13075: समुदाङ्भ्यो यमोऽग्रन्थे¶
Padacheda: सम्-उत्-आङ्भ्यः | S | 5 | 3 |
यमः | S | 5 | 1 |
अग्रन्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb यम् ‘to strive’, preceded by सम् , उत् and आङ् , when it does not refer to a book, the आत्मनेपद is used, when the fruit of the action accrues to the agent.
Vasu English Translation¶
After the verb यम् ‘to strive’, preceded by सम् , उत् and आङ् , when it does not refer to a book, the आत्मनेपद is used, when the fruit of the action accrues to the agent. The phrase ‘when the fruit of the action accrues to the agent’ is read into this aphorism by anuvritti from sutra (1.3.72). As ब्रीहीन् संयच्छते ‘he gathers rice’; भारमुद्यच्छते ‘he lifts up the load’; वस्त्रमायच्छते ‘he draws out the cloth.’ The root yam preceded by the preposition आङ् takes the terminations of the Atmanepada by virtue of aphorism (1.3.28) ante; but in that aphorism the verb was intransitive, here it is transitive, and this explains the necessity of making two different sutras for one compound verb आयम्.
Why do we say ‘when it does not refer to a book.’ For otherwise the verb will take the terminations of the parasmaipada. As उद्यच्छति चिकित्सां वैद्यः ‘the physician diligently studies medicine.’
When however the fruit of the action does not accrue to the agent, the above compound verbs are parasmaipadi. As संयच्छति, उद्यच्छति, आयच्छति.
Kashika¶
कर्त्रभिप्राय इति वर्तते। सम् उद् आङ्इत्येवंपूर्वाद् यमेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति, ग्रन्थविषयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारमुद्यच्छते। वस्त्रमायच्छते। आङ्पूर्वादकर्मकाद् आङो यमहनः (१.३.२८) इति सिद्धमेवात्मनेपदम्, सकर्मकार्थमिदं पुनर्ग्रहणम्। अग्रन्थ इति किम्? उद्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राय इत्येव — संयच्छति। उद्यच्छति। आयच्छति॥
Siddhanta Kaumudi¶
अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥
Balamanorama¶
समुदाङ्भ्यो यमोऽग्रन्थे - समुदाङ्भ्यो । सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः । व्रीहीन्संयच्छते इति । संगृह्णातीत्यर्थः । भारमुद्यच्छते इति । उदृह्णातीत्यर्थः । वरुआमायच्छते इति । कटआदौ निबध्नातीत्यर्थः । कत्र्रभिप्राये इत्येवेति । व्रीहीन् संयच्छतीति । परार्थं संगृह्णातीत्यर्थः । ‘आङो यमहनः’ इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् ।
Tattvabodhini¶
समुदाङ्भ्यो यमोऽग्रन्थे - समुदाङ्भ्यो ।आङो यमहनः॑ इत्येव सिद्धे आङ्पूर्वकस्य वचनं सकर्मकार्थमिति ध्वनयन्नुदाहरति — वस्त्रमायच्छत इति ।
Nyaas¶
उद्यचछति इति। चिकित्सा वैद्यः इति। चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः॥
Prakriyasarvasvam¶
<karika>एभ्यः परस्य यमेः कर्त्रर्थे फले तङ्, ग्रन्थविषये तु न । वाचं संयच्छतेऽथोद्यच्छत आयच्छते पटम् । ग्रन्थे तु शास्त्रमुद्यच्छत्युद्युङ्क्तेऽस्मिन्नितीर्यते ॥ ६५९ ॥</karika>
Sutra Prayogas¶
उद्यच्छमाना (रघुवंशम्): समुदाङ्भ्यो यमोऽग्रन्थे इति सकर्मकाधिकारत्वादात्मनेपदम्।
**** (भट्टिकाव्यम्): समुदाद्भ्यो यमो ग्रन्थे इति तङ् न भवति।
आयंसीद् (भट्टिकाव्यम्): समुदाभ्यो यमोऽग्रन्थे इति तङ् न भवति।
आयच्छमानाभिर् (भट्टिकाव्यम्): समुदाङ्भ्यः इति तङ्।
उपायंसत (भट्टिकाव्यम्): समुदाभ्यो यमो ग्रन्थे इति वा तङ्।
संयंसीर् (भट्टिकाव्यम्): समुदाभ्यो यमः इति तङ् न भवति तत्राकर्मकादिति वर्तते।
उपायंस्त (भट्टिकाव्यम्): समुदाङ्भ्यो यमोऽग्रन्थे इति तङ् ।
उदयच्छन् (भट्टिकाव्यम्): समुदाभ्यो यमोऽग्रन्थे इति तङ् न भवति अकर्त्रभिप्रायत्वात्।