13077: विभाषोपपदेन प्रतीयमाने¶
Padacheda: विभाषा | S | 1 | 1 |
उपपदेन | S | 3 | 1 |
प्रतीयमाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The आत्मनेपद is optionally used, when the fact of the fruit of the action accruing to the agent is indicted by an उपपदग i.e. by a word used along with the verb.
Vasu English Translation¶
The आत्मनेपद is optionally used, when the fact of the fruit of the action accruing to the agent is indicted by an उपपदग i.e. by a word used along with the verb. By the preceding five sutras (1.3.72) to (1.3.76), Atmanepada terminations were ordained to come after verbs which implied the accrual of the fruit of the action to the agent, that is to say, where the verb by itself denoted this. But when the same idea, instead of being inherent in the verb, is expressed by an upapada, that is by a word governed by the verb, the necessity of using the Atmanepada affixes, to denote the same idea, is obviously removed, and in such a case it is optional whether we use the Atmanepada or the Parasmaipada terminations. As स्वं यज्ञं यजति or यजते ‘he sacrifices for his own yajna’; स्वं कटं करोति or कुरुते ‘he makes his own cot.’; स्वं पुत्रमपवदति or अपवदते; स्वंमोदनं पाचवते or पाचयति, &c. So on with all the above five sutras.
Kashika¶
स्वरितञितः० (१.३.७२) इति पञ्चभिः सूत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितम्, तदुपपदेन द्योतिते न प्राप्नोतीति वचनमारभ्यते। समीपे श्रूयमाणं शब्दान्तरमुपपदम्, तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाषात्मनेपदं भवति। स्वं यज्ञं यजति, स्वं यज्ञं यजते। स्वं कटं करोति, स्वं कटं कुरुते। स्वं पुत्रमपवदति, स्वं पुत्रमपवदते। एवं पञ्चसूत्र्यामुदाहार्यम्॥
Siddhanta Kaumudi¶
स्वरितञित (SK2158) इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदति अपवदते वा । स्वं यज्ञं कारयति कारयते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वां गां जानाति जानीते वा ॥
Balamanorama¶
विभाषोपपदेन प्रतीयमाने - विभाषोपपदेन । स्वरितञित इत्यादीति ।स्वरितञितः कत्र्रभिप्राये क्रियाफले॑,अपाद्वदः॑,णिचश्च॑,॒समुदाङ्भ्यो यमोऽग्रन्थे॑,॒अनुपसर्गाज्ज्ञः॑ इति पञ्चसूत्रीत्यर्थः । समीपोच्चारितं पदमुपपदम्, नततुतत्रोपपदं सप्तमीस्थ॑मिति सङ्केतितम्, असंभवात् । तदाह — समीपोच्चारितेन पदेनेति । फस्य कर्तृगामित्वे नित्यमात्नेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमितिन वेति विभाषा॑इति सूत्रे भाष्ये स्पष्टम् । स्वं यज्ञमिति । स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्याऽऽत्मगामित्वावगमात् ‘स्वरितञितः’ इति नित्यात्मनेपदस्यानेन विकल्पः । स्वं यज्ञं कारयतीत्यत्रणिचश्चे॑त्यस्याऽनेन विकल्पः । स्वं व्रीहिमिति । अत्र ‘समुदाङ्भ्यो यमः’ इत्यस्याऽनेन विकल्पः । स्वां गामिति । अत्र ‘अनुपसर्गाज्ज्ञः’ इत्यस्याऽनेन विकल्पः । इत्यात्मनेपदप्रक्रिया । स्वरादिनिपातमव्ययम् ।