13083: व्याङ्परिभ्यो रमः

Padacheda: वि-आङ्-परिभ्यः | S | 5 | 3 |

रमः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb रम् ‘to sport’, preceded by वि and आङ् , परस्मैपद is used.

Vasu English Translation

After the verb रम् ‘to sport’, preceded by वि and आङ् , परस्मैपद is used. The verb रम् means ‘to sport.’ It is anudattet and therefore by sutra (1.3.12) it would have taken Atmanepada terminations; the present sutra ordains parasmaipada instead, as विरमति ‘he takes rest’; आरमति ‘he delights in,’ परिरमति ‘he sports.’

With other prepositions than these, it will take atmanepada termination. As अभिरमते

Kashika

रमु क्रीडायाम्। अनुदात्तेत्त्वादात्मनेपदे प्राप्ते परस्मैपदं विधीयते। वि आङ् परि इत्येवंपूर्वाद् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्य इति किम् ? अभिरमते॥

Siddhanta Kaumudi

विरमति ॥

Laghu Siddhanta Kaumudi

रमु क्रीडायाम्॥ विरमति॥

Prakriyasarvasvam

विरमतीत्यादि ।

Sudha

व्याङ्परिभ्यो रम इति । वि आङ् परि इत्येवं पूर्वाद्रमतेः परस्मैपदम्भवति । विरमति । अत्र अनुदात्तङित आत्मनेपदम् इत्यात्मनेपदे प्राप्ते, <व्याङ्परिभ्यो रमः>> इति परस्मैपदमिति बोध्यम् । आरमति, परिरमति । इति ।

Sutra Prayogas

  • विरराम (रघुवंशम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।

  • विरमन्त्या (किरातार्जुनीयम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।

  • विरमन्ति (किरातार्जुनीयम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।

  • विरराम (शिशुपालवधम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।

  • व्यरंसीत् (भट्टिकाव्यम्): व्याङ्-परि-भ्यो रमः इति तिप्।

  • विशश्रमुश्च (भट्टिकाव्यम्): व्यापरिभ्यो रमः इति परस्मैपदम्।

  • व्यरमत् (भट्टिकाव्यम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।

  • मयाऽरमत् (भट्टिकाव्यम्): व्याङ्परिभ्यो रमः इति परस्मैपदम्।