14004: नेयङुवङ्स्थानावस्त्री

Padacheda: न | S | 0 | 0 |

इयङ्-उवङ्-स्थानौ | S | 1 | 2 |

अ-स्त्री | S | 1 | 1 |

Sutrartha

‘स्त्री’ इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः इयङ्स्थानिनः शब्दाः, तथा च दीर्घ-ऊकारान्ताः उवङ्स्थानिनः शब्दाः नदीसंज्ञकाः न भवन्ति । यथा - धी, भू, सुधी ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति <hlb>नदी</hlb> इति संज्ञा । प्रकृतसूत्रेण अस्याः संज्ञायाः निषेधः विधीयते । ये शब्दाः **इयङ्स्थानिनः उत उवङ्स्थानिनः सन्ति, तेषां नदीसंज्ञा निषिध्यते, परन्तु स्त्री इति इयङ्स्थानिशब्दस्य नदीसंज्ञा नैव निषिध्यते ** - इति अस्य सूत्रस्य आशयः । <spacer> <hlb>इयङ्स्थानिनः शब्दाः</hlb> - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे “**इयङ्” इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते** । यथा, “भी” इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य “औ”-प्रत्यये परे अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन “इयङ्” इति आदेशः भवति (“भी + औ = भिय् + औ = भियौ”), अतः “भी” इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, “श्री”, “धी”, “स्त्री” एते दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । किञ्च, “परमा धीः यस्य सः / यस्याः सा” अस्मिन् अर्थे प्रयुज्यमानयोः “परमधी” इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दयोः अपि “औ”-प्रत्यये परे अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन “इयङ्” इत्येव आदेशः भवति (“परमधी+ औ = परमधिय् + औ = परमधियौ”), अतः “परमधी” इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव स्तः । एवमेव, “शोभना धीः यस्य सः / यस्याः सा” अस्मिन् अर्थे प्रयुक्तौ “सुधी” इति ईकारान्तपुंलिङ्गस्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव । एतेभ्यः <nex>स्त्री</nex> इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि शब्दानां **यू स्त्र्याख्यौ नदी (1.4.3) इति सूत्रेण, अथ वा <!प्रथमलिङ्गग्रहणं च!> इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते ** । <spacer> <hlb>उवङ्स्थानिनः शब्दाः</hlb> - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे “**उवङ्” इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते** । यथा, “भू” इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य “औ”-प्रत्यये परे अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन “उवङ्” इति आदेशः भवति (“भू + औ = भुव् + औ = भुवौ”), अतः “भू” इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, “भ्रू” इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । किञ्च, “परमा भूः यस्य सः / यस्याः सा” अस्मिन् अर्थे प्रयुक्तौ “परमभू” इति दीर्घ-ऊकारान्त-पुंलिङ्गस्त्रीलिङ्गशब्दौ अपि उवङ्स्थानिनौ एव । एतादृशानां उवङ्स्थानिनां शब्दानां यू स्त्र्याख्यौ नदी (1.4.3) इति सूत्रेण, अथ वा <!प्रथमलिङ्गग्रहणं च!> इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते </b> । <note>सर्वेषाम् अपि इयङ्स्थानिशब्दानाम् उवङ्स्थानि-शब्दानाम् च आदौ नदीसंज्ञा भवेद् एव - इति न आवश्यकम् । येषाम् एतादृशी नदीसंज्ञा न भवति, तेषां विषये प्रकृतसूत्रेण उक्तः निषेधः अपि नैव प्रवर्तते । यथा, “सुध्यायति सः” अस्मिन् अर्थे प्रयुक्तः ईकारान्तपुंलिङ्गः “सुधी”-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि नित्यस्त्रीत्वस्य अभावात् अस्य नदीसंज्ञा एव न भवति । एवमेव, “सुध्यायति सा” अस्मिन् अर्थे प्रयुक्तः ईकारान्तस्त्रीलिङ्गः “सुधी”-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि कैयटस्य मतेन अस्य नित्यस्त्रीत्वं नैव परिगण्यते अतः अस्यापि नदीसंज्ञा न भवति । काशिकापक्षे तु अस्य ईकारान्तस्त्रीलिङ्गशब्दस्य नदीसंज्ञा अवश्यमेव सम्भवति, यस्याः प्रकृतसूत्रेण निषेधः अपि क्रियते । </note>

