13082: परेर्मृषः ================ **Padacheda:** परेः | S | 5 | 1 | मृषः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb मृष् 'to bear', preceded by परि , परस्मैपद is used when the fruit of the action accrues to the agent. Vasu English Translation ------------------------ After the verb मृष् 'to bear', preceded by परि , परस्मैपद is used when the fruit of the action accrues to the agent. The root मृष "to suffer" is *svaritet*, and by *sutra* (1.3.72) it would have taken *Atmanepada* termination when the fruit of the action accrued to the agent. This ordains *parasmaipada* instead. As परमृष्यति 'he endures or he becomes angry.' When not preceded by this preposition, it takes *Atmanepada* termination. As आमृष्यते. According to some authors, the root वह of the last aphorism is said to be understood in this, so that वह preceded by परि will also take *parasmaipada* terminations; as परिवहति Kashika ------- **मृष तितिक्षायाम्** स्वरितेत्। ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेरिति किम्? आमृष्यते। वहतिमपि केचिदत्रानुवर्तयन्ति — परिवहति॥ Siddhanta Kaumudi ----------------- परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥ Laghu Siddhanta Kaumudi ----------------------- परिमृष्यति॥ Balamanorama ------------ **परेर्मृषः** - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । 'परे' रिति योगो विभज्यते । 'वह' इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । 'मृष' इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् । Tattvabodhini ------------- **परेर्मृषः** - स्वरित्वात्पदद्वये प्राप्तेऽयमारम्भः । परिमर्षतीति ।आ धृषाद्वे॑ति ति वैकल्पिकत्वाण्णिजभावः । Nyaas ----- `परिमृष्यति` इति। दिवादित्वाच्छ्यन्॥ Prakriyasarvasvam ----------------- परिमृष्यति । वहेरपि । परिवहति । परिमृषिरसूयार्थ इत्याह भट्टिः । क्षिपादीनां स्वरितेत्त्वान्न्नित्यार्थमुक्तिः । Sudha ----- **परेर्मृष इति ।** परिपूर्वाद् मृषतेः परस्मैपदम्भवति । **परिमृषति ।** मृषतितिक्षायां स्वरितेत् । ततस्तथैवात्मनेपदे प्राप्ते **परेर्मृषः** इति परस्मैपदं विधीयते ।