14005: वाऽऽमि

Padacheda: वा | S | 0 | 0 |

आमि | S | 7 | 1 |

Sutrartha

“स्त्री” इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू ।

स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम्, तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषेधे जाते, षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते - इति अस्य सूत्रस्य आशयः । <spacer> <hlb>इयङ्स्थानिनः शब्दाः</hlb> - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे “**इयङ्” इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते** । यथा, “भी” इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य “औ”-प्रत्यये परे अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन “इयङ्” इति आदेशः भवति (“भी + औ = भिय् + औ = भियौ”), अतः “भी” इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, “श्री”, “धी”, “स्त्री” एते दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । एतेभ्यः <nex>स्त्री</nex> इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-इयङ्स्थानिनां शब्दानां यू स्त्र्याख्यौ नदी (1.4.3) इति सूत्रेण प्राप्ता नदीसंज्ञा नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति । <spacer> <hlb>उवङ्स्थानिनः शब्दाः</hlb> - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे “**उवङ्” इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते** । यथा, “भू” इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य “औ”-प्रत्यये परे अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन “उवङ्” इति आदेशः भवति (“भू + औ = भुव् + औ = भुवौ”), अतः “भू” इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, “भ्रू” इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । एतादृशानां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-उवङ्स्थानिनां शब्दानां यू स्त्र्याख्यौ नदी (1.4.3) इति सूत्रेण प्राप्ता नदीसंज्ञा नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति ।

विकल्पस्य प्रयोजनम्

षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे नदीसंज्ञायाः वैकल्पिकविधानस्य प्रयोजनम् अस्ति **ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमसहितस्य रूपस्य सिद्धिः** - इति । यथा, “धी” इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य षष्ठीबहुवचनस्य रूपे नुडागमे कृते “धीनाम्”, तथा च नुडागमं विना “धियाम्” इति रूपद्वयम् अपि सिद्ध्यति । प्रक्रिया इयम् -

**नदीसंज्ञापक्षे** -
धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ धी + नुट् + आम् [**ह्रस्वनद्यापो नुट्** (7.1.54) इति नुट्-आगमः]
→ धीनाम्
<br>
**नदीसंज्ञा-अभाव-पक्षे** -
धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ ध् + इयङ्  + आम् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ]
→ धियाम्

अनेनैव प्रकारेण “भ्रू” शब्दस्य अपि “भ्रूणाम्” तथा च “भ्रुवाम्” एते द्वे रूपे सिद्ध्यतः । किञ्च, एतादृशम् एव “श्री”, “जयश्री”, “भू”, “परमभू (= परमा च असौ भूः)” इत्यादीनाम् शब्दानाम् अपि षष्ठीबहुवचनस्य द्वे द्वे रूपे भवतः । <spacer>

** स्त्र्याख्यौ इति अनुवृत्तिः**

प्रकृतसूत्रे यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अतश्च इदं सूत्रं केवलं नित्यस्त्रीलिङ्गशब्दानां विषये एव प्रवर्तते ** । अत्र इदं स्मर्तव्यम्, यत् ****नेयङुवङ्स्थानावस्त्री (1.4.4) इति पूर्वस्मिन् सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते**, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये षष्ठीबहुवचनस्य आम्-प्रत्यये परे नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां षष्ठीबहुवचनस्य रूपेषु ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुट्-आगमः अपि न भवति -

परमधी ["परमा धीः यस्य सः" इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य <!प्रथमलिङ्गग्रहणं च!> इति सूत्रेण विहिता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते ]
--> परमधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
--> परमध् इयङ् + आम् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ]
--> परमधियाम्