नदीसंज्ञायाः निषेधस्य प्रयोजनम्

प्रकृतसूत्रेण उक्तायाः नदीसंज्ञायाः निषेधस्य प्रयोजनम् अस्ति नदीसंज्ञाविशिष्टस्य कार्यस्य बाधः - इति । एतादृशः बाधः चतुर्षु स्थलेषु दृश्यते । तद् इत्थम् - <listsp> <li>1. <hlb> अम्बार्थनद्योर्ह्रस्वः (7.3.107) इत्यनेन प्राप्तस्य ह्रस्वादेशस्य अभावः</hlb> - नदीसंज्ञकशब्दानां सम्बोधनैकवचनस्य प्रक्रियायाम् अम्बार्थनद्योर्ह्रस्वः (7.3.107) इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयते । नदीसंज्ञायाः अभावे एतादृशः ह्रस्वादेशः न भवति । यथा, “धी” इति शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् एतादृशं ह्रस्वादेशं विना “हे धीः” इत्येव रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -

धी + सुँ [**स्वौजस्...** (4.1.2) इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । **एकवचनं सम्बुद्धिः** (2.3.49) इति **सम्बुद्धि**संज्ञा । ]
--> धीः [**यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन नदीसंज्ञायां प्राप्तायाम् **अम्बार्थनद्योर्ह्रस्वः** (7.3.107) इत्यनेन अङ्गस्य ह्रस्वादेशः अपि प्राप्नोति । परन्तु **नेयङुवङ्स्थानावस्त्री** (1.3.4) इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । नदीसंज्ञायाः अभावे अङ्गस्य ह्रस्वादेशः अपि न सम्भवति । अतः रुत्वे विसर्गे च कृते अन्तिमं रूपं सिद्ध्यति ।]

एवमेव “हे भीः”, “हे श्रीः”, “हे जयश्रीः”, “हे सुधीः (शोभना धीः यस्य सः / यस्याः सा)”, “हे भूः” - इत्यादीनि रूपाणि अपि सिद्ध्यन्ति । <li>2. <hlb> आण्नद्याः (7.3.112) इत्यनेन प्राप्तस्य आडागमस्य अभावः</hlb> - नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य आण्नद्याः (7.3.112) इत्यनेन आडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयम् आडागमः न भवति । यथा, “सुधी (शोभना धीः यस्य सः)” इति ईकारान्तपुंलिङ्गशब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् एतादृशं आडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव “सुधिये” इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -

सुधी (शोभना धीः यस्य सः) + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
--> सुधिय् + ए  [<!प्रथमलिङ्गग्रहणं च!> इति नदीसंज्ञायां प्राप्तायाम् **आण्नद्याः** (7.3.112) इति प्रत्ययस्य आडागमः अपि प्राप्नोति । परन्तु **नेयङुवङ्स्थानावस्त्री** (1.3.4) इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन आडागमः नैव भवति, अपितु अङ्गस्य इयङ्-आदेशः भवति । ]
--> सुधिये

एवमेव अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य रूपेषु अपि आडागमः न भवति, येन उभयत्र इयङ्-आदेशे कृते “सुधियः” इति रूपं सिद्ध्यति । किञ्च, अनेनैव प्रकारेण “परमा धीः यस्य सः” अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य “परमधी”-शब्दस्य, तथा च “शुद्धा धीः यस्य सः” अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य “शुद्धधी”-शब्दस्य रूपाणि अपि भवन्ति । <li>3. <hlb> ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन प्राप्तस्य नुडागमस्य अभावः</hlb> - नदीसंज्ञकशब्देभ्यः विहितस्य षष्ठीबहुवचनस्य “आम्”-प्रत्ययस्य ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयं नुडागमः न भवति । यथा, “सुधी (शोभना धीः यस्य सः)” इति ईकारान्तपुंलिङ्गशब्दस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एतादृशं नुडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव “हे सुधियाम्” इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -

