14006: ङिति ह्रस्वश्च ===================== **Padacheda:** ङिति | S | 7 | 1 | ह्रस्वः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **"स्त्री" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः , तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू, मति, भूरि, धेनु, लघु ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति नदी इति संज्ञा । प्रकृतसूत्रेण अस्याः नदीसंज्ञायाः **द्वयोः स्थलयोः** विकल्पेन विधानं क्रियते । तदित्थम् - ****स्त्री** इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम् (यथा - "धी", "श्री" इत्यादीनाम्) तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् (यथा - "भ्रू", "भू" इत्यादीनाम्) **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषेधे जाते, **ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते**** - इति अस्य सूत्रस्य प्रथमः अंशः । अपि च, **ह्रस्व-इकारान्तानाम् ह्रस्व-उकारान्तानां च स्त्रीलिङ्गवाचिनाम् (यथा - "मति", "धेनु" इत्यादीनाम्) शब्दानाम् पूर्वसूत्रैः नदीसंज्ञायां नैव प्राप्तायाम्, **ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा विकल्पेन विधीयते**** - इति अस्य सूत्रस्य द्वितीयः अंशः । क्रमेण विवरणम् एतादृशम् -
1. दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्ग-इयङ्स्थानिनाम् /दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्ग-उवङ्स्थानिनाम् शब्दानाम् नदीसंज्ञा **स्त्री** इति शब्दं विहाय ये शब्दाः दीर्घ-ईकारान्ताः इयङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - "धी", "श्री" इत्यादयः) , उत दीर्घ-ऊकारान्ताः उवङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - "भ्रू", "भू" इत्यादयः) , तेषां विषये **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषेधे जाते **ङित्-प्रत्ययेषु परेषु (इत्युक्ते, **ङे**, **ङसिँ**, **ङस्**, **ङि** - एतेषु चतुर्षु प्रत्ययेषु परेषु) एतेषां शब्दानां नदीसंज्ञा पुनः विकल्पेन विधीयते** । इत्युक्ते, एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं सिद्ध्यति - **नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे अपरं रूपम् ** - इति । क्रमेण उदाहरणानि एतानि -
  • **1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - धी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] --> धी + आट् + ए [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> धी + ऐ [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> ध् इयङ् + ऐ [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धियै
    **नदीसंज्ञा-अभाव-पक्षे** - धी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] --> ध् इयङ् + ए [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धिये अनेन प्रकारेण "धी" इति शब्दस्य चतुर्थ्येकवचनस्य "ङे"-प्रत्यये परे आडागमं कृत्वा "धियै", तथा च आडागमं विना "धिये " इति द्वे रूपे भवतः । एवमेव "भ्रू" शब्दस्य अपि "भ्रुवै" तथा च "भ्रुवे" एते द्वे रूपे सिद्ध्यतः ।
  • **2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - धी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] --> धी + आट् + असि / अस् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> धी + आस् / आस् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> ध् इयङ् + आस् / आस् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धियाः [रुत्वविसर्गौ]
    **नदीसंज्ञा-अभाव-पक्षे** - धी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] --> ध् इयङ् + अस् / अस् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धियः [रुत्वविसर्गौ] अनेन प्रकारेण "धी" इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः "ङसिँ"/"ङस्"-प्रत्यययोः परयोः आडागमं कृत्वा "धियाः", तथा च आडागमं विना "धियः " इति द्वे रूपे भवतः । एवमेव "भ्रू" शब्दस्य अपि "भ्रुवाः" तथा च "भ्रुवः" एते द्वे रूपे सिद्ध्यतः ।
