13053: उदश्चरः सकर्मकात्¶
Padacheda: उदः | S | 5 | 1 |
चरः | S | 5 | 1 |
सकर्मकात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb चर् ‘to walk’ preceded by उत् , when used intransitively, the आत्मनेपद is used.
Vasu English Translation¶
After the verb चर् ‘to walk’ preceded by उत् , when used intransitively, the आत्मनेपद is used. As गेहमुच्चरते ‘he strays away from home;’ गुरुवचनमुच्चरते ‘he transgresses the commands of his preceptor.’
Why do we say “when used in the transitive”? Observe बाष्पमुच्चरति ‘the vapour is rising.’ Here it is parasmaipadi.
Kashika¶
शेषात् कर्तरि परस्मैपदे प्राप्ते, उत्पूर्वाच् चरतेः सकर्मकक्रियावचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छतीत्यर्थः। सकर्मकादिति किम्? बाष्पमुच्चरति॥
Siddhanta Kaumudi¶
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥
Laghu Siddhanta Kaumudi¶
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥
Balamanorama¶
उदश्चरः सकर्मकात् - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः ।
Padamanjari¶
उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥
Nyaas¶
गेहेमुच्वरते इति। चरिर्गत्यर्थः। गुरुवचनमुच्चरते इति। अत्रोत्क्रमणात्मिकायां गतौ वर्तमानश्चरतिर्गुरुवचनेन कर्मणा सकर्मकः। बाष्पमुच्चरति इति। उपरिष्टाद्गच्छतीत्यर्थः। नात्र किञ्चित्कर्म विवक्षितमित्यकर्मकत्वम्।
Prakriyasarvasvam¶
‘द्यामुच्चरन्ते रुचः ।’ उत्क्रम्य यान्तीत्यर्थः । अकर्मकात्तु उच्चरति धूमः ।
Sudha¶
उदश्चरः सकर्मकात् । उत्पूर्वाच्चरधातोः सकर्मकादात्मनेपदमित्यर्थः । धर्ममुच्चरते । उत्पूर्वकात् चर् धातोर्लट: स्थाने **उदश्चरः सकर्मकात्**(1.3.53) इति आत्मनेपदे टेरेत्वे च तत्सिद्धिः ।
Sutra Prayogas¶
उदचरन्त (भट्टिकाव्यम्): उदश्चरः सकर्मकात् इति तङ्।