   सुधी (शोभना धीः यस्य सः) + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
   --> सुधिय् + आम्  [<!प्रथमलिङ्गग्रहणं च!> इति नदीसंज्ञायां प्राप्तायाम् **ह्रस्वनद्यापो नुट्** (7.1.54)  इति प्रत्ययस्य नुडागमः अपि प्राप्नोति । परन्तु **नेयङुवङ्स्थानावस्त्री** (1.3.4) इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः नुडागमः न भवति, अपितु **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ]
   --> सुधियाम्


अनेनैव प्रकारेण "परमा धीः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य "परमधी"-शब्दस्य षष्ठीबहुवचनस्य "परमधियाम्", तथा च "शुद्धा धीः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य "शुद्धधी"-शब्दस्य षष्ठीबहुवचनस्य "शुद्धधियाम्" इति रूपं सिद्ध्यति ।

<li>4. <hlb> ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन प्राप्तस्य आमादेशस्य अभावः</hlb> - नदीसंज्ञकशब्देभ्यः विहितस्य सप्तमी-एकवचनस्य “ङि”-प्रत्ययस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन आम्-आदेशः भवति । नदीसंज्ञायाः अभावे तु अयं आदेशः नैव सम्भवति । यथा, “सुधी (शोभना धीः यस्य सः)” इति ईकारान्तपुंलिङ्गशब्दस्य सप्तम्येकवचनस्य प्रक्रियायाम् एतादृशं आमादेशं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव “सुधियि” इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् -

   सुधी (शोभना धीः यस्य सः) + ङि [सप्तम्येकवचनस्य प्रत्ययः]
   --> सुधिय् + आम्  [<!प्रथमलिङ्गग्रहणं च!> इति नदीसंज्ञायां प्राप्तायाम् **ङेराम्नद्याम्नीभ्यः** (7.3.116)  इति प्रत्ययस्य आमादेशः अपि प्राप्नोति । परन्तु **नेयङुवङ्स्थानावस्त्री** (1.3.4) इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः आमादेशः न भवति, अपितु **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ]
   --> सुधियाम्


अनेनैव प्रकारेण "परमा धीः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य "परमधी"-शब्दस्य षष्ठीबहुवचनस्य "परमधियाम्", तथा च "शुद्धा धीः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य "शुद्धधी"-शब्दस्य षष्ठीबहुवचनस्य "शुद्धधियाम्" इति रूपं सिद्ध्यति ।

</listsp> <note>नित्यस्त्रीलिङ्गवाचिशब्दानाम् विषये (यथा - “धी”, “श्री”, “जयश्री”, “भी” इत्यादिशब्दानां विषये) प्रकृतसूत्रेण नदीसंज्ञायाः बाधे कृते षष्ठीबहुवचनस्य “आम्”-प्रत्यये परे वाऽऽमि (1.4.5) इत्यनेन, तथा च ङित्-प्रत्ययेषु परेषु ङिति ह्रस्वश्च (1.4.6) इत्येताभ्यां सूत्राभ्यां पुनः विकल्पेन नदीसंज्ञायाः विधानं भवति । अतः एतेषां शब्दानां कृते प्रकृतसूत्रस्य प्रयोगः केवलं सम्बोधनैकवचनस्य प्रक्रियायाम् एव भवति । ये शब्दाः नित्यस्त्रीलिङ्गाः न सन्ति, तेषां विषये तु प्रकृतसूत्रेण बाधिता नदीसंज्ञा सर्वत्रैव बाधिता भवति, यतोऽहि वाऽऽमि (1.4.5) तथा च ङिति ह्रस्वश्च (1.4.6) इति द्वे अपि सूत्रे तेषां विषये नैव प्रवर्तेते । अतः एतेषां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः चतुर्षु अपि सन्दर्भेषु सम्भवति । अतएव उपरि प्रथमम् उदाहरणं विहाय अन्येषु त्रिषु अपि उदाहरणेषु पुंलिङ्गशब्दस्य प्रक्रिया एव प्रदर्शिता अस्ति । </note>

