13054: समस्तृतीयायुक्तात्

Padacheda: समः | S | 5 | 1 |

तृतीयायुक्तात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb चर् ‘to walk’ preceded by सम् , and when connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद is used.

Vasu English Translation

After the verb चर् ‘to walk’ preceded by सम् , and when connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद is used. As अश्वेन संचरते ‘he rides on the horse-back.’

The rule does not apply when it is not in composition with a word in the instrumental case. As उभौ लोकौ संचरति इमं चामुं च देवल ! O Devala! thou wanderest through both regions, this and that.’ Here though the sense of the Instrumental case is implied, yet as it is not expressly stated, we use the parasmaipada terminations.

Bhashya

समस्तृतीयायुक्तात् तृतीयायुक्तादिति किमर्थम्? उभौ लोकौ संचरसीमं चामुं च देवल। तृतीयायुक्तादित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि तृतीयया योग इति। एवं तर्हि तृतीयायुक्तादित्युच्यते। सर्वत्र च तृतीयया योगः। तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो यत्र तृतीया योग इति। क्व च साधीयः? यत्र तृतीया श्रूयते ॥ 54 ॥

Kashika

संपूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति। तृतीयेति तृतीया विभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन संचरते। तृतीयायुक्तादिति किम्? उभौ लोकौ संचरसि इमं चामुं च देवल। यद्यप्यत्र तदर्थयोगः संभवति, तृतीया तु न श्रूयत इति प्रत्युदाहरणं भवति॥

Siddhanta Kaumudi

रथेन संचरते ॥

Laghu Siddhanta Kaumudi

रथेन सञ्चरते॥

Balamanorama

समस्तृतीयायुक्तात् - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते ।

Padamanjari

विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम् - विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥

Nyaas

यद्यत्र तृतीयेति गृह्रते, तदेहापि स्यात् - उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह - तृतीया इति। ` तृतीयाविभक्तिर्गृह्रते` इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह - तया इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। यत्रप्यत्र तदर्थेन योगः सम्भवति इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। तृतीय तु इत्यादि। तृतीयायपुक्तग्रहणं ह्रेवमर्थं क्रियते - श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात्? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्॥

Prakriyasarvasvam

सम्पूर्वात् तृतीयायुक्ताच्चरेस्तङ् । तार्क्ष्येण सञ्चरते । समो व्यवधानेऽपीति रामः । तार्क्ष्येण सम्प्रचरते । तृतीयाभावे तु न । भूमौ सञ्चरति ।

Sudha

समस्तृतीयेति । सकर्मकादिति निवृत्तम् । सम्पूर्वात् तृतीयान्तसममिव्याहृताच्चरधातोरात्मनेपदमित्यर्थः। रथेन सञ्चरते । अत्र सम्पूर्वकचरघातुर्वर्तते, रथेन इति तृतीयान्तेन च युक्तः, तस्माद् **समस्तृतीयायुक्तात्**(1.3.54) इत्यनेनात्मनेपदम् ।

Sutra Prayogas

  • संचरते (रघुवंशम्): समस्तृतीयायुक्तात् इति संपूर्वाञ्चरतेरात्मनेपदम्।

  • समचरन्ताऽन्ये (भट्टिकाव्यम्): समस्तृतीयायुक्तात् इति तङ्।