भ्रुवि” एते द्वे रूपे सिद्ध्यतः । </listsp> <br> <hlb>2. ह्रस्व-इकारान्त-उकारान्त-शब्दानां नदीसंज्ञा</hlb> “मति”, “बुद्धि”, “शक्ति”, “कृति”, “भूरि” इत्यादयः ये ह्रस्व-इकारान्ताः स्त्रीलिङ्गशब्दाः, तथा च “धेनु”, “गुरु”, “रेणु”, “रज्जु”, “तनु” इत्यादयः ये ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः, तेषां विषये पूर्वसूत्रैः अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण ङित्-प्रत्ययेषु परेषु (इत्युक्ते, ङे, ङसिँ, ङस्, ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) विकल्पेन विधीयते । अतः एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं भवति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे **शेषो घ्यसखि (1.4.7) इत्यनेन घिसंज्ञां कृत्वा अपरं रूपम् ** - इति । क्रमेण उदाहरणानि एतानि - <listsp> <li>**1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः**

**नदीसंज्ञापक्षे** -
मति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> मति + आट् + ए  [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> मति + ऐ [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> मत्यै  [**इको यणचि** (6.1.77) इति यणादेशः]
<br>
**नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** -
मति + ङे  [चतुर्थी-एकवचनस्य प्रत्ययः]
--> मते + ए  [**घेर्ङिति** (7.3.111) इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]
--> मतय् + ए [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
--> मतये

अनेन प्रकारेण “मति” इति शब्दस्य चतुर्थ्येकवचनस्य “ङे”-प्रत्यये परे नदीसंज्ञापक्षे आडागमं कृत्वा “मत्यै”, तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा “मतये “ इति द्वे रूपे भवतः । एवमेव “धेनु” शब्दस्य अपि “धेनवे” तथा च “धेन्वै” एते द्वे रूपे सिद्ध्यतः । <li>**2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः**

**नदीसंज्ञापक्षे** -
मति +  ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> मति + आट् + असि / अस् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> मति + आस् / आस् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> मत्याः  [**इको यणचि** (6.1.77) इति यणादेशः]
<br>
**नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** -
मति +  ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> मते + ए  [**घेर्ङिति** (7.3.111) इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]
--> मतेः [**ङसिङसोश्च** (6.1.110) इति पूर्वपरयोः एकादेशः]

अनेन प्रकारेण “मति” इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः “ङसिँ”/”ङस्”-प्रत्यययोः परयोः नदीसंज्ञापक्षे आडागमं कृत्वा “मत्याः”, तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा “मतेः “ इति द्वे रूपे भवतः । एवमेव “धेनु” शब्दस्य अपि “धेन्वाः” तथा च “धेनोः” एते द्वे रूपे सिद्ध्यतः । <li>**3. सप्तम्येकवचनस्य आम्-प्रत्ययः**

**नदीसंज्ञापक्षे** -
मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> मति + आम् [नदीसंज्ञायां सत्याम् **इदुद्भ्याम्** (7.3.117) इति ङि-प्रत्ययस्य आम्-आदेशः]
--> मति + आट् + आम्   [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> मति + आम्  [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> मत्याम्  [**इको यणचि** (6.1.77) इति यणादेशः]
<br>
**नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** -
मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> मत + औ  [**अच्च घेः** (7.3.119) इति प्रत्ययस्य औकारादेशः, अङ्गस्य च अकारादेशः]
--> मतौ

अनेन प्रकारेण “मति” इति शब्दस्य सप्तम्येकवचनस्य “ङि”-प्रत्यये परे नदीसंज्ञापक्षे आमादेशम् आडागमं च कृत्वा “मत्याम् “, तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् अत्वं प्रत्ययादेशं च कृत्वा “मतौ” इति द्वे रूपे भवतः । एवमेव “धेनु” शब्दस्य अपि “धेन्वाम्” तथा च “धेनौ” एते द्वे रूपे सिद्ध्यतः ।