**अस्त्री इति निषेधः**

<hlb>स्त्री</hlb> इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि स्त्रियाः (6.4.79) इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु “इयङ्”-आदेशः भवति । अस्यां स्थितौ अस्य शब्दस्य नदीसंज्ञायाः प्रकृतसूत्रेण निषेधः न भवति - इति स्पष्टीकर्तुम् एव अस्मिन् सूत्रे <hlb>अस्त्री</hlb> इति निर्देशः विद्यते । अतएव स्त्री-शब्दस्य सम्बोधनैकवचने अम्बार्थनद्योर्ह्रस्वः (7.3.107) इत्यनेन अङ्गस्य ह्रस्वादेशः अवश्यं भवति, येन “हे स्त्रि” इति अन्तिमं रूपं सिद्ध्यति । प्रक्रिया इयम् -

स्त्री  + सुँ [**स्वौजस्...** (4.1.2) इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । **एकवचनं सम्बुद्धिः** (2.3.49) इति **सम्बुद्धि**संज्ञा । ]
--> स्त्रि + स् [**यू स्त्र्याख्यौ नदी** (1.4.3) इति नदीसंज्ञा । **अम्बार्थनद्योर्ह्रस्वः** (7.3.107) इत्यनेन अङ्गस्य ह्रस्वादेशः ।]
--> स्त्रि [**एङ्ह्रस्वात्सम्बुद्धेः** (6.1.69) इति सुँलोपः]

**अस्त्री इत्यत्र तदन्तविधिः नास्ति**

प्रकृतसूत्रे विद्यमानेन अस्त्री इति निषेधेन स्त्रीभिन्नस्य इयङ्स्थानीशब्दस्य नदीसंज्ञा निषिध्यते । अयं निषेधः महास्त्री, श्रेष्ठस्त्री, परमस्त्री इत्यादीनां स्त्र्यन्तानां विषये प्रवर्तते वा - इति प्रश्ने जाते - एते शब्दाः स्त्री-भिन्नाः सन्ति, अतः एतेषां विषये प्रकृतसूत्रेण उक्तः निषेधः निश्चयेन प्रवर्तते - इति उत्तरम् । इत्युक्ते, एतेषां स्त्र्यन्त-शब्दानां पूर्वसूत्रेण नदीसंज्ञायां प्राप्तायां, प्रकृतसूत्रेण सा अवश्यम् एव निषिध्यते । अतश्च एतेषां सम्बोधनैकवचनस्य रूपेषु अम्बार्थनद्योर्ह्रस्वः (7.3.107) इत्यनेन अङ्गस्य ह्रस्वादेशः अपि न प्रवर्तते, येन “हे महास्त्रीः”, “हे श्रेष्ठस्त्रीः”, “हे परमस्त्रीः” - इत्यादीनि एव रूपाणि सिद्ध्यन्ति ।

**स्त्राख्यौ इत्यस्य अनुवृत्तिः न**

प्रकृतसूत्रे यू स्त्र्याख्यौ नदी (1.4.3) इत्यस्मात् पूर्वसूत्रात् यू तथा च नदी एतौ द्वौ शब्दौ एव अनुवृत्तिरूपेण स्वीक्रियेते । स्त्र्याख्यौ इति शब्दः प्रकृतसूत्रे अनुवृत्तिरूपेण नैव स्वीकृतः अस्ति । अतएव, प्रकृतसूत्रेण उक्तः निषेधः सर्वेषाम् एव इयङ्स्थानिशब्दानाम् उवङ्स्थानिशब्दानां च कृते प्रवर्तते; केवलम् नित्यस्त्रीलिङ्गशब्दानां कृते एव न । यथा, “शोभना धीः यस्य सः” अस्मिन् अर्थे प्रयुक्तस्य “सुधी” इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दस्य, एवमेव “परमा भूः यस्य सः” अस्मिन् अर्थे प्रयुक्तस्य “परमभू” इति दीर्घ-ऊकारान्तपुंल्लिङ्गशब्दस्य अपि <!प्रथमलिङ्गग्रहणं च!> इत्यनेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण अवश्यं निषिध्यते ।