१.१.३७ ।स्वरादिनिपातमव्ययम् । स्वर् आदिः येषां ते स्वरादयः, ते च निपाताश्चेति समाहारद्वन्द्वः । फलितमाह — स्वरादय इति । स्वरादीन् पठति — स्वरित्यादिना । स्वरादीनांचादीनां च पृथक्पाठस्तुनिपाता आद्युदात्ताः॑ इति स्वरभेदार्थः, चादीनामसत्त्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्त्ववाचिनामसत्त्ववाचिनां च तदिति व्यवस्थार्थश्च । स्वर् — स्वर्गे पारत्रिकसुखविशेषे,परलोके च । अन्तर् — मध्ये । प्रातर्-प्रत्यूषे । पुनर् — अप्रथमे, विशेषे च । सनुतर — अन्तर्धाने । स्वराद्याः पञ् रेफान्ताः । र्तेन स्वर्याति प्रातरत्रेत्यादौहशि चे॑त्युत्त्वं न, तत्र ‘रोः’ इत्युकारानुबन्धग्रहणात् ।उच्चैस् — महति । नीचैस् — अल्पे । शनैस् — क्रियामान्द्ये । ऋधक् — सत्ये । वियोगशैघ्र्यसामीप्यलाघवेष्वित्यन्ये । ऋते — वर्जने । युगपत्-एककावे । आरात्-दूरसमीपयोः । पृथक् — भिन्ने । ह्रस्-अतीतेऽह्नि । दिवा-दिवसे । रात्रौ-निशि । सायं-निशामुखे । चिरं बहुकाले । मनाक्, ईषत् — इदं द्वयमल्पे । जोषं-सुखे, मौने च । तूष्णीम् — मौने । बहिस् अवस — इदं द्वयं बाह्रे । समया — समीपे, मध्ये च । निकषा — अन्तिके । स्वयम् — आत्मनेत्यर्थे । वृथा — व्यर्थे । नक्तम् — रात्रौ । नञ् — निषेधे ।तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इत्यन्ये । हेतौ — निमित्ते । इद्धां — प्रकाशये । अद्धा — स्फुचावधारणयोः । तत्त्वातिशययोरित्यन्ये । सामि — अर्धे, जुगुप्सिते च । वत् इत्यनेनतेन तुल्यं क्रिया चेद्वतिः॑ ‘तत्र तस्येव’ ‘तदर्हम्’ इति वतिप्रत्ययो गृह्रते ।उपसर्गाच्छन्दसि धात्वर्थे॑ इति वतिस्तु न गृह्रते,परावतो निवत उद्वतश्चे॑त्यत्राव्ययत्वाऽभावात् । वस्तुतस्तुतद्धितश्चासर्वविभक्तिः॑ इत्येव सिद्धे वतिग्रहणमिह व्यर्थमेव । ब्राआहृणवत्, क्षत्रियवदिति वतिप्रत्ययान्त स्योदाहरणम् । केवसप्रत्ययस्य अव्ययत्वे प्रयोजनाऽभावात् । सना, सनत्, सनात्-एतत्रयं नित्ये । उपधा-भेदा । तिरस् — अन्तर्धौ, तिर्यगर्थे, पराभवे च । अन्तरा — मध्ये, विनार्थे च । अन्तरेण — वर्जने । वस्तुतस्तुअन्तबोध्यम् । ज्योक् — कालभूयस्त्वे प्रश्ने, शीघ्रार्थे, सम्प्रतीत्यर्थे च । कम् — वारिमूर्धनिन्दासुखेषु । शम् — सुखे । सहसा आकस्मिकाविमर्शयोः । विना वर्जने । नाना अनेकविनार्थयोः । स्वस्ति-मङ्गले । स्वधा-पितृहविर्दाने । अलम् — भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट्, वौषट्, श्रौषट्, एतत्रयं देवहविर्दावे । अन्यत्-अन्यार्थे । अस्ति-सत्तयाम् ।उपसर्गविभक्तिस्वरप्रतिरूपकाश्चे॑ति चाद्यन्तर्गणसूत्रादेवअस्ति॑शब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयो स्थितम् । उपांशु — अप्रकाशोच्चारणे, रहस्ये च । क्षमा — क्षान्तौ ।