14005: वाऽऽमि ============= **Padacheda:** वा | S | 0 | 0 | आमि | S | 7 | 1 | Sutrartha --------- **"स्त्री" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू ।** **स्त्री** इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् **नित्यस्त्रीलिङ्गवाचिनाम्** इयङ्स्थानिशब्दानाम्, तथा च दीर्घ-ऊकारान्तानाम् **नित्यस्त्रीलिङ्गवाचिनाम्** उवङ्स्थानिशब्दानाम् **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन प्राप्तायाः नदीसंज्ञायाः **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषेधे जाते, **षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते** - इति अस्य सूत्रस्य आशयः । इयङ्स्थानिनः शब्दाः - **येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे "**इयङ्**" इति आदेशः भवति , ते **इयङ्स्थानिनः शब्दाः** इति नाम्ना ज्ञायन्ते** । यथा, "भी" इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य "औ"-प्रत्यये परे **अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन "इयङ्" इति आदेशः भवति ("भी + औ = भिय् + औ = भियौ"), अतः "भी" इति शब्दः **इयङ्स्थानी** अस्ति इति उच्यते । एवमेव, "श्री", "धी", "स्त्री" एते दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । एतेभ्यः स्त्री इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-इयङ्स्थानिनां शब्दानां **यू स्त्र्याख्यौ नदी** (1.4.3) इति सूत्रेण प्राप्ता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते । अस्यां स्थितौ **षष्ठीबहुवचनस्य "आम्"-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते**, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति । उवङ्स्थानिनः शब्दाः - **येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे "**उवङ्**" इति आदेशः भवति , ते **उवङ्स्थानिनः शब्दाः** इति नाम्ना ज्ञायन्ते** । यथा, "भू" इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य "औ"-प्रत्यये परे **अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन "उवङ्" इति आदेशः भवति ("भू + औ = भुव् + औ = भुवौ"), अतः "भू" इति शब्दः **उवङ्स्थानी** अस्ति इति उच्यते । एवमेव, "भ्रू" इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । एतादृशानां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-उवङ्स्थानिनां शब्दानां **यू स्त्र्याख्यौ नदी** (1.4.3) इति सूत्रेण प्राप्ता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते । अस्यां स्थितौ **षष्ठीबहुवचनस्य "आम्"-प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते**, अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति । **विकल्पस्य प्रयोजनम्** षष्ठीबहुवचनस्य "आम्"-प्रत्यये परे नदीसंज्ञायाः वैकल्पिकविधानस्य प्रयोजनम् अस्ति ****ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन नुडागमसहितस्य रूपस्य सिद्धिः** - इति । यथा, "धी" इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य षष्ठीबहुवचनस्य रूपे नुडागमे कृते "धीनाम्", तथा च नुडागमं विना "धियाम्" इति रूपद्वयम् अपि सिद्ध्यति । प्रक्रिया इयम् - .. code-block:: text **नदीसंज्ञापक्षे** - धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → धी + नुट् + आम् [**ह्रस्वनद्यापो नुट्** (7.1.54) इति नुट्-आगमः] → धीनाम्