बाध्यबाधकभावः

ये इयङ्स्थानिनः उवङ्स्थानिनः च दीर्घ-ईकारान्तशब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति (स्त्रीशब्दं वर्जयित्वा), तेषां विषये **यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन प्राप्ता नदीसंज्ञा** प्रकृतसूत्रेण निषिध्यते । एतादृशे निषेधे जाते, अग्रे विद्यमानाभ्यां द्वाभ्यां सूत्राभ्याम् पुनः एतेषां शब्दानां विकल्पेन नदीसंज्ञा भवति । तदित्थम् -

1.**वाऽमि** (1.4.5) इति सूत्रेण षष्ठीबहुवचनस्य आम्-प्रत्यये परे नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति । 2. ङिति ह्रस्वश्च (1.4.6) इत्यनेन ङित्-प्रत्ययेषु परेषु नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति ।

<spacer> ये इयङ्स्थानिनः उवङ्स्थानिनः वा शब्दाः शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये <!प्रथमलिङ्गग्रहणं च !> इति वार्त्तिकेन प्राप्ता या नदीसंज्ञा प्रकृतसूत्रेण प्रतिषिध्यते, तस्याः विषये एते अपवादसूत्रे नैव प्रवर्तेते । इत्युक्ते, एतेषां शब्दानाम् “आम्”-प्रत्यये परे, ङित्-प्रत्ययेषु च परेषु विकल्पेन अपि नदीसंज्ञा नैव भवति ।

Sutrartha (English)

Except for the word ‘स्त्री’, any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश is not referred to as नदी.

Vasu English Summary

Feminine words ending in ई and ऊ which admit the substitute इयङ् and उवङ् (6.1.77) are not called नदी ; except the word स्त्री (which is called नदी not withstanding its substituting इयङ्).

Vasu English Translation

Feminine words ending in ई and ऊ which admit the substitute इयङ् and उवङ् (6.1.77) are not called नदी ; except the word स्त्री (which is called नदी not withstanding its substituting इयङ्). The definition of Nadi given in the last sutra was rather too wide, this limits the scope. Thus श्री, happiness, भ्रू brow, admit the substitutes iyan and uvan respectively, and are not nadi. Their vocative singular is हे श्रीः, हे भ्रूः &c., while the vocative singular of stri is हे स्त्रि.

Kashika

पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः स्थानमनयोरितीयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्रीति किम्? हे स्त्रि॥

Siddhanta Kaumudi

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥

Laghu Siddhanta Kaumudi

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥

Balamanorama

नेयङुवङ्स्थानावस्त्री - नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता । एवं च ह्रस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धिः । अतिस्त्रये इति । नदीत्वाऽभावे घित्वात्घेर्ङिती॑ति गुणेऽयादेशः । अतिस्त्रियाः अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुणः ।ङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे ङेराम्, आट् । अतिस्त्राविति । नदीत्वाऽभावपक्षेअच्च घेः॑ । श्रीरिति । श्रयन्त्येतामिति श्रीः ।क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे॑ति क्विप्, प्रकृतेदीर्घश्च । श्री शब्दात्सुः । अङ्यन्तत्वान्न सुलोपः । श्रियौ श्रिय इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधौइको यणची॑ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ् । एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न । ‘यू स्त्र्याख्यौ’ इति नदीत्वात्अम्बार्थे॑ति ह्रस्वेप्राप्ते — नेयङुवङ् ।यू स्त्र्याख्यौ नदी॑ इत्यतो ‘यू’नदी॑त्यनुवर्तते । ‘स्थान’ शब्दो भावे ल्युङन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह — इयङुवङोरित्यादिना । हे श्रीरिति । अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ॑रिति ह्रस्वो नेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । श्रियौ श्रिय इति । औट्शसोः पूर्ववत् । टा-श्रिया । श्रियै इति ।ङिति ह्रस्वश्चे॑ति ङिति नदीत्वपक्षे आट्, वृद्धिः । श्रिये इति । नदीत्वाऽभावे इयङ् । श्रिया इति । ङसिङसोर्नदीत्वे आट्, वृद्धिः । श्रिय इति । नदीत्वाऽभावपक्षे इयङेव । ङित्त्वाऽभावादामिङिति ह्रस्वश्चे॑ति अप्राप्ते ।

