14007: शेषो घ्यसखि

Padacheda: शेषः | S | 1 | 1 |

घि | S | 1 | 1 |

असखि | S | 1 | 1 |

Sutrartha

“सखि” इति शब्दं वर्जयित्वा अन्ये ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च नदी-संज्ञाभिन्नाः शब्दाः घि-संज्ञकाः भवन्ति । यथा - मुनि, वारि, मति, साधु, मधु, धेनु।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा घि इति संज्ञा प्रकृतसूत्रेण विधीयते । “सखि” इति शब्दं विहाय अन्येषाम् ह्रस्व-इकारान्तशब्दानाम्, तथा च सर्वेषाम् अपि ह्रस्व-उकारान्तशब्दानाम् यदा नदी-संज्ञा न भवति, तदा तेषाम् **घि इति संज्ञा विधीयते** - इति प्रकृतसूत्रस्य आशयः । अनेन अत्र द्विप्रकारकाः शब्दाः गृह्यन्ते - <listsp> <li>1. ** ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च पुंलिङ्ग-नपुंसकलिङ्गशब्दाः ** - एतेषां शब्दानां कदापि नदीसंज्ञा न विधीयते, अतः एतेषां प्रकृतसूत्रेण नित्यम् एव घिसंज्ञा भवति । यथा - “मुनि”, “वारि”, “गुरु”, “मधु” - इत्यादयः शब्दाः नित्यं घिसंज्ञकाः सन्ति । अत्र केवलं द्वौ अपवादौ स्तः - “सखि” इति ह्रस्व-इकारान्त-पुंलिङ्गशब्दः अत्र वर्जितः अस्ति, अतः तस्य घिसंज्ञा न विधीयते; तथा च पतिः समास एव (1.4.8) इत्यनेन अग्रिमसूत्रेण एतद् स्पष्टी भवति यत् “पति”-शब्दस्य अपि घिसंज्ञा नैव विधीयते । <li>2. ** ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः च स्त्रीलिङ्गशब्दाः ** - एतेषां ङित्-प्रत्ययेषु परेषु ङिति ह्रस्वश्च (1.4.6) इत्यनेन विकल्पेन नदीसंज्ञा भवति । तस्मिन् पक्षे एतेषां शब्दानां घिसंज्ञा न भवति । परन्तु नदीसंज्ञा-अभावपक्षे, एतेषां घिसंज्ञा अवश्यम् एव भवति । यथा - “मति”, “धेनु” इत्यादीनां ङित्-प्रत्ययेषु परेषु नदीसंज्ञायाः अभावे घिसंज्ञा भवति । </listsp>

घिसंज्ञाविशिष्टानि कार्याणि

अष्टाध्याय्याम् घिसंज्ञाविशिष्टानि आहत्य चत्वारि कार्याणि उक्तानि सन्ति । तानि सोदाहरणं अधः विव्रियन्ते - <listsp> <li>**1. ङित्-प्रत्यये परे अङ्गस्य गुणः** - घेर्ङिति (7.3.111) इति सूत्रेण घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति । यथा -

मुनि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
--> मुने + ए [**घेर्ङिति** (7.3.111) इति अङ्गस्य गुणः]
--> मुनय् + ए [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
--> मुनये

<li>**2. घिसंज्ञकस्य अकारादेशः, प्रत्ययस्य औत्वम्** - अच्च घेः (7.3.119) इति सूत्रेण घिसंज्ञकात् विहितस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य औङ्-आदेशः भवति, तथा च घिसंज्ञकस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा -

मुनि + ङि [सप्तम्येकवचनस्य प्रत्ययः]
--> मुन + औ [ **अच्च घेः** (7.3.119) इति अङ्गस्य अकारादेशः, प्रत्ययस्य औत्वम्]
--> मुनौ [**वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः]