  • **3. सप्तम्येकवचनस्य आम्-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः] --> धी + आम् [नदीसंज्ञायां सत्याम् **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति प्रत्ययस्य आम्-आदेशः] --> धी + आट् + आम् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> धी + आम् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> ध् इयङ् + आम् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धियाम्
    **नदीसंज्ञा-अभाव-पक्षे** - धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः] --> ध् इयङ् + इ [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> धियि अनेन प्रकारेण "धी" इति शब्दस्य सप्तम्येकवचनस्य "ङि"-प्रत्यये परे आमादेशम् आडागमं च कृत्वा "धियाम्", तथा च तयोः विना "धियि " इति द्वे रूपे भवतः । एवमेव "भ्रू" शब्दस्य अपि "भ्रुवाम्" तथा च "भ्रुवि" एते द्वे रूपे सिद्ध्यतः ।
    2. ह्रस्व-इकारान्त-उकारान्त-शब्दानां नदीसंज्ञा "मति", "बुद्धि", "शक्ति", "कृति", "भूरि" इत्यादयः ये ह्रस्व-इकारान्ताः स्त्रीलिङ्गशब्दाः, तथा च "धेनु", "गुरु", "रेणु", "रज्जु", "तनु" इत्यादयः ये ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः, तेषां विषये पूर्वसूत्रैः अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण ङित्-प्रत्ययेषु परेषु (इत्युक्ते, **ङे**, **ङसिँ**, **ङस्**, **ङि** - एतेषु चतुर्षु प्रत्ययेषु परेषु) **विकल्पेन विधीयते** । अतः एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं भवति - **नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे **शेषो घ्यसखि** (1.4.7) इत्यनेन घिसंज्ञां कृत्वा अपरं रूपम् ** - इति । क्रमेण उदाहरणानि एतानि -
  • **1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - मति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] --> मति + आट् + ए [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> मति + ऐ [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> मत्यै [**इको यणचि** (6.1.77) इति यणादेशः]
    **नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** - मति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] --> मते + ए [**घेर्ङिति** (7.3.111) इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः] --> मतय् + ए [**एचोऽयवायावः** (6.1.78) इति अयादेशः] --> मतये अनेन प्रकारेण "मति" इति शब्दस्य चतुर्थ्येकवचनस्य "ङे"-प्रत्यये परे नदीसंज्ञापक्षे आडागमं कृत्वा "मत्यै", तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा "मतये " इति द्वे रूपे भवतः । एवमेव "धेनु" शब्दस्य अपि "धेनवे" तथा च "धेन्वै" एते द्वे रूपे सिद्ध्यतः ।
  • **2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - मति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] --> मति + आट् + असि / अस् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> मति + आस् / आस् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> मत्याः [**इको यणचि** (6.1.77) इति यणादेशः]
    **नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** - मति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] --> मते + ए [**घेर्ङिति** (7.3.111) इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः] --> मतेः [**ङसिङसोश्च** (6.1.110) इति पूर्वपरयोः एकादेशः] अनेन प्रकारेण "मति" इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः "ङसिँ"/"ङस्"-प्रत्यययोः परयोः नदीसंज्ञापक्षे आडागमं कृत्वा "मत्याः", तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा "मतेः " इति द्वे रूपे भवतः । एवमेव "धेनु" शब्दस्य अपि "धेन्वाः" तथा च "धेनोः" एते द्वे रूपे सिद्ध्यतः ।