विहायसा — आकाशो । दोषा — रात्रौ । मृषा मिथ्या-इदं द्वयं वितथे । मुधा-व्यर्थे । पुरा — अविरते, चिरातीते, भविष्यदासन्ने च । मिथो मिथस्-इदं द्वयं रहसि, सहार्थे च । प्रायस् — बाहुल्ये । मुहुस् — पुनरार्थे । प्रबाहुकम् — समानकाले, ऊध्र्वार्थे च । प्रवाहिका इति पाठान्तरम् । आर्यहलम् — बवात्कारे । शाकटायनस्तु — आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम्-पौनः पुन्ये । साकम् सार्धम् — इदं द्वयं सहार्थे । नमस्-नतौ । हिरुक् वर्जने । धिक्-निन्दाभत्र्सनयोः । अम्-शैध्न्ये, अल्पे च । आम्-अङ्गीकारे । प्रताम् — ग्लानौ । प्रशाम्-समानार्थे । प्रतान् — विस्तारे । अत्र ‘प्रतान्’ इति नान्तस्य पुनः पाठसामर्थ्यात् । प्रताम्, प्रशाम् इति पूर्वयोः ‘मो नो धातोः’ इति नत्वं न । प्रशान् इति नान्तपाठस्तु असाम्प्रदायिकः । ‘कृन्मेजन्तः’ इति सूत्रभाष्यस्वरसोऽप्येवभिति शब्देन्दुशेखरे स्थितम् । मा, माङ् — एतो निषेधे । आकृतिगणोऽयमिति । ततश्च अन्येऽप्येवंजातीयकाः स्वरादिगणे ज्ञेयाः । तथाहि — कामम्-स्वाच्छन्द्ये । प्रकामम्-अतिशये । भूयस् — पुनरर्थे । साम्प्रतम् — न्याय्ये । परम्-किन्त्वर्थे । साक्षात्-प्रत्यक्षे । साचि-तिर्यगर्थे । सत्यम् — अर्धाङ्गीकारे । मङ्क्षु, आशु — इदं द्वयं शैघ्र्ये । संवत्-वर्षे । अवश्यम् — निश्चये । सपदि — शैघ्र्ये । बलवत् — अतिशये । प्रादुस् आविस् — इदं द्वयं प्रकाशे । अनिशम्, नित्यम्, सदा, अजरुआम्, सन्ततम् — एतत्पञ्चकं सातत्ये । उषा — रात्रौ । रोदसी द्यावापृथिव्यर्थे । ओम् — अङ्गीकारे ब्राह्म्णि च । अत्र अश्च उश्च म् चेति समाहारद्वन्द्वे, ओम्शब्दो ब्राहृविष्णुशिवात्मकब्राहृवाची । ‘अवतेष्टिलोपश्च’ इत्युणादिव्युत्पन्नस्तु ब्राहृण्यङ्गीकारे चेति विवेकः ।अवतेष्टिलोपश्चे॑त्यस्यायमर्थः, — अवधातोर्मन्स्यात्प्रत्ययस्य टिलोपश्चेति । अव्म् इति स्थितेज्वरत्वरे॑ति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घः,सार्वधातुके॑ति तस्य गुणः, ओमिति रूपम् । उभयोरपि स्वरादित्वम् । न चौणादिकस्य ‘कृन्मेजन्तः’ इत्येव सिद्धमिति वाच्यम्, उणादौ हिच्विकव्यय॑मिति पठते । च्व्यन्तानां नेतर॑दिति । ततश्च ओमित्यस्य औणादिकस्याऽप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः — पृथिव्याम् । भुवर् — अन्तरिक्षे । झटिति, द्राक्, तरसा-त्रयमिदं शैघ्र्य#ए । सुष्ठु — प्रशंसायाम् । दुष्ठु — निकृष्टे । सु-पूजायाम् । आः — आश्चर्ये । कु — कुत्सिते, ईषदर्थे च । अञ्जसा — तत्त्वे शीघ्रार्थे च । मिथुं-द्वावित्यर्थे । अस्तम् — विनाशे । स्थाने-युक्तार्थे । ताजक् — शैघ्र्ये । चिराय चिररात्राय, चिरस्य, चिरम्, चिरेण, चिरात् — इति षट्कं चिकार्थकम् । वरम् — ईषदुत्कर्षे । आनुषके-आनुपूर्व्ये । अनुषक् — अनुमाने । अमेनः-शीघ्रसाम्प्रतिकयोः । सुदि — शुक्लपक्षे । वदि-कृष्णपक्षे इत्यादि । इति स्वरादयः । अथ चादीनाह — च वा इत्यादिना । च — समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा — विकल्पादिषु ।वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये ।॑ ह — प्रसिद्धौ । अह — अद्भुते, खेदे च । एव — अवधारणे, अनवकॢप्तौ च । एवम्-उक्तपरामर्शे । नूनम् — निश्चये, तर्के च । शआत् — पौनःपुन्ये, नित्ये, सहार्थे च । युगपत् — एककाले । भूयस्-पुनरर्थे, आधिक्ये च । कूपत्-प्रश्ने, प्रशंसायां च । कुवित् — भूर्यर्थे, प्राशंसायां च । नेत् — शङ्कायां, प्रतिषेधविचारसमुच्चयेषु च । चेत् — यद्यर्थे । चण् अयं चेदर्थे णित्, समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित् — इष्टप्रश्ने । यत्र-अनवकॢप्त्यवमर्षगर्हाश्चर्य#एयु ।नावकल्पयामि, न मर्षये, गर्हे, आश्चर्यं वा यत्र भवान्वृषलं याजयेत् । नग-प्रत्यारम्भे । हन्त — हर्षे, विषादे, अनुकम्पायां, वाक्यारम्भे च । माकिः माकिम्, नकिः,-इदं त्रयं वर्जने । माङ्नञौ-स्वरादिषूक्तौ । अन्यतरत्र पाठ इति युक्तम्, उभयत्र पाठस्तु ब्यर्थ एव । नच निपातस्वरार्थ इह पाठ इति वाच्यं, ‘फिषोऽन्त उदात्तः’ इत्येव तत्सिद्धेः । नच सत्त्ववचनत्वेऽप्यव्ययत्वार्थं स्वरादिपाठ इति वाच्यं, तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्तेः । तस्माच्चादिष्वेव माङ्नञौ पाठआवित्याहुः । यावत् तावत्-इदं द्वयं साकल्यावधिमानावधारणेषु । त्वै — विशेषवितर्कयोः । द्वै-वितर्के । न्वै इति पाठान्तरम् । रै — दाने, अनादरे च । श्रौषट्, वौषट्, स्वाहा — इदं त्रयं देवहविर्दाने । स्वधा — पितृदाने । श्रौषडादीनामनेकाचां त्रयाणाअं स्वरभेदार्थ उभयत्र पाठः । तुम्-तुङ्कारे । तथाहि — निदर्शने । खलु — निषेधवाक्यालंकारनिश्चयेषु । किल — इवार्थे, वार्तायाम्, अलीके च । अथ — अयं मङ्गलानन्तरारम्भश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थंकत्वेऽप्यव्ययत्वम् । तथाच श्रीहर्षः — ॒ यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् इति । ‘अथ स्नपयाम्बभूव’ इत्यस्य मङ्गस्नानं कारयामासेत्यर्थः । निपातश्चाऽथशब्दः भृदङ्गादिध्वानवत् मङ्गवम् । सुष्ठु । स्वरभेदार्थः पुनः पाठः । स्म — अतीते, पादपूरणे च । आदह — उपक्रमहिंसाकुत्सनेषु । उपसर्गविभक्ति । चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः, विभक्त्यन्तप्रतिरूपकाः, अच्प्रतिरूपकाश्च चादिगणे पाठआ इत्यर्थः । तत्रोपसर्गप्रतिरूपकमुदाहरतिअवदत्तमिति । अत्र अवेत्युपसर्गप्रतिरूपकं, न तूपसर्गः । ततस्च ‘अच उपसर्गातः’ इति तो न भवति । तादेशे तुअवत्त॑मिति स्यात् । अहंयुरिति ।अह॑मिति सुबन्तप्रतिरूपकहङ्कारे ।अहंशुभमोर्यु॑सिति मत्वार्थीयो युस् । अत्र अहमिति न अस्मच्छब्दस्य प्रथमैकवचनम्, तथा सतिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य मदादेशे मद्युरित्यापत्तेः । अस्तिक्षीरेति । अस्ति क्षीरं यस्या इति बहुव्रीहिः । अत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं, नतु तिङन्तम् । तथा सति बहुव्रीह्रनुपपत्तेः । ‘अनेकमन्यपदार्थे’ इति बहुव्रीहिविधौ सुबित्यनुवृत्तेः । एवं च बहुव्रीहिविधौअस्तिक्षीरेत्युपसंख्यान॑मिति वार्तिकं न कर्तव्यमिति ‘अनेकमन्यपदार्थे’ इत#इ सूत्रे भाष्ये स्पष्टम् ।