**नदीसंज्ञा-अभाव-पक्षे** - धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → ध् + इयङ् + आम् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ] → धियाम् अनेनैव प्रकारेण "भ्रू" शब्दस्य अपि "भ्रूणाम्" तथा च "भ्रुवाम्" एते द्वे रूपे सिद्ध्यतः । किञ्च, एतादृशम् एव "श्री", "जयश्री", "भू", "परमभू (= परमा च असौ भूः)" इत्यादीनाम् शब्दानाम् अपि षष्ठीबहुवचनस्य द्वे द्वे रूपे भवतः । ** स्त्र्याख्यौ इति अनुवृत्तिः** प्रकृतसूत्रे **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यस्मात् सूत्रात् **स्त्र्याख्यौ** इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अतश्च **इदं सूत्रं केवलं नित्यस्त्रीलिङ्गशब्दानां विषये एव प्रवर्तते ** । अत्र इदं स्मर्तव्यम्, यत् ****नेयङुवङ्स्थानावस्त्री** (1.4.4) इति पूर्वस्मिन् सूत्रे **स्त्राख्यौ** इत्यस्य अनुवृत्तिः न वर्तते**, अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये षष्ठीबहुवचनस्य आम्-प्रत्यये परे **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां षष्ठीबहुवचनस्य रूपेषु **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन नुट्-आगमः अपि न भवति - .. code-block:: text परमधी ["परमा धीः यस्य सः" इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य इति सूत्रेण विहिता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते ] --> परमधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः] --> परमध् इयङ् + आम् [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशः ] --> परमधियाम् विशेषः - "परमा धी यस्याः सा" इत्यस्मिन् अर्थे विहितस्य "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन प्राप्ता नदीसंज्ञा **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, षष्ठी-बहुवचनस्य "आम्"-प्रत्यये परे अस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति प्रकृतसूत्रस्य सन्दर्भेण सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम् । **यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति** । इमां व्याख्याम् अनुसृत्य "परमा धी यस्याः सा" इत्यस्मिन् अर्थे विहितस्य "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि "परमधी" इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये **नेयङुवङ्स्थानावस्त्री** (1.4.4) इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, षष्ठी-बहुवचनस्य "आम्"-प्रत्यये परे "परमधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते, अतश्च तस्य रूपम् "परमधियाम्" इत्येव सिद्ध्यति । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति । **यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याख्या अस्ति** । यथा, "परमा धीः यस्य सः / यस्याः सा" इत्यस्मिन् अर्थे सिद्धः "प्रधी" इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः "प्रधी"-शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं षष्ठीबहुवचनस्य "आम्"-प्रत्यये परे अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते, येन अस्य शब्दस्य षष्ठीबहुवचनस्य प्रक्रियायां **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन विकल्पेन नुडागमं कृत्वा, "परमधीनाम्" तथा च "परमधियाम्" इति द्वे रूपे सिद्ध्यतः । अयं काशिकाकारस्य पक्षः अस्ति । काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् । ****अस्त्री** इति निषेधः** स्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि **स्त्रियाः** (6.4.79) इति सूत्रेण **स्त्री**-शब्दस्य अजादिप्रत्ययेषु परेषु "इयङ्"-आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः **स्त्री**-शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, **प्रकृतसूत्रेण उक्तः विकल्पः "स्त्री"-शब्दस्य विषये नैव प्रवर्तते** - इति स्पष्टीकर्तुम् प्रकृतसूत्रे **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यस्मात् सूत्रात् **अस्त्री** इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव **स्त्री**-शब्दस्य षष्ठीबहुवचने **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन नुडागमः नित्यम् एव भवति, येन केवलम् "स्त्रीणाम्" इति एकम् एव रूपं सिद्ध्यति - .. code-block:: text