<li>**3. टा-प्रत्ययस्य ना-आदेशः** - आङो नाऽस्त्रियाम् (7.3.120) इति सूत्रेण पुंलिङ्गवाचिनः नपुंसकलिङ्गवाचिनः वा घिसंज्ञकात् विहितस्य तृतीयैकवचनस्य टा-प्रत्ययस्य ना इति आदेशः भवति । यथा -

मुनि + टा [तृतीयैकवचनस्य प्रत्ययः]
--> मुनि + ना [ **आङो नाऽस्त्रियाम्** (7.3.120) इति टा-प्रत्ययस्य ना-आदेशः]
--> मुनिना

<li>**4. द्वन्द्वसमासे पूर्वनिपातः** - द्वन्द्वसमासे द्वन्द्वे घि (2.2.32) इति सूत्रेण घिसंज्ञकशब्दस्य पूर्वनिपातः क्रियते । अतएव “हरश्च हरिश्च” इत्यत्र घिसंज्ञकस्य “हरि”-शब्दस्य पूर्वनिपातं कृत्वा “हरिहरौ” इति शब्दः सिद्ध्यति । </listsp>

**सखि-शब्दस्य घिसंज्ञा न**

प्रकृतसूत्रेण कृते ह्रस्व-इकारान्त-उकारान्त-शब्दानां घिसंज्ञाविधाने असखि इति निर्देशः वर्तते, अतः ह्रस्व-इकारान्त-पुंलिङ्गस्य “सखि” इति शब्दस्य घिसंज्ञा न भवति । घिसंज्ञायाः अभावात् तद्विशिष्टानि कार्याणि अपि नैव प्रवर्तन्ते, अपितु केवलं यणादेशं कृत्वा एव रूपाणि सिद्ध्यन्ति । यथा -

सखि + (टा / ङे / ङसिँ / ङस् / ङि) [तृतीया/चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]
--> सखि + (आ / ए / उस् / उस् / औ) [**ख्यत्यात् परस्य** (6.1.112) इति ङसिँ-ङस्-प्रत्यययोः अकारस्य उकारादेशः । **औत्** (7.3.118) इति सूत्रेण सप्तम्येकवचनस्य ङि-प्रत्ययस्य औ-आदेशः ।]
--> सख्या / सख्ये / सख्युः / सख्युः / सख्यौ [**इको यणचि** (6.1.77) इति यणादेशः]

सख्यन्तशब्दानां घिसंज्ञा अवश्यमेव भवति

प्रकृतसूत्रे विद्यमानेन असखि इति निषेधेन सखिभिन्नशब्दस्य घिसंज्ञा विधीयते । अयं विधिः सुसखि, परमसखि, अतिसखि इत्यादीनां सख्यन्त-शब्दानां विषये प्रवर्तते वा - इति प्रश्ने जाते - एते शब्दाः सखि-भिन्नाः सन्ति, अतः एतेषां विषये प्रकृतसूत्रेण उक्तः विधिः अवश्यं प्रवर्तते - इति उत्तरम् । इत्युक्ते, एतेषां सख्यन्त-शब्दानां घिसंज्ञा अवश्यम् अस्ति, अतश्च एतेषां रूपाणि “सुसखिना”, “सुसखये”, “सुसखेः”, “सुसखौ” इति प्रकारेण “मुनि”-शब्दसदृशानि एव भवन्ति । किञ्च, सखि इत्यस्मात् शब्दात् “किञ्चित् न्यूनः सखा” अस्मिन् अर्थे विभाषा सुपो बहुच् पुरस्तात्तु (5.3.68) इत्यनेन सूत्रेण बहुच् इति तद्धितप्रत्यये कृते बहुसखि इति यत् प्रातिपदिकं सिद्ध्यति; तस्य विषये अपि प्रकृतसूत्रेण **घि**संज्ञा अवश्यं भवति । अतएव अस्य शब्दस्य रूपाणि “बहुसखिना”, “बहुसखये”, “बहुसखेः” , “बहुसखेः”, “बहुसखौ” इति मुनि-शब्दसदृशानि एव भवन्ति ।