<note>**इदुद्भ्याम्** (7.3.117) इति सूत्रम् विशिष्टरूपेण ह्रस्व-इकारान्त-नदीसंज्ञकशब्दानां विषये, ह्रस्व-उकारान्त-नदीसंज्ञकशब्दानां विषये च पाठितम् अस्ति । एतादृशेभ्यः शब्देभ्यः परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य अनेन सूत्रेण आम् आदेशः भवति । </note>

ह्रस्व-इकारान्त-उकारान्त-शब्दानां कृते नित्यस्त्रीत्वम् न आवश्यकम्

प्रकृतसूत्रे यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य कृतायाः अनुवृत्त्याः केवलं स्त्री इति शब्दः एव ह्रस्व-इकारान्त-शब्दानां विषये, तथा च ह्रस्व-उकारान्त-शब्दानां विषये उपयुज्यते । अस्य द्वौ अर्थौ स्तः -

<li>1. ** ह्रस्व-इकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते, तथैव ह्रस्व-उकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते प्रकृतसूत्रं न प्रवर्तते । अतएव “मुनि”, “वारि”, “साधु”, “मधु” - इत्यादिशब्दानां कुत्रापि नदीसंज्ञा न भवति । <li>2. ** ये ह्रस्व-इकारान्त-शब्दाः ह्रस्व-उकारान्त-शब्दाः च स्त्रीलिङ्गवाचिनः सन्ति, ते नित्यस्त्रीलिङ्गवाचिनः स्युः उत न स्युः, तेषां विषये स्त्रीलिङ्गप्रयोगे प्रकृतसूत्रस्य प्रयोगः अवश्यम् एव भवति । यथा, “भूरि”, “सुमति” इत्यादयः ह्रस्व-इकारान्ताः सर्वलिङ्गकाः शब्दाः, तथा च “लघु”, “गुरु”, इत्यादयः ह्रस्व-उकारान्ताः सर्वलिङ्गकाः शब्दाः अपि स्त्रीलिङ्गप्रयोगे ङित्-प्रत्ययेषु परेषु अवश्यम् एव विकल्पेन नदीसंज्ञकाः भवन्ति ।

**अस्त्री इति निषेधः**

<hlb>स्त्री</hlb> इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि स्त्रियाः (6.4.79) इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु “इयङ्”-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः <hlb>स्त्री</hlb>-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः <b>स्त्री-शब्दस्य विषये नैव प्रवर्तते</b> - इति स्पष्टीकर्तुम् प्रकृतसूत्रे नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री-शब्दस्य विषये ङित्-प्रत्ययेषु परेषु नित्यम् एव नदीसंज्ञाविशिष्टानि कार्याणि भवन्ति -

स्त्री  + (ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]
--> स्त्री  + (ङे / ङसिँ / ङस् / आम्) [नदीसंज्ञायां सत्याम् **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति सप्तमी-एकवचनस्य प्रत्ययस्य आम्-आदेशः]
--> स्त्री + आट् + (ए / अस् / अस् / आम्) [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः]
--> स्त्री  + (ऐ / आस् / आस् / आम्) [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> स्त्रिय् + (ऐ / आस् / आस् / आम्) [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः]
--> स्त्रियै / स्त्रियाः / स्त्रियाः / स्त्रियाम्

<note>**अस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति** । अतः, “महास्त्री”, “श्रेष्ठस्त्री”, “परमस्त्री” इत्यादीनां स्त्र्यन्तशब्दानां विषये नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः ङित्-प्रत्ययेषु परेषु अवश्यं विकल्प्यते । इत्युक्ते एतेषां ङित्-प्रत्ययेषु रूपेषु नदीसंज्ञकं कार्यं कृत्वा “महास्त्रियै”, “महास्त्रियाः”, “महास्त्रियाः”, “महास्त्रियाम्” इत्यादीनि रूपाणि, तथा च पक्षे नदीसंज्ञां विना “महास्त्रिये”, “महास्त्रियः” “महास्त्रियः”,”महास्त्रियि” इत्यादीनि अपि रूपाणि सिद्ध्यन्ति । </note>

