13076: अनुपसर्गाज्ज्ञः

Padacheda: अनुपसर्गात् | S | 5 | 1 |

ज्ञः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb ज्ञा , when not preceded by any उपसर्ग , the terminations are of the आत्मनेपद , when the fruit of the action accrues to the agent.

Vasu English Translation

After the verb ज्ञा , when not preceded by any उपसर्ग , the terminations are of the आत्मनेपद , when the fruit of the action accrues to the agent. The phrase ‘when the fruit of the action accrues to the agent’ is understood in this sutra also. Thus गां जानीते ‘he recognises the cow as his own’; अश्वं जानीते ‘he recognises the horse as his own.’

Why do we say when not preceded by any upasarga ? For when compounded with prepositions, it may take the Atmanepada terminations; as स्वर्गं लोकं न प्रजानाति मूढः ‘the fool does not know the heavenly regions.’

When, however, the fruit of the action does not accrue to the agent, the simple root ज्ञा takes parasmaipada terminations. देवदत्तस्य गां जानाति ‘he recognises Devadatta’s cow.’

Kashika

कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति। गां जानीते। अश्वं जानीते। अनुपसर्गादिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राय इत्येव — देवदत्तस्य गां जानाति॥

Siddhanta Kaumudi

गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ॥

Balamanorama

अनुपसर्गाज्ज्ञः - अनुपसर्गाज्ज्ञः । अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः ।अकर्मकाच्चे॑त्येव सिद्धे सकर्मकार्थमिदम् । तदाह — गां जानीते इति । कथमिति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतयाअकर्मकाच्चे॑त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः । समाधत्ते — कर्मणि लिडिति । तथा चभावकर्मणोटरित्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति ‘नृप’ इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह — नृपेणेति विपरिणाम इति । अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः ।

Tattvabodhini

अनुपसर्गाज्ज्ञः - अनुपसर्गाज्ज्ञः । अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः ।

Padamanjari

सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति।’संप्रतिभ्यामनाध्याने’ इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥

Nyaas

नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। अकर्मकाच्च (1.3.45) इत्येवं सिद्धत्वात्॥

Prakriyasarvasvam

अस्मात् कर्त्रर्थे फले तङ् । कृष्णं जानीते भक्तः । रिपून् जानाति ‘चचरः । सोपसर्गात् तु प्रजानातीत्येव ।

Sutra Prayogas

  • जानानाभिर् (भट्टिकाव्यम्): अनुपसर्गाज्ज्ञः इति तङ्।

  • अनुजज्ञे (भट्टिकाव्यम्): अनुपसर्गात् इतिवचनादात्मनेपदम्।