स्त्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → स्त्री + नुट् + आम् [**ह्रस्वनद्यापो नुट्** (7.1.54) इति नुट्-आगमः] → स्त्रीणाम् [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम् ] **अस्य **अस्त्री** इति निषेधस्य विषये तदन्तविधिः नास्ति** । अतः, "महास्त्री", "श्रेष्ठस्त्री", "परमस्त्री" इत्यादीनां स्त्र्यन्तशब्दानां विषये **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः षष्ठीबहुवचनस्य "आम्"-प्रत्यये परे प्रकृतसूत्रेण अवश्यं विकल्प्यते, अतश्च एतेषां षष्ठीबहुवचनस्य रूपेषु नदीसंज्ञापक्षे **ह्रस्वनद्यापो नुट्** (7.1.54) इत्यनेन प्रत्ययस्य विकल्पेन नुडागमे कृते "महास्त्रीणाम्", "श्रेष्ठस्त्रीणाम्", "परमस्त्रीणाम्" - इत्यादीनि रूपाणि, तथा च पक्षे नुडागमं विना नदीसंज्ञा-अभावपक्षे इयङ्-आदेशे कृते "महास्त्रियाम्", "श्रेष्ठस्त्रियाम्", "परमस्त्रियाम्" इत्यादीनि रूपाणि अपि सिद्ध्यन्ति । **अप्राप्तविभाषा इयम्** पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् **अप्राप्तविभाषायाः** उदाहरणम् अस्ति । अतएव काशिकाकारः प्रकृतसूत्रस्य सन्दर्भेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः उच्यते इति व्याचष्टे । ****वा+अमि** इति विग्रहः अनुचितः** प्रकृतसूत्रस्य विग्रहः **वा + अमि** इति प्रकारेण अपि सम्भवति । परन्तु एतादृशः विग्रहः न करणीयः, यतोहि द्वितीयैकवचनस्य "अम्"-प्रत्यये परे नदीसंज्ञायाः न किमपि प्रयोजनं विद्यते । अतएव अत्र **वा + आमि** इत्येव विग्रहः क्रियते । किञ्च, अमुम् विषयं स्पष्टीकर्तुम् एव सूत्रस्य लेखने द्विवारम् अवग्रहचिह्नम् ("ऽऽ") अपि प्रयुक्तं दृश्यते । **सप्तम्येकवचनस्य "आम्"-प्रत्यये परे इदं सूत्रं न प्रवर्तते** दीर्घ-ईकारान्त-शब्दानाम् नदीसंज्ञायां सत्याम् तेभ्यः विहितस्य सप्तम्यैकवचनस्य **ङि**-प्रत्ययस्य **ङेराम्नद्याम्नीभ्यः** (7.3.116) इत्यनेन "आम्" इति आदेशः भवति । अस्य "आम्"-आदेशस्य अपि प्रकृतसूत्रेण ग्रहणं न क्रियते, यतोहि तत्र नदीसंज्ञायां सत्याम् एव "आम्"-आदेशे कृते, ततः पुनः नदीसंज्ञायाः अभावः न हि वक्तुं शक्यते । **सिद्धान्तकौमुद्याः वाक्यानां स्पष्टीकरणम्** **सिद्धान्तकौमुद्यां प्रकृतसूत्रम् दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दानां प्रकरणे पाठितम् अस्ति** । तत्र प्रसङ्गवशात् कौमुदीकारः प्रकृतसूत्रस्य व्याख्याने सूत्रसम्बन्धिनं विषयं विहाय अन्येषाम् अपि केषाञ्चन दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रक्रियाः प्रदर्शयति । कौमदीकारेण अत्र उक्ताः बिन्दवः अधः सङ्क्षिप्यन्ते -
  • 1. प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् - "प्रध्यायति सा" अस्मिन् अर्थे प्रयुक्तः "प्रधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः , तथा च "प्रकृष्टा धीः यस्याः सा" अस्मिन् अर्थे प्रयुक्तः "प्रधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः - एतौ द्वौ अपि शब्दौ **पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्** इति काशिकाकारस्य मतेन नदीसंज्ञकौ स्तः, अतः तयोः "लक्ष्मी"-शब्दसदृशानि रूपाणि भवन्ति ।
  • 2. लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् - कैयटस्य मतम् तु **लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वम्** इति अस्ति । द्वौ अपि "प्रधी" शब्दी तु पुंलिङ्गे अपि तस्मिन्नेव अर्थे प्रयुक्तौ अवश्यम् एव दृश्येते, अतश्च कैयटमतेन तौ स्त्रीलिङ्गप्रयोगे अपि नदीसंज्ञकौ न भवतः । इत्युक्ते, कैयटमतेन "प्रध्यायति सा" तथा च "प्रकृष्टा धीः यस्याः सा" एतयोः अर्थयोः प्रयुक्तस्य "प्रधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति ।
