13052: समः प्रतिज्ञाने¶
Padacheda: समः | S | 5 | 1 |
प्रतिज्ञाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb गॄ ‘to swallow’, when preceded by सम् , the आत्मनेपद affix is used in the sense of ‘promising’.
Vasu English Translation¶
After the verb गॄ ‘to swallow’, when preceded by सम् , the आत्मनेपद affix is used in the sense of ‘promising’. As शनं संगिरते, ‘he promises to pay a hundred rupees.’ If it does not mean to promise or acknowledge, it takes parasmaipada terminations. As संगिरति ग्रासम्, ‘he swallows the mouthful.’
Kashika¶
ग्र इति वर्तते। संपूर्वाद् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानमभ्युपगमः। शतं संगिरते। नित्यं शब्दं संगिरते। प्रतिज्ञान इति किम्? संगिरति ग्रासम्॥
Siddhanta Kaumudi¶
शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥
Balamanorama¶
समः प्रतिज्ञाने - समः प्रतिज्ञाने । गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् - अभ्युपगमः । सङ्गिरति ग्रासमिति । भक्षयतीत्यर्थः ।
Padamanjari¶
प्रतिज्ञानमभ्युपगम इति । केचिदाहुः-‘परोपदेशनिरपेक्षमात्मनैव विप्रतिपन्नस्य पक्षघ्य परिग्रहोऽभ्युपगमः, परेण प्रार्थितस्यार्थस्य नियमवचनम् ठेतावद्दास्यामिऽ इति, ठस्मिन्काले दास्यामिऽ इत्येवंरूपः प्रतिश्रवः। परेण युक्त्या साधितस्यार्थस्य सम्मान्नम् - समीचीनमुक्तमत्र भवतेत्येवं रूपमङ्गीकरणमिति, प्रतिज्ञासामान्यावान्तरभेदा एते, न तु पर्यायाः’ इति। वृत्तिकारस्तु परस्परविषयोऽङ्गीकरणादिव्यहारदर्शनात् पर्यायत्वमेव मन्यते॥
Prakriyasarvasvam¶
शब्दं नित्यं संगिरन्ते ।
Sutra Prayogas¶
संगिरमाण (भट्टिकाव्यम्): समः प्रतिज्ञाने इति तङ् ।
संगिरन्ते (भट्टिकाव्यम्): समः प्रतिज्ञाने इति तङ्।