13082: परेर्मृषः¶
Padacheda: परेः | S | 5 | 1 |
मृषः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb मृष् ‘to bear’, preceded by परि , परस्मैपद is used when the fruit of the action accrues to the agent.
Vasu English Translation¶
After the verb मृष् ‘to bear’, preceded by परि , परस्मैपद is used when the fruit of the action accrues to the agent. The root मृष “to suffer” is svaritet, and by sutra (1.3.72) it would have taken Atmanepada termination when the fruit of the action accrued to the agent. This ordains parasmaipada instead. As परमृष्यति ‘he endures or he becomes angry.’ When not preceded by this preposition, it takes Atmanepada termination. As आमृष्यते.
According to some authors, the root वह of the last aphorism is said to be understood in this, so that वह preceded by परि will also take parasmaipada terminations; as परिवहति
Kashika¶
मृष तितिक्षायाम् स्वरितेत्। ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेरिति किम्? आमृष्यते। वहतिमपि केचिदत्रानुवर्तयन्ति — परिवहति॥
Siddhanta Kaumudi¶
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥
Laghu Siddhanta Kaumudi¶
परिमृष्यति॥
Balamanorama¶
परेर्मृषः - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । ‘परे’ रिति योगो विभज्यते । ‘वह’ इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । ‘मृष’ इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् ।
Tattvabodhini¶
परेर्मृषः - स्वरित्वात्पदद्वये प्राप्तेऽयमारम्भः । परिमर्षतीति ।आ धृषाद्वे॑ति ति वैकल्पिकत्वाण्णिजभावः ।
Nyaas¶
परिमृष्यति इति। दिवादित्वाच्छ्यन्॥
Prakriyasarvasvam¶
परिमृष्यति । वहेरपि । परिवहति । परिमृषिरसूयार्थ इत्याह भट्टिः । क्षिपादीनां स्वरितेत्त्वान्न्नित्यार्थमुक्तिः ।
Sudha¶
परेर्मृष इति । परिपूर्वाद् मृषतेः परस्मैपदम्भवति । परिमृषति । मृषतितिक्षायां स्वरितेत् । ततस्तथैवात्मनेपदे प्राप्ते परेर्मृषः इति परस्मैपदं विधीयते ।