<spacer> <hlb>विशेषः</hlb> - “परमा धी यस्याः सा” इत्यस्मिन् अर्थे विहितस्य “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन प्राप्ता नदीसंज्ञा नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, षष्ठी-बहुवचनस्य “आम्”-प्रत्यये परे अस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति प्रकृतसूत्रस्य सन्दर्भेण सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - <inline>लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम्</inline> । यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य “परमा धी यस्याः सा” इत्यस्मिन् अर्थे विहितस्य “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि “परमधी” इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये नेयङुवङ्स्थानावस्त्री (1.4.4) इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, षष्ठी-बहुवचनस्य “आम्”-प्रत्यये परे “परमधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते, अतश्च तस्य रूपम् “परमधियाम्” इत्येव सिद्ध्यति । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - <inline>पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति </inline> । यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याख्या अस्ति । यथा, “परमा धीः यस्य सः / यस्याः सा” इत्यस्मिन् अर्थे सिद्धः “प्रधी” इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः “प्रधी”-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते, येन अस्य शब्दस्य षष्ठीबहुवचनस्य प्रक्रियायां ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन विकल्पेन नुडागमं कृत्वा, “परमधीनाम्” तथा च “परमधियाम्” इति द्वे रूपे सिद्ध्यतः । अयं काशिकाकारस्य पक्षः अस्ति । <spacer> <note>काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।</note>

**अस्त्री इति निषेधः**

<hlb>स्त्री</hlb> इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि स्त्रियाः (6.4.79) इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु “इयङ्”-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः “स्त्री”-शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री-शब्दस्य षष्ठीबहुवचने ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमः नित्यम् एव भवति, येन केवलम् “स्त्रीणाम्” इति एकम् एव रूपं सिद्ध्यति -

स्त्री  + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ स्त्री + नुट् + आम् [**ह्रस्वनद्यापो नुट्** (7.1.54) इति नुट्-आगमः]
→ स्त्रीणाम् [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम् ]

<note>**अस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति** । अतः, “महास्त्री”, “श्रेष्ठस्त्री”, “परमस्त्री” इत्यादीनां स्त्र्यन्तशब्दानां विषये नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे प्रकृतसूत्रेण अवश्यं विकल्प्यते, अतश्च एतेषां षष्ठीबहुवचनस्य रूपेषु नदीसंज्ञापक्षे ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन प्रत्ययस्य विकल्पेन नुडागमे कृते “महास्त्रीणाम्”, “श्रेष्ठस्त्रीणाम्”, “परमस्त्रीणाम्” - इत्यादीनि रूपाणि, तथा च पक्षे नुडागमं विना नदीसंज्ञा-अभावपक्षे इयङ्-आदेशे कृते “महास्त्रियाम्”, “श्रेष्ठस्त्रियाम्”, “परमस्त्रियाम्” इत्यादीनि रूपाणि अपि सिद्ध्यन्ति । </note>

अप्राप्तविभाषा इयम्

पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति । अतएव काशिकाकारः प्रकृतसूत्रस्य सन्दर्भेण <inline>नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः उच्यते</inline> इति व्याचष्टे ।

**वा+अमि इति विग्रहः अनुचितः**

प्रकृतसूत्रस्य विग्रहः वा + अमि इति प्रकारेण अपि सम्भवति । परन्तु एतादृशः विग्रहः न करणीयः, यतोहि द्वितीयैकवचनस्य “अम्”-प्रत्यये परे नदीसंज्ञायाः न किमपि प्रयोजनं विद्यते । अतएव अत्र वा + आमि इत्येव विग्रहः क्रियते । किञ्च, अमुम् विषयं स्पष्टीकर्तुम् एव सूत्रस्य लेखने द्विवारम् अवग्रहचिह्नम् (“ऽऽ”) अपि प्रयुक्तं दृश्यते ।