प्रथमस्य अंशस्य कृते **स्त्र्याख्यौ इति सम्पूर्णा अनुवृत्तिः**

प्रकृतसूत्रे यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अस्य शब्दस्य अर्थः नित्यस्त्रीलिङ्गवाच्यत्वम् इति स्वीकृतः अस्ति । एतादृशं नित्यस्त्रीलिङ्गत्वं ** केवलम् दीर्घ-ईकारान्तशब्दानां कृते, दीर्घ-ऊकारान्तशब्दानां कृते एव गृह्यते** । इत्युक्ते, नित्यस्त्रीलिङ्गत्वस्य नियमः अस्य सूत्रस्य प्रथमस्य अंशस्य कृते एव अस्ति । <spacer> अत्र इदं स्मर्तव्यम्, यत् **नेयङुवङ्स्थानावस्त्री (1.4.4) इति सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते**, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां ** सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये ङित्-प्रत्ययेषु परेषु **नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां एतेषु रूपेषु आडागमः / आमादेशः अपि न भवति -

परमधी ["परमा धीः यस्य सः"  इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य <!प्रथमलिङ्गग्रहणं च!> इति सूत्रेण विहिता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते ]
--> परमधी +(ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]
--> परमध् इयङ् + (ए / अस् / अस् / इ) [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ]
--> परमधिये / परमधियः / परमधियः / परमधियि क

<spacer> <hlb>विशेषः</hlb> - “परमा धी यस्याः सा” इत्यस्मिन् अर्थे विहितस्य “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि यू स्त्र्याख्यौ नदी ** (1.4.3) इत्यनेन प्राप्ता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, ङित्-प्रत्ययेषु परेषु अस्य शब्दस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति वाऽऽमि (1.4.5) इत्यत्र सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - <inline>लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम्</inline> । यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य “परमा धी यस्याः सा” इत्यस्मिन् अर्थे विहितस्य “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि “परमधी” इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये नेयङुवङ्स्थानावस्त्री (1.4.4) इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, ङित्-प्रत्ययेषु परेषु “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - <inline>पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति (वृत्तिकारमतम्)</inline> । यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याक्या अस्ति । यथा, “परमा धीः यस्य सः / यस्याः सा” इत्यस्मिन् अर्थे सिद्धः “प्रधी” इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः “प्रधी”-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं ङित्-प्रत्ययेषु अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते । अयं काशिकाकारस्य पक्षः अस्ति । <note>काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।</note>

अप्राप्तविभाषा इयम्

अस्मिन् सूत्रे उक्तयोः द्वयोः अपि अंशयोः सन्दर्भेण पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति ।

Sutrartha (English)

Except for the word ‘स्त्री’, any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश, and any ह्रस्व-इकारान्त/हस्व-उकारान्त word optionally gets the term नदी in presence of a ङित् प्रत्यय.

Vasu English Summary

When a case-affix having an indicatory ङ् (ङित्) follows, then feminine words ending in short इ and उ are optionally termed नदी , as well as feminine nouns in long ई and ऊ which admit इयङ् and उवङ् ; but not so the word स्त्री which is always नदी।

Vasu English Translation

When a case-affix having an indicatory ङ् (ङित्) follows, then feminine words ending in short इ and उ are optionally termed नदी , as well as feminine nouns in long ई and ऊ which admit इयङ् and उवङ् ; but not so the word स्त्री which is always नदी। Feminine words in long i and u have been defined as nadi, words in short vowels can never be termed nadi, while even some words in long vowels have also been excluded from the scope of the definition if they take iyan and uvan The present sutra declares an option in the case of all the above words, when a case-affix having an indicatory ङ follows.

