13053: उदश्चरः सकर्मकात् ======================== **Padacheda:** उदः | S | 5 | 1 | चरः | S | 5 | 1 | सकर्मकात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb चर् 'to walk' preceded by उत् , when used intransitively, the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb चर् 'to walk' preceded by उत् , when used intransitively, the आत्मनेपद is used. As गेहमुच्चरते 'he strays away from home;' गुरुवचनमुच्चरते 'he transgresses the commands of his preceptor.' Why do we say "when used in the transitive"? Observe बाष्पमुच्चरति 'the vapour is rising.' Here it is *parasmaipadi*. Kashika ------- शेषात् कर्तरि परस्मैपदे प्राप्ते, उत्पूर्वाच् चरतेः सकर्मकक्रियावचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छतीत्यर्थः। सकर्मकादिति किम्? बाष्पमुच्चरति॥ Siddhanta Kaumudi ----------------- धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥ Balamanorama ------------ **उदश्चरः सकर्मकात्** - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः । Padamanjari ----------- उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥ Nyaas ----- `गेहेमुच्वरते` इति। चरिर्गत्यर्थः। `गुरुवचनमुच्चरते` इति। अत्रोत्क्रमणात्मिकायां गतौ वर्तमानश्चरतिर्गुरुवचनेन कर्मणा सकर्मकः। `बाष्पमुच्चरति` इति। उपरिष्टाद्गच्छतीत्यर्थः। नात्र किञ्चित्कर्म विवक्षितमित्यकर्मकत्वम्। Prakriyasarvasvam ----------------- 'द्यामुच्चरन्ते रुचः ।' उत्क्रम्य यान्तीत्यर्थः । अकर्मकात्तु उच्चरति धूमः । Sudha ----- उदश्चरः सकर्मकात् । उत्पूर्वाच्चरधातोः सकर्मकादात्मनेपदमित्यर्थः । धर्ममुच्चरते । उत्पूर्वकात् चर् धातोर्लट: स्थाने **उदश्चरः सकर्मकात्**(1.3.53) इति आत्मनेपदे टेरेत्वे च तत्सिद्धिः । Sutra Prayogas -------------- * **उदचरन्त** (भट्टिकाव्यम्): `उदश्चरः सकर्मकात्` इति तङ्।