Tattvabodhini

नेयङुवङ्स्थानावस्त्री - नेयङ्वङ्स्तानावस्त्री । तिष्ठतो ययोरितिस्थानौ॑ । अधिकरणे ल्युट् । इयङुवङोः स्थानाविति षष्ठीसमासः । तथाच फलितार्थमाह -इयङुवङोः स्थितिर्ययोरिति । स्थानग्रहणं किम् प्रकृष्टा धीः — प्रधीः । हे प्रधि! । अत्रएरनेकाच॑ इति यणा इयङो बादानान्नेयङुवङ्स्थानाविति निषेधो न प्रवर्तते ।यत्रेयडुवङौ निष्पद्येते तत्रैव नदीसंज्ञाया निषेधः । यत्र त्वपवादेन बाध्यते तत्र न निषेध॑इत्येतदर्थं हिस्थान॑ग्रहणं कृतम् । अन्यथानेयङुवङा॑रित्येव ब्राऊयात् ।इवङुवङोनिमित्तभूतौ यू नदीसंज्ञकौ ने ॑त्यर्थलाभात् । अस्त्रीति किम् हे स्त्री ।

Padamanjari

इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम्’विमानना सुभ्रु कुतः पितुर्गृहे’ इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥

Nyaas

इयङुवङस्थानौ यौ यू तौ नदीसंज्ञकौ न भवतः इति। यूद्वारेण य्वन्तस्यायं प्रतिषेधो विज्ञायते, न केवलयोः; प्राप्त्यभावात्। न हि यू केवलावियङुस्तानौ स्त्र्याख्यौ विद्येते। हि श्रीः, हे भ्रूः इति। अत्र नदीसंज्ञाया अभावात् तन्निबन्धनः अ म्बार्थनद्योह्र्यस्वः (7.3.107) इति ह्रस्वो न भवति। श्रिञ् सेवायाम् (धातुपाठः-897) क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घौऽसम्प्रासारणञ्च`(वा। 288) इति क्विपि दीर्घत्वे कृते श्रीरिति भवति। `भ्रमु अनवस्थाने (धातुपाठः-1205) इत्यस्मात् भ्रमेर्डूः (द।उ।1।177) इति डूप्रत्यये टिलोपे भ्रुरिति भवति। उभयोः अचि श्नुधातु (6.4.77) इत्यादिनेयडुवङोर्विधानादियङुवङस्थानौ यू भवतः।हे स्त्रि इति। ष्टऐ स्त्यै शब्दसंधातयोः (धातुपाठः-911,910)। आदेच उपदेशेऽशितित (6.1.44) इत्यात्त्वम्; स्त्यायतेर्ड्रट, `टेः (6.4.155) इति टिभागलोपः; लोपो व्योर्वलि (6.1.66) इति वाकरस्य लोपः, टिट्ढा (4.1.15) इत्यादिना ङीप्। अत्र नदीसंज्ञायाः प्रतिषेधाभावात् ह्रस्वत्वं भवत्येव। स्त्रीशब्दस्य स्त्रियाः (6.4.79) इतीयङविधानादियङस्थान ईकारः।अथ स्थानग्रहणं किमर्थम्? इयङुवङस्थानयोः प्रतिषेधो यथा स्यादिति चेत्? न; यद्येतत् प्रयोजनमभिमतं स्यात् इयङुवङोः इत्येवं वाच्यम्। एवमप्ययमेवार्थः - ईयङुवङोः सम्बन्धौ यौ यू तयोर्नदीसंज्ञा न भवतीति। कौ च तयोः सम्बन्धिनौ यू? यौ तयोः प्रकृतिभुतावियङुवङरस्थानाविति, अन्तरेणापि स्थानग्रहणमियङुवङस्थानयोः प्रतिषेधो विज्ञास्यते। इदं तर्हि स्थानग्रहणस्य प्रयोजनम् - यत्रेयङ्वङोः स्थितिरभिनिवृत्तिस्तत्र प्रतिषेधो यथा स्यात्। यत्र त्वपवादेन तयोर्बाधस्तत्र मा भूदिति - आध्यै, वर्षाभ्वै इति। ध्यै चिन्तायाम् (धातुपाठः-908) अन्येभ्योऽपि दृश्यते (3.3.130) इति क्विप्; सम्प्रसारणञ्च। सम्प्रसारणन्तु दृशिग्रहणाल्लभ्यते। तथा हि तत्रैव दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद्दीर्घः, क्वचिद्द्विर्वचनमित्युक्त्वा ध्यायतेः सम्प्रसारणञ्च (वा।292) इति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थ्येकवचने एरनेकाचः (6.4.82) इत्यादिना यणादेशः। वर्षाभूशब्दस्यापि वर्षाभ्वश्च (6.4.84) इति।