  • 3. प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । - "प्रकृष्टा धीः" इति कर्मधारयसमासेन निर्मितः "प्रधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः तु कैयटस्य काशिकाकारस्य च अपि मतेन ** यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेनैव नदीसंज्ञकः एव, अतश्च तस्य "लक्ष्मी"-शब्दसदृशानि रूपाणि भवन्ति ।
  • 4. अमि शसि च प्रध्यं प्रध्य इति विशेषः - "प्रध्यायति सा", "प्रकृष्टा धीः यस्याः सा", तथा च "प्रकृष्टा धीः" - इति केनापि प्रकारेण सिद्धस्य "प्रधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीयायाः एकवचने बहुवचने च **अमि पूर्वः** (6.1.107) तथा च **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति सूत्रे बाधित्वा **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इत्यनेन यणादेशे कृते (यथासंख्यम्) "प्रध्यम्" तथा च "प्रध्यः" इति रूपे भवतः ।
  • 5. सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् - "सुष्ठु धीः यस्याः सा" तथा च "सुध्यायति सा" इति उभयथा सिद्धस्य "सुधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य काशिकाकारस्य मतेन "श्री"-शब्दसदृशानि रूपाणि भवन्ति ।
  • 6. मतान्तरे तु पुंवत्, सुष्ठु धीरिति विग्रहे तु श्रीवदेव - कैयटमतेन"सुष्ठु धीः यस्याः सा" तथा च "सुध्यायति सा" इति सिद्धस्य "सुधी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञायाः अपि अभावे पुंलिङ्गसदृशानि एव रूपाणि भवन्ति । "सुष्ठु धीः" इति कर्मधारयसमासेन निर्मितस्य शब्दस्य विषये तु कैयटमतेन (** यू स्त्र्याख्यौ नदी** (1.4.3) इति सूत्रेण) नदीसंज्ञा अस्ति एव, परन्तुु **नेयङुवङ्स्थानावस्त्री** (1.4.4) इत्यनेन तस्याः निषेधः अपि भवति, अपि च **वाऽऽमि** (1.4.5) तथा च **ङिति ह्रस्वश्च** (1.4.6) इत्येताभ्यां तस्याः पुनः वैकल्पिकं विधानम् च अपि भवति । अतः अस्य शब्दस्य रूपाणि "श्री"-शब्दसदृशानि रूपाणि भवन्ति ।
  • 7. ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः - "ग्रामं नयति सा" अस्मिन् अर्थे प्रयुक्तस्य "ग्रामणी" इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । ग्रामनयनक्रिया स्वभावतः पुंलिङ्गवाचिनी अस्ति, अतः "एषा" / "सा" इति पदं विना "ग्रामणी"-शब्दस्य स्त्रीत्वं नैव स्पष्टीभवति इति कारणात् काशिकामतेन अपि अस्य नित्यस्त्रीत्वम् नास्ति, अतश्च नदीसंज्ञा अपि न वर्तते ।
  • 8. एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् - एवमेव, "खलपू", "कटप्रू" इत्यादयः शब्दाः अपि स्वभावतः पुंलिङ्गम् एव द्योतयन्ति, अतः एतेषाम् अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा न भवति, अतश्च एतेषां रूपाणि पुंलिङ्गस्त्रीलिङ्गयोः समानानि एव भवन्ति । Sutrartha (English) ------------------- Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश optionally gets the term नदी in presence of the आम् प्रत्यय of षष्ठी बहुवचन. Vasu English Summary -------------------- Feminine words ending in ई and ऊ though admitting इयङ् and उवङ् (6.1.77) substitutes, are optionally termed नदी when the affix अम् (Genitive Plural) follows, but not so the word स्त्री , which is always नदी। Vasu English Translation ------------------------ Feminine words ending in ई and ऊ though admitting इयङ् and उवङ् (6.1.77) substitutes, are optionally termed नदी when the affix अम् (Genitive Plural) follows, but not so the word स्त्री , which is always नदी। श्री + आम् = श्री इयङ् + आम् = श्रीयाम्; भ्रू + आम् = भ्रूवाम्; or श्री + आम् = श्रीनुट् + आम् (7.1.54) = श्रीणाम्; भ्रू + आम् = भ्रूणाम्. But *stri* is always *nadi*. and we have स्त्रीणाम् *strinam*. To the absolute prohibition enjoined by the last *sutra*, this allows an option in the case of Genitive Plural. Kashika ------- पूर्वेण नित्ये प्रतिषेधे प्राप्त आमि विकल्पः क्रियते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्रीत्येव — स्त्रीणाम्॥ Siddhanta Kaumudi ----------------- इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥ Laghu Siddhanta Kaumudi ----------------------- इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥ Balamanorama ------------ **वाऽऽमि** - वाऽऽमि ।यूस्त्र्याख्यौ नदी॑त्यनुवर्तते ।नेयङुवङ्स्थानावस्त्री॑ति नञ्वर्जनमनुवर्तते । वा आमीति च्छेदः । अमि नदीकार्याऽभावात् । तदाह — इयङुवङ्स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'ह्रस्वनद्यापः' इति नुट् । श्रियामिति । नदीत्वाऽभावे तु इयङेव । श्रियोः श्रीषु । प्रधीशब्दस्य त्विति । प्रध्यायतीत्यर्थेध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपे 'हलः' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि । तत्र 'एरनेकाचः' इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ॑ इति नदीत्वनिषेधाऽभावा 'द्यू स्त्र्याख्यौ' इति नित्यनदीत्वे सतिअम्बार्थे॑त्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः । ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह — पदान्तरं विनापीति । पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः । अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्येस्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये ।स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय 'ब्राआहृणः'ब्राआहृणी॑त्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः । लिङ्गान्तरेति ।स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व॑मिति कैयटमतम् ।स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे॑ति 'यू स्त्र्याख्यौ' इत्यत्र भाष्यादिति तदाशयः ।पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः । प्रकृष्टेति । प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः । अमि शसि चेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा 'एरनेकाचः' इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राआहृण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः । अत एव भाष्यात् 'नद्यृतश्च' इति कप् नेत्याहुः । सुष्ठि धीर्स्या इति । सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधान्ङिति ह्रस्वश्चे॑तिवामी॑ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि ।न भूसुधियो॑रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति ।लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व॑मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः । ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति ।स्त्रिया॑मिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह — ग्रहनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः । एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम् । अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंवदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ताः । धेनुर्मतिवदिति । उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः । Tattvabodhini ------------- **वाऽऽमि** - वामि ।यू स्त्र्याख्यौ नदी॑नेयहुवङ्स्थानावस्त्री॑त्यनुवर्तनादाह -इयङुवङ्स्थानावित्यादिना । यद्यपिने ति प्रकृतो निषेधोऽनेन विकल्प्यते तथापि निषेधविकल्पे विधिविकल्प एव फलतीति स एव सूत्रार्थ उचित इत्याशयेनाह -वा नदीसंज्ञौ स्त इति ।ङिति ह्रस्वश्चे॑ति सूत्रेऽप्येवमेव । प्रधीशब्दस्य त्विति ।एरनेकाच॑इचि यणा इयङो बाधनात्नेयङुवङ्स्थाना॑विति निषेधोऽत्र न प्रवर्तते । यत्र त्वपवादेनेयङुवङौ बाध्यते तत्र न निषेध इत्याशयेन व्याचष्टे -लक्ष्मीवद्रूपमिति ।अमि शसि च विशेषं ॑इत्यनुपदमेव वक्ष्यति । पुंवद्रूपमिति । अयं च मतभेदःप्रकृष्टा धीर्यस्याः॒॑प्रकर्षेण ध्यायती॑ति वा विग्रहे बोध्यः । लक्ष्मीवदिति ।