सप्तम्येकवचनस्य “आम्”-प्रत्यये परे इदं सूत्रं न प्रवर्तते

दीर्घ-ईकारान्त-शब्दानाम् नदीसंज्ञायां सत्याम् तेभ्यः विहितस्य सप्तम्यैकवचनस्य ङि-प्रत्ययस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन “आम्” इति आदेशः भवति । अस्य “आम्”-आदेशस्य अपि प्रकृतसूत्रेण ग्रहणं न क्रियते, यतोहि तत्र नदीसंज्ञायां सत्याम् एव “आम्”-आदेशे कृते, ततः पुनः नदीसंज्ञायाः अभावः न हि वक्तुं शक्यते ।

सिद्धान्तकौमुद्याः वाक्यानां स्पष्टीकरणम्

सिद्धान्तकौमुद्यां प्रकृतसूत्रम् दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दानां प्रकरणे पाठितम् अस्ति । तत्र प्रसङ्गवशात् कौमुदीकारः प्रकृतसूत्रस्य व्याख्याने सूत्रसम्बन्धिनं विषयं विहाय अन्येषाम् अपि केषाञ्चन दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रक्रियाः प्रदर्शयति । कौमदीकारेण अत्र उक्ताः बिन्दवः अधः सङ्क्षिप्यन्ते - <listsp> <li>1. <inline> प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् </inline> - “प्रध्यायति सा” अस्मिन् अर्थे प्रयुक्तः “प्रधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः , तथा च “प्रकृष्टा धीः यस्याः सा” अस्मिन् अर्थे प्रयुक्तः “प्रधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः - एतौ द्वौ अपि शब्दौ पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति काशिकाकारस्य मतेन नदीसंज्ञकौ स्तः, अतः तयोः “लक्ष्मी”-शब्दसदृशानि रूपाणि भवन्ति । <li>2. <inline>लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् </inline> - कैयटस्य मतम् तु लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वम् इति अस्ति । द्वौ अपि “प्रधी” शब्दी तु पुंलिङ्गे अपि तस्मिन्नेव अर्थे प्रयुक्तौ अवश्यम् एव दृश्येते, अतश्च कैयटमतेन तौ स्त्रीलिङ्गप्रयोगे अपि नदीसंज्ञकौ न भवतः । इत्युक्ते, कैयटमतेन “प्रध्यायति सा” तथा च “प्रकृष्टा धीः यस्याः सा” एतयोः अर्थयोः प्रयुक्तस्य “प्रधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । <li>3. <inline> प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । </inline> - “प्रकृष्टा धीः” इति कर्मधारयसमासेन निर्मितः “प्रधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः तु कैयटस्य काशिकाकारस्य च अपि मतेन ** यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेनैव नदीसंज्ञकः एव, अतश्च तस्य “लक्ष्मी”-शब्दसदृशानि रूपाणि भवन्ति । <li>4. <inline> अमि शसि च प्रध्यं प्रध्य इति विशेषः </inline> - “प्रध्यायति सा”, “प्रकृष्टा धीः यस्याः सा”, तथा च “प्रकृष्टा धीः” - इति केनापि प्रकारेण सिद्धस्य “प्रधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीयायाः एकवचने बहुवचने च अमि पूर्वः (6.1.107) तथा च प्रथमयोः पूर्वसवर्णः (6.1.102) इति सूत्रे बाधित्वा एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इत्यनेन यणादेशे कृते (यथासंख्यम्) “प्रध्यम्” तथा च “प्रध्यः” इति रूपे भवतः । <li>5. <inline>सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् </inline> - “सुष्ठु धीः यस्याः सा” तथा च “सुध्यायति सा” इति उभयथा सिद्धस्य “सुधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य काशिकाकारस्य मतेन “श्री”-शब्दसदृशानि रूपाणि भवन्ति । <li>6. <inline> मतान्तरे तु पुंवत्, सुष्ठु धीरिति विग्रहे तु श्रीवदेव </inline> - कैयटमतेन”सुष्ठु धीः यस्याः सा” तथा च “सुध्यायति सा” इति सिद्धस्य “सुधी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञायाः अपि अभावे पुंलिङ्गसदृशानि एव रूपाणि भवन्ति । “सुष्ठु धीः” इति कर्मधारयसमासेन निर्मितस्य शब्दस्य विषये तु कैयटमतेन (** यू स्त्र्याख्यौ नदी** (1.4.3) इति सूत्रेण) नदीसंज्ञा अस्ति एव, परन्तुु नेयङुवङ्स्थानावस्त्री (1.4.4) इत्यनेन तस्याः निषेधः अपि भवति, अपि च वाऽऽमि (1.4.5) तथा च ङिति ह्रस्वश्च (1.4.6) इत्येताभ्यां तस्याः पुनः वैकल्पिकं विधानम् च अपि भवति । अतः अस्य शब्दस्य रूपाणि “श्री”-शब्दसदृशानि रूपाणि भवन्ति । <li>7. <inline> ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः </inline> - “ग्रामं नयति सा” अस्मिन् अर्थे प्रयुक्तस्य “ग्रामणी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । ग्रामनयनक्रिया स्वभावतः पुंलिङ्गवाचिनी अस्ति, अतः “एषा” / “सा” इति पदं विना “ग्रामणी”-शब्दस्य स्त्रीत्वं नैव स्पष्टीभवति इति कारणात् काशिकामतेन अपि अस्य नित्यस्त्रीत्वम् नास्ति, अतश्च नदीसंज्ञा अपि न वर्तते । <li>8. <inline>एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् </inline> - एवमेव, “खलपू”, “कटप्रू” इत्यादयः शब्दाः अपि स्वभावतः पुंलिङ्गम् एव द्योतयन्ति, अतः एतेषाम् अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा न भवति, अतश्च एतेषां रूपाणि पुंलिङ्गस्त्रीलिङ्गयोः समानानि एव भवन्ति । </listsp>

