13076: अनुपसर्गाज्ज्ञः ====================== **Padacheda:** अनुपसर्गात् | S | 5 | 1 | ज्ञः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb ज्ञा , when not preceded by any उपसर्ग , the terminations are of the आत्मनेपद , when the fruit of the action accrues to the agent. Vasu English Translation ------------------------ After the verb ज्ञा , when not preceded by any उपसर्ग , the terminations are of the आत्मनेपद , when the fruit of the action accrues to the agent. The phrase 'when the fruit of the action accrues to the agent' is understood in this *sutra* also. Thus गां जानीते 'he recognises the cow as his own'; अश्वं जानीते 'he recognises the horse as his own.' Why do we say when not preceded by any *upasarga* ? For when compounded with prepositions, it may take the *Atmanepada* terminations; as स्वर्गं लोकं न प्रजानाति मूढः 'the fool does not know the heavenly regions.' When, however, the fruit of the action does not accrue to the agent, the simple root ज्ञा takes *parasmaipada* terminations. देवदत्तस्य गां जानाति 'he recognises *Devadatta*'s cow.' Kashika ------- कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति। गां जानीते। अश्वं जानीते। अनुपसर्गादिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राय इत्येव — देवदत्तस्य गां जानाति॥ Siddhanta Kaumudi ----------------- गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ॥ Balamanorama ------------ **अनुपसर्गाज्ज्ञः** - अनुपसर्गाज्ज्ञः । अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः ।अकर्मकाच्चे॑त्येव सिद्धे सकर्मकार्थमिदम् । तदाह — गां जानीते इति । कथमिति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतयाअकर्मकाच्चे॑त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः । समाधत्ते — कर्मणि लिडिति । तथा चभावकर्मणोटरित्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति 'नृप' इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह — नृपेणेति विपरिणाम इति । अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः । Tattvabodhini ------------- **अनुपसर्गाज्ज्ञः** - अनुपसर्गाज्ज्ञः । अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः । Padamanjari ----------- सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति।'संप्रतिभ्यामनाध्याने' इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥ Nyaas ----- नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। **अकर्मकाच्च** (1.3.45) इत्येवं सिद्धत्वात्॥ Prakriyasarvasvam ----------------- अस्मात् कर्त्रर्थे फले तङ् । कृष्णं जानीते भक्तः । रिपून् जानाति 'चचरः । सोपसर्गात् तु प्रजानातीत्येव । Sutra Prayogas -------------- * **जानानाभिर्** (भट्टिकाव्यम्): `अनुपसर्गाज्ज्ञः` इति तङ्। * **अनुजज्ञे** (भट्टिकाव्यम्): `अनुपसर्गात्` इतिवचनादात्मनेपदम्।