  • **3. सप्तम्येकवचनस्य आम्-प्रत्ययः** .. code-block:: text **नदीसंज्ञापक्षे** - मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः] --> मति + आम् [नदीसंज्ञायां सत्याम् **इदुद्भ्याम्** (7.3.117) इति ङि-प्रत्ययस्य आम्-आदेशः] --> मति + आट् + आम् [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> मति + आम् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> मत्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
    **नदीसंज्ञा-अभाव-पक्षे **शेषो घ्यसखि** (1.4.7) इति घिसंज्ञां कृत्वा ** - मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः] --> मत + औ [**अच्च घेः** (7.3.119) इति प्रत्ययस्य औकारादेशः, अङ्गस्य च अकारादेशः] --> मतौ अनेन प्रकारेण "मति" इति शब्दस्य सप्तम्येकवचनस्य "ङि"-प्रत्यये परे नदीसंज्ञापक्षे आमादेशम् आडागमं च कृत्वा "मत्याम् ", तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् अत्वं प्रत्ययादेशं च कृत्वा "मतौ" इति द्वे रूपे भवतः । एवमेव "धेनु" शब्दस्य अपि "धेन्वाम्" तथा च "धेनौ" एते द्वे रूपे सिद्ध्यतः । **इदुद्भ्याम्** (7.3.117) इति सूत्रम् विशिष्टरूपेण ह्रस्व-इकारान्त-नदीसंज्ञकशब्दानां विषये, ह्रस्व-उकारान्त-नदीसंज्ञकशब्दानां विषये च पाठितम् अस्ति । एतादृशेभ्यः शब्देभ्यः परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य अनेन सूत्रेण **आम्** आदेशः भवति । **ह्रस्व-इकारान्त-उकारान्त-शब्दानां कृते नित्यस्त्रीत्वम् न आवश्यकम्** प्रकृतसूत्रे **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यस्मात् सूत्रात् **स्त्र्याख्यौ** इति शब्दस्य कृतायाः अनुवृत्त्याः केवलं **स्त्री** इति शब्दः एव ह्रस्व-इकारान्त-शब्दानां विषये, तथा च ह्रस्व-उकारान्त-शब्दानां विषये उपयुज्यते । अस्य द्वौ अर्थौ स्तः -
  • 1. ** ह्रस्व-इकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते, तथैव ह्रस्व-उकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते प्रकृतसूत्रं न प्रवर्तते **। अतएव "मुनि", "वारि", "साधु", "मधु" - इत्यादिशब्दानां कुत्रापि नदीसंज्ञा न भवति ।
  • 2. ** ये ह्रस्व-इकारान्त-शब्दाः ह्रस्व-उकारान्त-शब्दाः च स्त्रीलिङ्गवाचिनः सन्ति, ते नित्यस्त्रीलिङ्गवाचिनः स्युः उत न स्युः, तेषां विषये स्त्रीलिङ्गप्रयोगे प्रकृतसूत्रस्य प्रयोगः अवश्यम् एव भवति** । यथा, "भूरि", "सुमति" इत्यादयः ह्रस्व-इकारान्ताः सर्वलिङ्गकाः शब्दाः, तथा च "लघु", "गुरु", इत्यादयः ह्रस्व-उकारान्ताः सर्वलिङ्गकाः शब्दाः अपि **स्त्रीलिङ्गप्रयोगे** ङित्-प्रत्ययेषु परेषु अवश्यम् एव विकल्पेन नदीसंज्ञकाः भवन्ति । ****अस्त्री** इति निषेधः** स्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि **स्त्रियाः** (6.4.79) इति सूत्रेण **स्त्री**-शब्दस्य अजादिप्रत्ययेषु परेषु "इयङ्"-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, **प्रकृतसूत्रेण उक्तः विकल्पः स्त्री**-शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यस्मात् सूत्रात् **अस्त्री** इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव **स्त्री**-शब्दस्य विषये ङित्-प्रत्ययेषु परेषु नित्यम् एव नदीसंज्ञाविशिष्टानि कार्याणि भवन्ति - .. code-block:: text स्त्री + (ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः] --> स्त्री + (ङे / ङसिँ / ङस् / आम्) [नदीसंज्ञायां सत्याम् **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति सप्तमी-एकवचनस्य प्रत्ययस्य आम्-आदेशः] --> स्त्री + आट् + (ए / अस् / अस् / आम्) [नदीसंज्ञायां सत्याम् **आण्नद्याः** (7.3.112) इति आडागमः] --> स्त्री + (ऐ / आस् / आस् / आम्) [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः] --> स्त्रिय् + (ऐ / आस् / आस् / आम्) [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः] --> स्त्रियै / स्त्रियाः / स्त्रियाः / स्त्रियाम् **अस्य **अस्त्री** इति निषेधस्य विषये तदन्तविधिः