Sutrartha (English)

Except for the word ‘स्त्री’, any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश optionally gets the term नदी in presence of the आम् प्रत्यय of षष्ठी बहुवचन.

Vasu English Summary

Feminine words ending in ई and ऊ though admitting इयङ् and उवङ् (6.1.77) substitutes, are optionally termed नदी when the affix अम् (Genitive Plural) follows, but not so the word स्त्री , which is always नदी।

Vasu English Translation

Feminine words ending in ई and ऊ though admitting इयङ् and उवङ् (6.1.77) substitutes, are optionally termed नदी when the affix अम् (Genitive Plural) follows, but not so the word स्त्री , which is always नदी। श्री + आम् = श्री इयङ् + आम् = श्रीयाम्; भ्रू + आम् = भ्रूवाम्; or श्री + आम् = श्रीनुट् + आम् (7.1.54) = श्रीणाम्; भ्रू + आम् = भ्रूणाम्. But stri is always nadi. and we have स्त्रीणाम् strinam.

To the absolute prohibition enjoined by the last sutra, this allows an option in the case of Genitive Plural.

Kashika

पूर्वेण नित्ये प्रतिषेधे प्राप्त आमि विकल्पः क्रियते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्रीत्येव — स्त्रीणाम्॥

Siddhanta Kaumudi

इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥

Laghu Siddhanta Kaumudi

इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥

Balamanorama

वाऽऽमि - वाऽऽमि ।यूस्त्र्याख्यौ नदी॑त्यनुवर्तते ।नेयङुवङ्स्थानावस्त्री॑ति नञ्वर्जनमनुवर्तते । वा आमीति च्छेदः । अमि नदीकार्याऽभावात् । तदाह — इयङुवङ्स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे ‘ह्रस्वनद्यापः’ इति नुट् । श्रियामिति । नदीत्वाऽभावे तु इयङेव । श्रियोः श्रीषु । प्रधीशब्दस्य त्विति । प्रध्यायतीत्यर्थेध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपे ‘हलः’ इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि । तत्र ‘एरनेकाचः’ इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ॑ इति नदीत्वनिषेधाऽभावा ‘द्यू स्त्र्याख्यौ’ इति नित्यनदीत्वे सतिअम्बार्थे॑त्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः । ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह — पदान्तरं विनापीति । पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः । अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्येस्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये ।स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय ‘ब्राआहृणः’ब्राआहृणी॑त्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः । लिङ्गान्तरेति ।स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व॑मिति कैयटमतम् ।स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे॑ति ‘यू स्त्र्याख्यौ’ इत्यत्र भाष्यादिति तदाशयः ।पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः । प्रकृष्टेति । प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः । अमि शसि चेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा ‘एरनेकाचः’ इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राआहृण्याम् ‘आध्यै’ इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः । अत एव भाष्यात् ‘नद्यृतश्च’ इति कप् नेत्याहुः । सुष्ठि धीर्स्या इति । सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन ‘नेयङुवङ्स्थानौ’ इति नदीत्वनिषेधान्ङिति ह्रस्वश्चे॑तिवामी॑ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि ।न भूसुधियो॑रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति ।लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व॑मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः । ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया ‘नेयङुवङ्स्थानौ’ इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति ।स्त्रिया॑मिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह — ग्रहनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः । एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम् । अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंवदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ताः । धेनुर्मतिवदिति । उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः ।

Tattvabodhini

वाऽऽमि - वामि ।यू स्त्र्याख्यौ नदी॑नेयहुवङ्स्थानावस्त्री॑त्यनुवर्तनादाह -इयङुवङ्स्थानावित्यादिना । यद्यपिने ति प्रकृतो निषेधोऽनेन विकल्प्यते तथापि निषेधविकल्पे विधिविकल्प एव फलतीति स एव सूत्रार्थ उचित इत्याशयेनाह -वा नदीसंज्ञौ स्त इति ।ङिति ह्रस्वश्चे॑ति सूत्रेऽप्येवमेव । प्रधीशब्दस्य त्विति ।एरनेकाच॑इचि यणा इयङो बाधनात्नेयङुवङ्स्थाना॑विति निषेधोऽत्र न प्रवर्तते । यत्र त्वपवादेनेयङुवङौ बाध्यते तत्र न निषेध इत्याशयेन व्याचष्टे -लक्ष्मीवद्रूपमिति ।अमि शसि च विशेषं ॑इत्यनुपदमेव वक्ष्यति । पुंवद्रूपमिति । अयं च मतभेदःप्रकृष्टा धीर्यस्याः॒॑प्रकर्षेण ध्यायती॑ति वा विग्रहे बोध्यः । लक्ष्मीवदिति ।मतद्वयेऽपी॑ति शेषः । सुष्ठु धीर्यस्या इति । नन्वस्मिन्विग्रहे कैयटमते सुधीशब्दस्य नित्यस्त्रीत्वाऽभावेऽपि धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति सुधीशब्दः श्रीवदेव भवति, नतु पुंवदिति चेदत्राहुः — — ॒नेयङुवङ्स्थानावस्त्री॑ति धीशब्दे नदीसंज्ञानिषेधात्सुधीशब्देप्रथमलिङ्गग्रहणं चे॑त्यस्याऽप्रवृत्तिः, तथावृत्तिमते॑इति ग्रन्थः स्वरसत सङ्गच्छते इति । मतान्तर इति ।लिङ्गान्तरानभिधायकत्वं त॑दिति कैयटमते इत्यर्थः । श्रीवदेवेति । बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वान्मतद्वयेऽपि श्रीवदेवेत्यर्थः । (२६४) स्त्रियां च ।७.१.९६ ।स्त्रियां च । असर्वमानस्थानार्थमयमारम्भः ।तृज्वत्क्रोष्टु॑रिति वर्तते । तद्वदेवात्रापि रूपाऽतिदेशः ।स्त्रिया॑मित्यर्थग्रहणं, तदाह -स्त्रीवाची क्रोष्टुशब्द इत्यादि । एवं च पञ्चमिः क्रोष्ट्रीबिः क्रीतै रथैः पञ्चक्रो,टृभी रथैरित्यत्रापि तृज्वद्भावः सिध्यति । ये तु॒स्त्रिया॑मिति स्त्रीप्रत्यये इति व्याचक्षते, ङीषर्थं च क्रोष्टुशब्दं गौरादुषु पठन्ति तेषामिह तृजद्भावे न सिध्येत् ।तेन क्रीत॑मिति ठको॒ऽध्यर्धपूर्वे॑ति लुका लुप्तत्वाल्लुक्तद्धितलुकीति ङीषो लुकि स्त्रीप्रत्ययपरत्वाषभावात् ।