The case-affixes having an indicatory n are the Dative, Ablative. Genitive and Locative singulars. Thus we have:–

Dative मतये or मत्यै, धेनवे or धेन्वै, श्रिये or श्रियै; Ablative and Genitive मतेः or मत्याः, धेनो or धेन्वाः, श्रियः or श्रियाः; Locative मतौ or मत्याम्, धेनौ or धेन्वां, श्रियि or श्रियां. So also भ्रुवै or भ्रुवे & c. But stri is always स्त्र्यै &c.

Kashika

दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति वा विधीयते। ङिति परतो ह्रस्वश्च य्वोः संबन्धी यः स्त्र्याख्यः, स्त्र्याख्यावियङुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्रीत्येव — स्त्रियै। स्त्र्याख्यावित्येव — अग्नये। वायवे। भानवे॥

Siddhanta Kaumudi

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः (SK268) । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥

Laghu Siddhanta Kaumudi

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः मत्याः । मतेः मतेः॥

Balamanorama

ङिति ह्रस्वश्च - इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह — ङिति ह्रस्वश्च । अत्र चकाराद्वाक्यद्वयं, तथा हियूस्त्र्याख्यौ नदी॑त्यनुवर्तते । ईश्च ऊश्च यू ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । स्त्रियमेवाचक्षाते स्त्र्याख्यौ । नित्यस्त्रीलिङ्गाविति यावत् ।नेयङ्वङ्स्थानावस्त्री॑ति सूत्रं नञ्वर्जमनुवर्तते । इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः । इयङुवङ्प्राप्तियोग्यावित्यर्थः ।वामी॑त्यतोवे॑त्यनुवर्तते । ततश्चइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि ‘यू’ इत्यनुवर्तते । इश्च उश्च यू । ‘ह्रस्व’ इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि ‘यू’ इत्यनुवर्तते । इश्च उश्च यू । ‘ह्रस्व’ इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात् ।वामी॑त्यतो वेति चानुवर्तते । ततश्चस्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते ।तदाह — इयङुवङ्स्थानाविति । द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम् । तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तुनेयङुवङ्स्थाना॑विति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह — आण्नद्या इति । मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह — मत्यै इति । मतये इति । नदीत्वाऽभावपक्षेशेषो घ्यसखी॑ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण् । मत्याः । नदीत्वाऽभावे-मतेः । आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः । मतीनाम् । ङौ विशेषमाह — नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाऽभावात् ‘अच्च घेः’ इत्यत्वसंनियोगशिष्टमौत्वं न भवति । किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः ।

Tattvabodhini

ङिति ह्रस्वश्च - ङिति ह्रस्वश्च ।वामी॑ति सूत्राद्वेत्यनुवर्तते । अप्राप्तविभेषेयं । ह्रस्वयोरप्राप्तावितरयोस्तुनेयङुवाङ्स्थाना॑विति निषेधप्राप्तावारम्भात् । इहे॒इयङुवङ्स्थानौ॒॑स्त्रीशब्दभिन्नौ॒॑नित्यस्त्रीलिङ्गा॑विति त्रीणि ईदुतोर्विशेषणानि, ह्रस्वयोस्तुस्त्रिया॑मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात् । कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्रस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च । अतएवाऽऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह — — ह्रस्वौ च इउवर्णो स्त्रियामिति ।

Padamanjari

यद्यत्र ह्रस्वविशेषणार्थम्’यू’ इति नानुवर्त्यत, तदेहापिस्याद् - मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह - ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं’यू’ ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः’यू’ इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद्’यू’ इति लभ्यते। स्वरितत्वादनुवृतं तु’यू’ इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥

Nyaas

यद्यत्र ह्रस्वविशेषणार्थ यू इति नानुवर्तते इति नानुवर्तते, तदेहापि स्यात् - मात्रे दुहित्र इति; तस्मात् तदिहानुवर्तते। अनुवर्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोह्र्यस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठन्तमुपजायत इत्यत आह - ह्रस्वश्च य्वोः सम्बन्धी इति। कः पुनस्तयोः सम्बन्धी ह्रस्वः? यस्तयोह्र्यस्वः सवर्णः; तेन सामर्थ्यादिकारोकारयोग्र्रहणम्, न हि ताभ्यामन्यो ह्रस्व ईदुतोः सवर्णः सम्भवति। कृत्यै, कृतये इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु शेषो ध्यसखि (1.4.7) इति धिसंज्ञकत्वात् घेर्ङिति (7.3.111) गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति - अतिकृतये ब्राआहृणाय, अतिश्रियेति॥

Praudhamanorama

अप्राप्तविभाषेयम्। ह्रस्वयोरप्राप्तावितरयोस्तु ‘नेयङुवङ्स्थानौ’ इति निषेधे प्राप्ते आरम्भात्। इहेयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गाविति त्रीणि ईदूतोर्विशेषणानि, ह्रस्वयोस्तु स्त्रियामित्येव न तु नित्यस्त्रीत्वपर्यन्तम्। अन्यथा इष्वशनिप्रभृतीनामुभयलिङ्गानां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्, कैयटरीत्या नित्यस्त्रीत्वाभावात्, हरदत्तमतेऽपि ह्रस्वांशे नित्यग्रहणव्यावर्त्यालाभाच्च। अत एव आख्याग्रहणमपहाय स्त्रीशब्दमात्रं निष्कृष्य सम्बध्यते; तदेतदाह— औत्वे प्राप्त इति। परत्वादिति भावः। यत्तु प्राचा ‘औत्’ इति सूत्रे घिनदीसंज्ञावर्जिताभ्यामिति व्याख्यातं, नासावक्षरार्थः किं तु पूर्वोत्तरसूत्रद्वयलभ्यः। एवं च ‘इदुद्भ्याम्’ इति सूत्रानुपन्यसनं प्राचः प्रामादिकमेवयम् ॥

Prakriyasarvasvam

ईदूत्सम्बन्धी ह्रस्वो ङित्सुपि वा नदीसंज्ञः । चकारेण ‘नेयडुवङ्स्थानौ—’ (१-४-४) इति निषिद्धश्च ।

Sudha

ङिति ह्रस्वश्चेति । यू स्त्र्याख्यौ नदी**(1.4.3) इत्यनुवर्तते । **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति सूत्रं नञ्वर्जमनुवर्तते । **वाऽऽमि**(1.4.5) इत्यतो वेत्यनुवर्तते, तदाह - **इयङुवङ्स्थानावित्यादिना । मत्यै । ‘मति + ए अत्र ङिति ह्रस्वश्च**(1.4.6) इति नदीसंज्ञायाम् **आण्नद्याः**(7.3.112) इत्याडागमे टित्वादाद्यावयवे ‘मति-आ ए’ इति जाते ‘आटश्च’ इति वृद्धौ सत्याम् ‘ऐ’ इति भूते ‘इको यणचि’ इति यणि कृते ‘मत्यै’ इति रूपम् । नदीसंज्ञाभावे **शेषो घ्यसखि**(1.4.7) इति घिसंज्ञायां **घेर्ङिति**(7.3.111) इति गुणे कृते **एचोऽयवायावः**(6.1.78) इत्ययादेशे ‘मतये’ इति रूपं सिद्धम् । **’मत्याः’ । “मति ङसि” इत्यत्र इकारस्य ङस्य चेत्सञ्ज्ञायां लोपे च **ङिति ह्रस्वश्च**(1.4.6) इति नदीसंज्ञायाम् **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **इको यणचि**(6.1.77) इति यणि च कृते सस्य रुत्वे विसर्गे च कृते ‘मत्याः’ इति रूपम् । घिसंज्ञायां हरिवत् ।

Sutra Prayogas

  • अनन्यगुर्वाः (शिशुपालवधम्): ङिति ह्रस्वश्च इति वा नदीसंज्ञा।

  • युवत्याः (शिशुपालवधम्): ङिति ह्रस्वश्च इति वा नदीत्वादाडागमः।