नास्ति** । अतः, "महास्त्री", "श्रेष्ठस्त्री", "परमस्त्री" इत्यादीनां स्त्र्यन्तशब्दानां विषये **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः ङित्-प्रत्ययेषु परेषु अवश्यं विकल्प्यते । इत्युक्ते एतेषां ङित्-प्रत्ययेषु रूपेषु नदीसंज्ञकं कार्यं कृत्वा "महास्त्रियै", "महास्त्रियाः", "महास्त्रियाः", "महास्त्रियाम्" इत्यादीनि रूपाणि, तथा च पक्षे नदीसंज्ञां विना "महास्त्रिये", "महास्त्रियः" "महास्त्रियः","महास्त्रियि" इत्यादीनि अपि रूपाणि सिद्ध्यन्ति । **प्रथमस्य अंशस्य कृते **स्त्र्याख्यौ** इति सम्पूर्णा अनुवृत्तिः** प्रकृतसूत्रे **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यस्मात् सूत्रात् **स्त्र्याख्यौ** इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अस्य शब्दस्य अर्थः **नित्यस्त्रीलिङ्गवाच्यत्वम्** इति स्वीकृतः अस्ति । एतादृशं नित्यस्त्रीलिङ्गत्वं ** केवलम् दीर्घ-ईकारान्तशब्दानां कृते, दीर्घ-ऊकारान्तशब्दानां कृते एव गृह्यते** । इत्युक्ते, नित्यस्त्रीलिङ्गत्वस्य नियमः अस्य सूत्रस्य प्रथमस्य अंशस्य कृते एव अस्ति । अत्र इदं स्मर्तव्यम्, यत् ****नेयङुवङ्स्थानावस्त्री** (1.4.4) इति सूत्रे **स्त्राख्यौ** इत्यस्य अनुवृत्तिः न वर्तते**, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं **नित्यस्त्रीलिङ्गशब्दानां ** सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये ङित्-प्रत्ययेषु परेषु **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां एतेषु रूपेषु आडागमः / आमादेशः अपि न भवति - .. code-block:: text परमधी ["परमा धीः यस्य सः" इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य इति सूत्रेण विहिता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते ] --> परमधी +(ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः] --> परमध् इयङ् + (ए / अस् / अस् / इ) [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ] --> परमधिये / परमधियः / परमधियः / परमधियि क विशेषः - "परमा धी यस्याः सा" इत्यस्मिन् अर्थे विहितस्य "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि **यू स्त्र्याख्यौ नदी ** (1.4.3) इत्यनेन प्राप्ता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, ङित्-प्रत्ययेषु परेषु अस्य शब्दस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति **वाऽऽमि** (1.4.5) इत्यत्र सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम् । **यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति** । इमां व्याख्याम् अनुसृत्य "परमा धी यस्याः सा" इत्यस्मिन् अर्थे विहितस्य "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि "परमधी" इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये **नेयङुवङ्स्थानावस्त्री** (1.4.4) इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, ङित्-प्रत्ययेषु परेषु "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति (वृत्तिकारमतम्) । **यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याक्या अस्ति** । यथा, "परमा धीः यस्य सः / यस्याः सा" इत्यस्मिन् अर्थे सिद्धः "प्रधी" इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः "प्रधी"-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं ङित्-प्रत्ययेषु अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते । अयं काशिकाकारस्य पक्षः अस्ति । काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् । **अप्राप्तविभाषा इयम्** अस्मिन् सूत्रे उक्तयोः द्वयोः अपि अंशयोः सन्दर्भेण पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् **अप्राप्तविभाषायाः** उदाहरणम् अस्ति । Sutrartha (English) ------------------- Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश, and any ह्रस्व-इकारान्त/हस्व-उकारान्त word optionally gets the term नदी in presence of a ङित् प्रत्यय. Vasu English Summary -------------------- When a case-affix having an indicatory ङ् (ङित्) follows, then feminine words ending in short इ and उ are optionally termed नदी , as well as feminine nouns in long ई and ऊ which admit इयङ् and उवङ् ; but not so the word स्त्री which is always नदी। Vasu English Translation ------------------------ When a case-affix having an indicatory ङ् (ङित्) follows, then feminine words ending in short इ and उ are optionally termed नदी , as well as feminine nouns in long ई and ऊ which admit इयङ् and उवङ् ; but not so the word स्त्री which is always नदी। Feminine words in long *i* and *u* have been defined as *nadi*, words in short vowels can never be termed *nadi*, while even some words in long vowels have also been excluded from the scope of the definition if they take *iyan* and *uvan* The present *sutra* declares an option in the case of all the above words, when a case-affix having an indicatory ङ follows. The case-affixes having an indicatory *n* are the Dative, Ablative. Genitive and Locative singulars. Thus we have:-- Dative मतये or मत्यै, धेनवे or धेन्वै, श्रिये or श्रियै; Ablative and Genitive मतेः or मत्याः, धेनो or धेन्वाः, श्रियः or श्रियाः; Locative मतौ or मत्याम्, धेनौ or धेन्वां, श्रियि or श्रियां. So also भ्रुवै or भ्रुवे & c. But *stri* is always स्त्र्यै &c. Kashika ------- दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति वा विधीयते। ङिति परतो ह्रस्वश्च य्वोः संबन्धी यः स्त्र्याख्यः, स्त्र्याख्यावियङुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्रीत्येव — स्त्रियै। स्त्र्याख्यावित्येव — अग्नये। वायवे। भानवे॥ Siddhanta Kaumudi ----------------- इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः (SK268) । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः मत्याः । मतेः मतेः॥ Balamanorama ------------ **ङिति ह्रस्वश्च** - इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह — ङिति ह्रस्वश्च । अत्र चकाराद्वाक्यद्वयं, तथा हियूस्त्र्याख्यौ नदी॑त्यनुवर्तते । ईश्च ऊश्च यू ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । स्त्रियमेवाचक्षाते स्त्र्याख्यौ । नित्यस्त्रीलिङ्गाविति यावत् ।नेयङ्वङ्स्थानावस्त्री॑ति सूत्रं नञ्वर्जमनुवर्तते । इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः । इयङुवङ्प्राप्तियोग्यावित्यर्थः ।वामी॑त्यतोवे॑त्यनुवर्तते । ततश्चइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात् ।वामी॑त्यतो वेति चानुवर्तते । ततश्चस्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते ।तदाह — इयङुवङ्स्थानाविति । द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम् । तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तुनेयङुवङ्स्थाना॑विति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह — आण्नद्या इति । मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह — मत्यै इति । मतये इति । नदीत्वाऽभावपक्षेशेषो घ्यसखी॑ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण् । मत्याः । नदीत्वाऽभावे-मतेः । आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः । मतीनाम् । ङौ विशेषमाह — नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाऽभावात् 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वं न भवति । किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः । Tattvabodhini ------------- **ङिति ह्रस्वश्च** - ङिति ह्रस्वश्च ।