Padamanjari

संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे’ह्रस्वनद्यापो नुट्’ ॥

Nyaas

संहितासाम्येऽपि षष्ठीबहुवचनस्यामो ग्रहणम्, न तु द्वितीयैकवचनस्य; तत्र नदीसंज्ञाकार्याभावात्। नापि सप्तम्यादेशस्यामो ग्रहणम्; तस्य नदीसंज्ञोत्तरकालं ङेराम्नद्याम्नीभ्यः (7.3.116) इत्याम्विधानात्। श्रीणात्र इति। नदीसंज्ञापक्षे ह्रस्वनद्यापो नुट् (7.1.54) इति नुट्। इह स्त्र्याख्यादिति वर्तते, विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन एव शब्दरूपस्य स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यः, तत्र नदीसंज्ञा न भवति - अतिश्रियां ब्राआहृणानाम्, अतिभ्रुवां ब्राआहृणानामिति॥

Praudhamanorama

यद्यपि प्रकृतो निषेधोऽनेन विकल्प्यत इति प्राञ्चः, तथाऽपि निषेधविकल्पे विधिविकल्प एव फलति। तथा च लाघवात् स एव सूत्रार्थ उचित इत्याशयेनाह- वा नदीसंज्ञौ स्त इति। ‘ङिति ह्रस्वश्च’ इति सूत्रेप्येवमेव।

Prakriyasarvasvam

‘नेयङुवङ्स्थानौ’ (१-४-४) इति निषिद्धं नदीत्वमामि वा स्यात् । नदीत्वे नुट् । श्रीणाम् । श्रियाम् । ङौ तु श्रियां श्रियि । स्त्री । उणादिसिद्धस्यास्य ङ्यन्तत्वात् सुलोपः ॥

Sudha

वामीति । यूस्त्र्याख्यौ नदीत्यनुवर्तते । नेयङुवङ्स्थानावस्त्री**(1.4.4) इति नञ्वर्जमनुवर्तते । वा आमीति छेदः । अमि नदीकार्याभावात् तदाह - **इयङुवङ्स्थानावित्यादिना । ‘श्री आम्’ इति स्थिते अत्र यू स्त्र्याख्यौ नदी**(1.4.3) इति नदीसंज्ञाया प्राप्तायां **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति निषेधे **वाऽऽमि**(1.4.5) इति वा नदीसंज्ञायां **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुटि पर्जन्यवल्लक्षणन्यायेन दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे ‘श्रीणाम्’ इति । नदीत्वाभावपक्षे - इयङि ‘श्रियाम्’ इति । **श्रियि, श्रियामिति । ‘श्री ङि’ इत्यत्र ङिति ह्रस्वश्च**(1.4.6) इति नदीत्वे **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि ‘श्रियाम्’ इति । नदीत्वाभावपक्षे इयङि ‘श्रियि’ इति रूपम् । श्रियोः । श्रीषु । **धनुर्मतिवदिति । उकारस्य ओकारो गुणः । अवादेश इत्यादिविशेषस्तु सुगम इति भावः ।

Sutra Prayogas

  • पाषाणं (भट्टिकाव्यम्): अकथितं च इत्यनेन पाषाणस्य कर्मसंज्ञा।