13084: उपाच्च

Padacheda: उपात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And also after उप , the verb रम् takes the affixes of the परस्मैपद।

Vasu English Translation

And also after उप , the verb रम् takes the affixes of the परस्मैपद। As देवदत्तमुपरमति ‘he causes Devadatta to refrain.’ The sense of the verb uparamati is causative here, as if it was उपरमयति. This is an example of a verb involving in it the force of the causative affix णिच्.

It might be asked why was not the preposition उप read along with the other preposition in the last aphorism, instead of making this a separate sutra. The answer is that the necessity of making a separate sutra with the preposition upa arose from the exigencies of sutra making. It is desired, that the next sutra (1.3.85) should apply only to the root upa-ram, and not to other compounds of ram; and this could only be done by making these two distinct _sutras.

Kashika

रम इत्येव। उपपूर्वाद् रमतेः परस्मैपदं भवति। देवदत्तमुपरमति। यज्ञदत्तमुपरमति। उपरमयतीति यावत्। अन्तर्भावितण्यर्थोऽत्र रमिः। पृथग्योगकरणमुत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति सा उपपूर्वादेव यथा स्यात्॥

Siddhanta Kaumudi

यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥

Laghu Siddhanta Kaumudi

यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥ इति परस्मैपदप्रक्रिया ॥ इति पदव्यवस्था ॥

Balamanorama

उपाच्च - उपाच्च । उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तयेव्याङ्पर्युपेभ्यो रमे॑रिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतः सकर्मकमुदाहरति — यज्ञदत्तमुपरमतीति । ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह — उपरमयतीत्यर्थ इति । ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह — अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः ।

Tattvabodhini

उपाच्च - उपाच्च ।व्याङपर्युपेभ्यः॑ इति नोक्तम्, उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति ।

Padamanjari

उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्, उपरतोनिधनादिदि। न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते, तत्कथं सकर्मकस्योदाहरणम्? अत आह-उपरमयति यावदिति। कथं पुनरण्यन्तो ण्यर्थे वर्तते? अत आह-अन्तर्भावितण्यर्थ इति॥

Nyaas

उपाच्च इति। चकारः पूर्वापेक्षया समुच्चयार्थः। उपरमति देवदत्तम् इति। ननु चोपपूर्वो रमिरकर्मक एव भवति। तथा ह्रुपपूर्वस्यास्य विनाशोऽर्थो भवति; यथा - उपरतानि, नष्टानीति गम्यते। निवृत्तिर्वा भवति, स्वाध्यायादुपरमते, निवर्तत इति गम्यते। न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते। तत्कतं सकर्मकस्योदाहरणं युज्यत इत्याह - उपरमयतीति यावत् इति। एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति। अकर्मको हि धातुण्र्यर्थे वर्तमानः सकर्मको भवति। अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम्? स तथोक्तः। एवंविधस्य तस्य प्रयोज्येन सकर्मत्वमुपपद्यत एव।अथ किमर्थं पृथग्योगः क्रियते? न व्याङपर्युपेभ्यो रमः इत्येक एव योगः क्रियतामित्याह - पृथग्योगकरणम् इत्यादि। गतार्थम्॥

Sudha

उपाच्चेति । रम इत्येव । उपपूर्वाद्रमतेः परस्मैपदं भवति । ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह - उपरमयतीत्यर्थ इति । ननु णिजभावात् कथमयमर्थो लभ्यते इत्यत आह - अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः । इति परस्मैपदप्रक्रिया ।

Sutra Prayogas

  • नोपरराम (किरातार्जुनीयम्): उपाच्च इति परस्मैपदम्।

  • उपारंसीत् (भट्टिकाव्यम्): उपाच्च इति तिप्।