वामी॑ति सूत्राद्वेत्यनुवर्तते । अप्राप्तविभेषेयं । ह्रस्वयोरप्राप्तावितरयोस्तुनेयङुवाङ्स्थाना॑विति निषेधप्राप्तावारम्भात् । इहे॒इयङुवङ्स्थानौ॒॑स्त्रीशब्दभिन्नौ॒॑नित्यस्त्रीलिङ्गा॑विति त्रीणि ईदुतोर्विशेषणानि, ह्रस्वयोस्तुस्त्रिया॑मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात् । कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्रस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च । अतएवाऽऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह — — ह्रस्वौ च इउवर्णो स्त्रियामिति । Padamanjari ----------- यद्यत्र ह्रस्वविशेषणार्थम्'यू' इति नानुवर्त्यत, तदेहापिस्याद् - मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह - ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं'यू' ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः'यू' इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद्'यू' इति लभ्यते। स्वरितत्वादनुवृतं तु'यू' इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥ Nyaas ----- यद्यत्र ह्रस्वविशेषणार्थ `यू` इति नानुवर्तते इति नानुवर्तते, तदेहापि स्यात् - मात्रे दुहित्र इति; तस्मात् तदिहानुवर्तते। अनुवर्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोह्र्यस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठन्तमुपजायत इत्यत आह - `ह्रस्वश्च य्वोः सम्बन्धी` इति। कः पुनस्तयोः सम्बन्धी ह्रस्वः? यस्तयोह्र्यस्वः सवर्णः; तेन सामर्थ्यादिकारोकारयोग्र्रहणम्, न हि ताभ्यामन्यो ह्रस्व ईदुतोः सवर्णः सम्भवति। `कृत्यै, कृतये` इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु `शेषो ध्यसखि` (1.4.7) इति धिसंज्ञकत्वात् **घेर्ङिति** (7.3.111) गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति - अतिकृतये ब्राआहृणाय, अतिश्रियेति॥ Praudhamanorama --------------- अप्राप्तविभाषेयम्। ह्रस्वयोरप्राप्तावितरयोस्तु 'नेयङुवङ्स्थानौ' इति निषेधे प्राप्ते आरम्भात्। इहेयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गाविति त्रीणि ईदूतोर्विशेषणानि, ह्रस्वयोस्तु स्त्रियामित्येव न तु नित्यस्त्रीत्वपर्यन्तम्। अन्यथा इष्वशनिप्रभृतीनामुभयलिङ्गानां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्, कैयटरीत्या नित्यस्त्रीत्वाभावात्, हरदत्तमतेऽपि ह्रस्वांशे नित्यग्रहणव्यावर्त्यालाभाच्च। अत एव आख्याग्रहणमपहाय स्त्रीशब्दमात्रं निष्कृष्य सम्बध्यते; तदेतदाह— **औत्वे प्राप्त इति।** परत्वादिति भावः। यत्तु प्राचा 'औत्' इति सूत्रे घिनदीसंज्ञावर्जिताभ्यामिति व्याख्यातं, नासावक्षरार्थः किं तु पूर्वोत्तरसूत्रद्वयलभ्यः। एवं च 'इदुद्भ्याम्' इति सूत्रानुपन्यसनं प्राचः प्रामादिकमेवयम् ॥ Prakriyasarvasvam ----------------- ईदूत्सम्बन्धी ह्रस्वो ङित्सुपि वा नदीसंज्ञः । चकारेण ‘नेयडुवङ्स्थानौ—’ (१-४-४) इति निषिद्धश्च । Sudha ----- **ङिति ह्रस्वश्चेति ।** **यू स्त्र्याख्यौ नदी**(1.4.3) इत्यनुवर्तते । **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति सूत्रं नञ्वर्जमनुवर्तते । **वाऽऽमि**(1.4.5) इत्यतो वेत्यनुवर्तते, तदाह - **इयङुवङ्स्थानावित्यादिना । मत्यै ।** 'मति + ए अत्र **ङिति ह्रस्वश्च**(1.4.6) इति नदीसंज्ञायाम् **आण्नद्याः**(7.3.112) इत्याडागमे टित्वादाद्यावयवे 'मति-आ ए' इति जाते 'आटश्च' इति वृद्धौ सत्याम् 'ऐ' इति भूते 'इको यणचि' इति यणि कृते 'मत्यै' इति रूपम् । नदीसंज्ञाभावे **शेषो घ्यसखि**(1.4.7) इति घिसंज्ञायां **घेर्ङिति**(7.3.111) इति गुणे कृते **एचोऽयवायावः**(6.1.78) इत्ययादेशे 'मतये' इति रूपं सिद्धम् । **'मत्याः' ।** "मति ङसि" इत्यत्र इकारस्य ङस्य चेत्सञ्ज्ञायां लोपे च **ङिति ह्रस्वश्च**(1.4.6) इति नदीसंज्ञायाम् **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **इको यणचि**(6.1.77) इति यणि च कृते सस्य रुत्वे विसर्गे च कृते 'मत्याः' इति रूपम् । घिसंज्ञायां हरिवत् । Sutra Prayogas -------------- * **अनन्यगुर्वाः** (शिशुपालवधम्): `ङिति ह्रस्वश्च` इति वा नदीसंज्ञा। * **युवत्याः** (शिशुपालवधम्): `ङिति ह्रस्वश्च` इति वा नदीत्वादाडागमः।