मतद्वयेऽपी॑ति शेषः । सुष्ठु धीर्यस्या इति । नन्वस्मिन्विग्रहे कैयटमते सुधीशब्दस्य नित्यस्त्रीत्वाऽभावेऽपि धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति सुधीशब्दः श्रीवदेव भवति, नतु पुंवदिति चेदत्राहुः — — ॒नेयङुवङ्स्थानावस्त्री॑ति धीशब्दे नदीसंज्ञानिषेधात्सुधीशब्देप्रथमलिङ्गग्रहणं चे॑त्यस्याऽप्रवृत्तिः, तथावृत्तिमते॑इति ग्रन्थः स्वरसत सङ्गच्छते इति । मतान्तर इति ।लिङ्गान्तरानभिधायकत्वं त॑दिति कैयटमते इत्यर्थः । श्रीवदेवेति । बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वान्मतद्वयेऽपि श्रीवदेवेत्यर्थः । (२६४) स्त्रियां च ।७.१.९६ ।स्त्रियां च । असर्वमानस्थानार्थमयमारम्भः ।तृज्वत्क्रोष्टु॑रिति वर्तते । तद्वदेवात्रापि रूपाऽतिदेशः ।स्त्रिया॑मित्यर्थग्रहणं, तदाह -स्त्रीवाची क्रोष्टुशब्द इत्यादि । एवं च पञ्चमिः क्रोष्ट्रीबिः क्रीतै रथैः पञ्चक्रो,टृभी रथैरित्यत्रापि तृज्वद्भावः सिध्यति । ये तु॒स्त्रिया॑मिति स्त्रीप्रत्यये इति व्याचक्षते, ङीषर्थं च क्रोष्टुशब्दं गौरादुषु पठन्ति तेषामिह तृजद्भावे न सिध्येत् ।तेन क्रीत॑मिति ठको॒ऽध्यर्धपूर्वे॑ति लुका लुप्तत्वाल्लुक्तद्धितलुकीति ङीषो लुकि स्त्रीप्रत्ययपरत्वाषभावात् । Padamanjari ----------- संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे'ह्रस्वनद्यापो नुट्' ॥ Nyaas ----- संहितासाम्येऽपि षष्ठीबहुवचनस्यामो ग्रहणम्, न तु द्वितीयैकवचनस्य; तत्र नदीसंज्ञाकार्याभावात्। नापि सप्तम्यादेशस्यामो ग्रहणम्; तस्य नदीसंज्ञोत्तरकालं **ङेराम्नद्याम्नीभ्यः** (7.3.116) इत्याम्विधानात्। `श्रीणात्र` इति। नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्` (7.1.54) इति नुट्। इह स्त्र्याख्यादिति वर्तते, विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन एव शब्दरूपस्य स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यः, तत्र नदीसंज्ञा न भवति - अतिश्रियां ब्राआहृणानाम्, अतिभ्रुवां ब्राआहृणानामिति॥ Praudhamanorama --------------- यद्यपि प्रकृतो निषेधोऽनेन विकल्प्यत इति प्राञ्चः, तथाऽपि निषेधविकल्पे विधिविकल्प एव फलति। तथा च लाघवात् स एव सूत्रार्थ उचित इत्याशयेनाह- **वा नदीसंज्ञौ स्त इति।** 'ङिति ह्रस्वश्च' इति सूत्रेप्येवमेव। Prakriyasarvasvam ----------------- 'नेयङुवङ्स्थानौ' (१-४-४) इति निषिद्धं नदीत्वमामि वा स्यात् । नदीत्वे नुट् । श्रीणाम् । श्रियाम् । ङौ तु श्रियां श्रियि । स्त्री । उणादिसिद्धस्यास्य ङ्यन्तत्वात् सुलोपः ॥ Sudha ----- **वामीति ।** यूस्त्र्याख्यौ नदीत्यनुवर्तते । **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति नञ्वर्जमनुवर्तते । वा आमीति छेदः । अमि नदीकार्याभावात् तदाह - **इयङुवङ्स्थानावित्यादिना ।** 'श्री आम्' इति स्थिते अत्र **यू स्त्र्याख्यौ नदी**(1.4.3) इति नदीसंज्ञाया प्राप्तायां **नेयङुवङ्स्थानावस्त्री**(1.4.4) इति निषेधे **वाऽऽमि**(1.4.5) इति वा नदीसंज्ञायां **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुटि पर्जन्यवल्लक्षणन्यायेन दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे 'श्रीणाम्' इति । नदीत्वाभावपक्षे - इयङि 'श्रियाम्' इति । **श्रियि, श्रियामिति ।** 'श्री ङि' इत्यत्र **ङिति ह्रस्वश्च**(1.4.6) इति नदीत्वे **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि **आण्नद्याः**(7.3.112) इत्याटि **आटश्च**(6.1.90) इति वृद्धौ **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि 'श्रियाम्' इति । नदीत्वाभावपक्षे इयङि 'श्रियि' इति रूपम् । श्रियोः । श्रीषु । **धनुर्मतिवदिति** । उकारस्य ओकारो गुणः । अवादेश इत्यादिविशेषस्तु सुगम इति भावः । Sutra Prayogas -------------- * **पाषाणं** (भट्टिकाव्यम्): `अकथितं च` इत्यनेन पाषाणस्य कर्मसंज्ञा।