**शेषः इत्यस्य अर्थः**

प्रकृतसूत्र विद्यमानः शेष: इति शब्दः तादृशानाम् ह्रस्व-इकारान्त-उकारान्त-शब्दानां निर्देशं करोति येषां नदीसंज्ञा न भवति । इत्युक्ते <hlb>शेष:</hlb> इत्यनेन अत्र नदीसंज्ञाभिन्नः ह्रस्व-इकारान्तः / ह्रस्व-उकारान्तः शब्दः इति अर्थः स्वीक्रियते ।

शेषग्रहणं स्पष्टार्थम्

वस्तुतः प्रकृतसूत्रम् आकडारादेका संज्ञा (1.4.1) इत्यनेन विहिते एकसंज्ञाधिकारे अस्ति, अतः एकस्य शब्दस्य एका एव संज्ञा भवितुम् अर्हति । इत्युक्ते, यत्र ह्रस्व-इकारान्त-शब्दस्य ह्रस्व-उकारान्तशब्दस्य च नदीसंज्ञा विधीयते, तत्र एकसंज्ञाधिकारसामर्थ्यात् एव घिसंज्ञा नैव संभवति । अतश्च तदर्थम् पुनः शेषः इति शब्दस्य ग्रहणम् अनावश्यकं वर्तते । अतएव कौमुदीकारः वदति - <inline>एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम्</inline> । प्रकृतसूत्रे विद्यमानम् शेषः इति शब्दस्य ग्रहणम् केवलं स्पष्टताप्रतिपत्यर्थम् अस्ति - इति अत्र कौमुदीकारस्य आशयः वर्तते ।

Sutrartha (English)

Except for the word सखि, all ह्रस्व-इकारान्त and ह्रस्व-उकारान्त words get the term घि whenever they do not get the term नदी.

Vasu English Summary

The rest of the words that end in short इ and उ are घि with the exception of the word सखि।

Vasu English Translation

The rest of the words that end in short इ and उ are घि with the exception of the word सखि। This defines the word ghi. The peculiarity of the declension of ghi words will be treated later on. The word hrasva is understood in this sutra. The word sesha or ‘the rest’ implies ‘the words ending in short इ or उ which are not the names of females, or if they are feminine names, they are not nadi words.’

As अग्नि fire. Before case affixes having an indicatory n, the ghi nouns gunate there vowel (7.3.111). As अग्नि + ङे = अग्ने + ए = अग्नये to the fire. So also वायु + ङे = वायवे to the wind. But the declension of sakhi in these cases is :- सख्या सख्ये सख्यु and सख्यौ.

Kashika

ह्रस्व इति वर्तते। शेषोऽत्र घिसंज्ञो भवति, सखिशब्दं वर्जयित्वा। कश्च शेषः? ह्रस्वमिवर्णोवर्णान्तं यन्न स्त्र्याख्यम्,स्त्र्याख्यं च यन्न नदीसंज्ञकं स शेषः। अग्नये। वायवे। कृतये। धेनवे। असखीति किम्? सख्या। सख्ये। सख्युः। सख्यौ। घिप्रदेशाः — द्वन्द्वे घि (२.२.३२) इत्येवमादयः॥

Siddhanta Kaumudi

अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । ह्रस्वौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥

Laghu Siddhanta Kaumudi

शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥

Balamanorama

शेषो घ्यसखि - तृतीयैकवचने हरि आ इति स्थिते घिकार्यं वक्ष्यन्घिसंज्ञामाह — शेषो । ‘यू स्त्र्याख्यौ’ इत्यतो ‘यू’ इत्यनुवर्तते । इश्च उश्च यू=इवर्णश्च उवर्णश्च ।ङिति ह्रस्वश्चे॑त्यतो ‘ह्रस्व’ इत्यनुवर्तते । तच्च यूभ्यां प्रत्येकमन्वेति । उक्तान्नदीसंज्ञकादन्यः शेषः । स च यूभ्यां प्रत्येकमन्वेति ।शब्दस्वरूप॑मित्यध्याहार्यं यूभ्यां विशेष्यते । तदन्तविधिः । तदाह — अनदीसंज्ञावित्यादिना । शेषः किमिति । अनदीसंज्ञकत्वविशेषणं किमर्थमिति प्रश्नः । मत्यै इति । शेषग्रहणाऽभावेङिति ह्रस्वश्चे॑ति नदीत्वपक्षेऽपि घिसंज्ञा स्यात् । ततश्च आण्नद्याः॑ इत्याडागमे वृद्धौघेर्ङिती॑ति गुणेऽयादेशे ‘ मतयै’ इति स्यादिति भावः । शेषग्रहणाऽभावे ।ञपि ‘मत्यै’ इत्यत्र घिसंज्ञा न भवति,आकडारादेका संज्ञे॑त्यनवकाशया नदीसंज्ञया बाधादित्यत आह — एकसंज्ञेति । वातप्रम्ये इति । ह्रस्वग्रहणाऽभावे वातप्रमी-ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात् । ततश्चघेर्ङिती॑ति गुणेऽयादेशे च ‘वातप्रमये’ इति स्यात् । अतो ह्रस्वग्रहणमिति भावः । मात्रे इति । ‘यू’ इत्यस्याऽभावे मातृ-ए इति स्थिते ऋकारान्तस्यापि घिसंज्ञायांघेर्ङिती॑ति गुणे अकारे रपरत्वे ‘मातरे’ इति स्यात् । अत इदुताविति भावः । वस्तुतस्तु इदुताविति व्यर्थमेव, ‘मात्रे’ इत्यत्र ऋकारान्तस्यापि घित्वे तुघेर्ङिती॑त्येव गुणसिद्धौ किं तेन ।

Tattvabodhini

शेषो घ्यसखि - सूत्रे शेषपदस्य प्रयोजनमाह — अनदी — संज्ञाविति ।यूस्त्र्याख्यौ॑ इत्यतःयू॑ इति,ङिति ह्रस्वश्चे॑त्यतोह्रस्व॑ इति चानुवर्तते, तदाह-ह्रस्वौ यावित्यादि । मत्यै इति । नदीसंज्ञापक्षेऽपि घिसंज्ञायां सत्याम्आण्नद्या॑ इत्याडागमेघेर्ङिती॑ति गुणे कृतेऽयादेशे चमतयै॑ इति स्यादिति भावः ।

Padamanjari

ठा धृषाद्वाऽ इत्यस्मिन्नधिकारे’शिष असर्वोपयोगे, विपूर्वो’ तिशयेऽ इति पठ।ल्ते, तत्र णिच्पक्षे कर्मणि ठेरच्ऽ, अन्यथा घञ्। ह्रस्व इति वर्तत इति। अन्यथा ग्रामण्यादेरपि स्याद् अस्त्र्याख्यत्वेन शेषत्वाद्, यस्य नदीसंज्ञा न विहिता तस्य शेषत्वे मात्रे इत्यत्रापि स्यादिति मत्वा पृच्छति - कश्चेति। इतरस्तु ह्रस्वविशेषणार्थं’यू’ इत्यस्याननुवृत्तिमाश्रित्याह - ह्रस्वमिति। ह्रस्वान्तमित्यर्थः। यदाह - इवर्णोवर्णान्तादिति। क्वचितु ह्रस्वेर्णोवर्णान्तमिति पाठः, ह्रस्वात्मको य इवर्ण उवर्णश्च तदन्तमित्यर्थः। ह्रस्वेन शेषस्य विशेषणत्वात् तदन्तविधिः। एवं च ठसखिऽ इति सखिशब्दस्य प्रतिषेधो न तत्सम्बन्धिन इकारस्य, किं सद्धं भवति? इह शोभनस्सखा अस्य सुसखिः, सुसखेरागच्छतीति घिसंज्ञा सिद्धा भवति। न ह्ययं समुदायः सखिशब्दः, तदन्तविधिश्च ग्रहणवता प्रातिषेधादिहापि न स्यात्। यदि तदन्ते निषेधो न भवति’यस्येति च’ इत्यत्र इवर्णस्य ई इति यदुदाहरणं सखिशब्दात्’सख्यशिश्रीति भाषायाम्’ इति ङीषि सखि ई इति स्थिते इकारस्य लोपः। असति तु लोपे सवर्णदीर्धस्य पूर्व प्रत्यन्तवद्भावात् सखीमतिक्रान्तोऽतिसखिः, अतिसखेरागच्छतीत्यत्रासखीति धिसंज्ञाप्रतिषेधः स्यादिति तन्नेपपद्यते। सत्यप्यन्तवद्भावेन सखिग्रहणेन ग्रहणे समुदायस्य सखिशब्दादन्यत्वात्। यदा खलु पुंल्लिङ्गेप्यतिसखिरिति भवति, तदा कः प्रसङ्गो यदन्तवद्भावेन स्यात्? यतु तत्रोदाहरिष्यते सोऽनास्थावादो द्रष्ट्व्यः। शेषग्रहणं चिन्त्यप्रयोजनम्। एकसंज्ञाधिकारादेव हि स्त्र्याख्यस्य ङिति नदीसंज्ञापक्षे घिसंज्ञा न भवष्यति॥