Praudhamanorama

तिष्ठतो ययोरिति स्थानौ, अधिकरणे ल्युट्। इयङुवङोः स्थानाविति षष्ठीसमासः। फलितार्थमाह— इयङुवङोः स्थितिर्ययोरिति। यत्रेयङुवङौ निष्पद्येते तत्रैवायं निषेधः। यत्र त्वपवादेन बाध्येत तत्र न निषेध इत्येतदर्थं स्थानग्रहणम्।

Prakriyasarvasvam

इयङुवङोः स्थितियर्योस्तावीदूतौ नदीसंज्ञौ न स्तः । स्त्रीशब्दस्तु नद्येव । एवमनदीत्वात् सम्बुद्धौ न ह्रस्वः । हे श्रीः । श्रियम् श्रियौ । श्रियः । श्रिया । ङित्सु ‘ङिति ह्रस्वश्च’ (१-४-६) इति वा नदीत्वम् । आट् । श्रियै । श्रिये । श्रियाः । श्रियः ॥

Sudha

नेयङुवङस्थानाविति । यू स्त्र्याख्यौ नदी**(1.4.3) इत्यतो यू नदीत्यनुवर्तते । स्थानशब्दो भावे ल्युडन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह - **इयङुवङोरित्यादिना । हे श्रीरिति । श्रीशब्दात्सम्बोधने सावागते नेयङुवङ्स्थानावस्त्री**(1.4.4) इति नदीत्वाभावे **अम्बाऽर्थनद्योर्ह्रस्वः**(7.3.107) इति ह्रस्वाभावे सस्य रुत्वे रस्य विसर्गत्वे च ‘हे श्रीः’ इति रूपम् । **श्रियै श्रिये इति । ‘श्री+ङे’ इत्यत्र यू स्त्र्याख्यौ नदी**(1.4.3) इति नदीसंज्ञायां प्राप्तायां **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति निषेधे **ङिति ह्रस्वश्च**(1.4.6) इति ङिति विकल्पेन नदीसंज्ञायां कृतायाम् **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति पूर्वपरयोः स्थाने वृद्धौ कृतायाम् **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि मिलित्वा ‘श्रियै’ इति । पक्षे - **ङिति ह्रस्वश्च**(1.4.6) इति नदीसज्ञाभावे इयङि ‘श्रिये’ इति रूपम् । **श्रियाः, श्रियः इति । श्रीशब्दात् ङसिङसोः परयोः सतोः नदीसंज्ञायाम् आटि वृद्धौ इयङि च कृते ‘श्रियाः’ इति । नदीसंज्ञाभावे इयङेव ‘श्रियः’ इति ।

Sutra Prayogas

  • सुभ्रु (कुमारसम्भवम्): नेयङुवङ्स्थानावस्त्री इति नदीसंज्ञाप्रतिषेधः।

  • भटस्त्रियाः (शिशुपालवधम्): नेयङुवङ्स्थानावस्त्री इति ‘अस्त्री’ इति प्रतिषेधान्नदीत्वादाडागमः।