स्वरप्रतिरूपकानुदाहरति — अ इत्यादिना । अ — सम्बोधने । आ — वाक्यस्मरणयोः । इ — सम्बोधनजुगुप्साविस्मयेषु । इ उ ऊ ए ऐ ओ औ इतचि सप्तकं सम्बोधने । पशु — सम्यगर्थे । शुकम् — शेघ्र्ये । यथाकथाच सङ्घातोऽयमनादरे । पाट् प्याट् अङ्ग है हे भो अये एते सप्त सम्बोधने । द्य हिंसाप्रातिलोम्यपादपूरणेषु विषुनानार्थे । एकपदे-अकस्मादिदित्यर्थे । युत्-कुत्सायाम् । आतः-इतोऽर्थे । चादिरप्याकृतिगण इति । यत् तत् द्वयंहेतौ । आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे ष । सुकमतिशये । अनु वितर्के । शम्बत्(ट) अन्तःकरणे, आभिमुख्ये च । व पादपूरणे इवार्थे च । चटु चाटु द्वयं प्रियवाक्ये । हुम् भत्र्सने । इव सादृश्ये । अद्यत्वे-इदानीमित्यर्थे इत्यादि । अत्र स्वरादिचाद्योराकृतिगणत्वेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तु उभयत्र बोध्याः । इति चादयः ।
Tattvabodhini¶
विभाषोपपदेन प्रतीयमाने - विभाषोपपदेन । उपपदेन फलस्य कर्तृगामित्वे द्योतिते तङोऽप्राप्तवप्राप्तविभाषेयम् । कर्तृगामिनि क्रियाफले नित्ये प्राप्ते प्राप्तविभाषेत्यन्ये । स्वं यज्ञमिति । स्वमित्युपलक्षणम् ।स्वार्थं यज्ञं यजति । आत्मार्थं यज्ञं यजती॑ त्याद्यपि बोध्यम् । इति तत्त्वबोधिन्यामात्मनेपदप्रक्रिया ।
Padamanjari¶
अप्राप्तविभाषेयमित्याह-तदुपपदेनेति। अत्र च’स्वरितञितः’ इत्यारभ्य पञ्च सूत्राण्यनुवर्तन्ते। समीपे श्रूयमाणमिति। न तु पारिभाषिकम्;असंभवात् । एवं पञ्चसूत्र्यामुदाहार्यमिति। न केवलमुदाहृतयोर्द्धयोः; अपि तु पञ्चस्वपि सूत्रेष्वित्यर्थः। स्वं यत्नं कारयते कारयति वा। स्वं व्रीहिं संयच्छते संयच्छतीति वा। स्वं गां जानीते जानीते वा॥
Nyaas¶
तत्र स्वरितञितः (1.3.72) इत्यादीनि पञ्च सूत्राण्यनुवर्तन्ते। कत्र्रभिप्राये क्रियाफले द्योग्ये इति। केन द्योत्ये? प्रकृतत्वादात्मनेपदेनेति विज्ञेयम्। तदुपपदेन द्योतिते न प्राप्नोति इति। उक्तार्थानामप्रयोगात्। एतेनाप्राप्तविभाषेयमिति दर्शयति। ननु चस्वं यज्ञं यजते इत्यत्र स्वशब्दस्योपपदत्वान्नोपपद्यते? यतः तत्रोपपदं सप्तमीस्थम् (3.1.92) इति द्वितीयधात्वधिकारे यत् सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवति, न च स्वशब्द एवंविध इत्याह - समीपे श्रूयमाणम् इत्यादि। एतेनोपोच्चारितं पदमुपपदमित्यन्वर्थस्योपपदस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। एतच्च पारिभाषिकस्यासम्भवाल्लभ्यते। स्वं यज्ञम् इत्यादिना पञ्चसूत्र्यां यदाद्यं सूत्रं तत्रोदाहरति। स्वं पुत्रम् इत्यादिना यद्द्वितीयं तत्र। एवं पञ्चसूत्र्यामुदाहरार्यम् इति। अन्यत्रापीति सेषः। पञ्चसूत्र्यन्तर्गते सूत्रे यदुदाहृतं ततोऽन्यत्राप्युदाहार्यमित्यर्थः। स्वं कटं कारयते, कारयति वा। स्वं व्रीहिं संयचछते, संयच्छति वा। स्वं भारमुद्यच्छते, उद्यच्छति वा। स्वं वस्त्रमायच्छते, आयच्छति वा। स्वं गां जानीते, जानाति वेति। एतानि णिचश्च (1.3.74) इत्यादिषु सूत्रेषु यथायोगमुदाहरणानि॥
Prakriyasarvasvam¶
उपपदगम्ये तु कर्त्रर्थत्वे ‘स्वरितञित-’ इत्याद्युक्तस्तङ् वा स्यात् । स्वार्थं पचति, पचते वा । स्वार्थं करोति कुरुते वा इत्यादि ।
Sutra Prayogas¶
वहमानाभिर् (भट्टिकाव्यम्): विभाषोपपदेन प्रतीयमाने इति विभाषा आत्मनेपदम्।