Nyaas

सख्या इति। घिसंज्ञाया आङो नाऽस्त्रियाम् (7.3.120) इति नाभावो न भवति। सख्ये, सख्युः इत्यत्रापि घेर्ङिति (7.3.111) न गुणः। सख्यौ इत्यत्र अच्च घेः (7.3.119) इत्यत्त्वं न भवति। इदुद्भ्याम् (7.3.117) औत् (7.3.118) इत्यौत्त्वं भवति। सख्युरित्यत्रापि ख्यत्यात् परस्य (6.1.112) इत्युक्तम्। इह शोभनः सखाऽस्येति सुसखिरिति; सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति, स च ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति (व्या।प।89) इति प्रतिषेधान्न भवति। इह द्विविधा घिसंज्ञा - अवयवाश्रया, समुदायाश्रया च। तत्र याऽवयवाश्रया सा प्रतिषिध्यते, या पुनः समुदायाश्रया सा च भवत्येव; तस्या अप्रतिषेधात्॥

Prakriyasarvasvam

अनदीसंज्ञमिदुदन्तं घिसंज्ञं स्यात्, न तु सखिशब्दः ॥

Sarala

स्पष्टार्थमितिआ कडारादेका संज्ञा (१.४.१) इत्येकसञ्ज्ञाऽधिकारादेवैकसञ्ज्ञायाः (ह्रस्वे एव घिसञ्ज्ञायाः) सिद्ध्या शेषग्रहणं स्पष्टार्थमित्यर्थः ॥

Sudha

शेष इति । यू स्त्र्याख्यौ नदी**(1.4.3) इत्यतो यू इत्यनुवर्तते । **ङिति ह्रस्वश्च**(1.4.6) इत्यतो ह्रस्व इति चानुवर्तते; तदाह - **ह्रस्वौ यावित्यादि । आङो नेति । अच्च घेः**(7.3.119) इत्यतो घिग्रहणानुवृत्तेर्घेः परस्य आङो ना स्यादस्त्रियामित्यर्थः । **प्राचामिति **- आचार्याणामिति शेषः । **हरिणा हरिशब्दात् तृतीयैकवचनविवक्षायां टासमागते **शेषो घ्यसखि**(1.4.7) इत्यनेन हरिशब्दस्य घिसंज्ञायाम् **आङो नाऽस्त्रियाम्**(7.3.120) इत्यनेन घिसंज्ञकात् हरिशब्दात् परस्य आङः टाइत्यस्य नादेशे कृते “हरिना” इति जाते **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इत्यनेन णत्वे “हरिणा” इति रूपम् । तृतीयाद्विवचनबहुवचने - हरिभ्याम्, हरिभिः इति ।