13039: उपपराभ्याम्

Padacheda: उप-पराभ्याम् | S | 5 | 2 |

Sutrartha

उपसर्गपूर्वकात् ‘क्रम्’ धातोः - (1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु एव आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Sutrartha (English)

When the verb ‘क्रम्’ comes with an उपसर्ग, it gets the प्रत्ययाः of आत्मनेपद only in the meaning of - (1) वृत्तिः , To progress without getting stuck , (2) सर्गः, enthusiasm, (3) तायनः, expansion, elaboration.

Vasu English Summary

After the verb क्रम् , preceded by उप and पर , when used in the senses of ‘continuity’, ‘energy’ and ‘development’, the आत्मनेपद is used.

Vasu English Translation

After the verb क्रम् , preceded by उप and पर , when used in the senses of ‘continuity’, ‘energy’ and ‘development’, the आत्मनेपद is used. The words vritti &c., of the last sutra are understood here also. Why has this been made a separate sutra and not included in the last? The reason is to make a restrictive rule in the cases of upasargas; that is to say, only in the cases of the upasargas upa and para, there is atmanepada affix; but not so when any other upasarga precedes the verb kram, though the sense may be of continuity &c. Thus उपक्रमते ‘he commences to advance,’ पराक्रमते ‘he marches to attack.’

Why do we say after the upasargasupa and para’? Because, after any other preposition the affix will be of the parasmaipada; as संक्रामति ‘he makes progress.’ If the sense is not that of “continuity” &c., parasmaipada will be employed, as उपक्रामति, पराक्रामति.

Kashika

वृत्तिसर्गतायनेष्विति वर्तते। उपपरापूर्वात् क्रमतेर्वृत्त्यादिष्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हीदमुच्यते ? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, नान्यपूर्वादिति। उपक्रमते। पराक्रमते। उपपराभ्यामिति किम्? संक्रामति वृत्त्यादिष्वित्येव — उपक्रामति। पराक्रामति॥

Siddhanta Kaumudi

वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥

Balamanorama

उपपराभ्याम् - राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । ‘विप्रश्न’ इत्येतद्व्याचष्टे — विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्ग इति । गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । ‘राध संसिद्धौ ‘ईक्ष दर्शने॑ । इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, ‘यस्य विप्रश्न’ इति लिङ्गात् । तदाह — शुभाशुभं पर्योलोचयतीत्यर्थ इति । अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथाराधोऽकर्मकादि॑ति नियमाच्छ्यन्न स्यात् । एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः । कृष्णस्य संप्रदानत्वं । षष्ठपवादः ।

Padamanjari

उपपराभ्यामिति माणवकः कुतुपमिति। उपसर्गनियमः किमर्थ इत्यर्थः। संक्रामतीति।’क्रमः परस्मैपदेषु’ इति दीर्घः॥

Nyaas

संक्रमति इति। क्रमः परस्मैपदेषु (7.3.76) इति दीर्घः।बाल-मनोरमाउपपराभ्याम् 535, 1.3.39 उपपराभ्याम्। वृत्तिसर्गतायनेषु क्रमः इत्यनुवर्तते। तेनैव सिद्धे नियमार्थमिदं। तदाह - आभ्यामेव क्रमेरिति। आत्मनेपद`मिति शेषः। बाल-मनोरमाआङ उद्गमने 536, 1.3.39 आङ उद्गमने। आङः परस्मादुद्गमनवृत्तेः क्रम आत्मनेपदमित्य्रथः। आक्रमते सूर्य इति। आङ्पूर्वः क्रमिरुद्गमनार्थकः। तदाह - उदयते इत्यर्थ इति। उपसर्गवशादिति भावः। बाल-मनोरमाराधीक्ष्योर्यस्य विप्रश्नः 569, 1.3.39 राधीक्ष्योः। यदीय इति। यद्विषयक इत्यर्थः। `विप्रश्न इत्येतद्व्याचष्टे - विविधः प्रश्न इति। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति। गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः। राध संसिद्धौ ` `ईक्ष दर्शने। इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, यस्य विप्रश्न इति लिङ्गात्। तदाह - शुभाशुभं पर्योलोचयतीत्यर्थ इति। अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा `राधोऽकर्मकादि`ति नियमाच्छ्यन्न स्यात्। एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः। कृष्णस्य संप्रदानत्वं। षष्ठपवादः।

Prakriyasarvasvam

वृत्त्यादिष्वाभ्यामेव क्रमेस्तङ् नान्योपसर्गात् । उपक्रमते पराक्रमते । त्रिष्वर्थेषु योज्यम् ।

Sutra Prayogas

  • पराक्रमन्ते (किरातार्जुनीयम्): उपपराभ्याम् इति वृत्तावात्मनेपदम्।

  • पराक्रंस्त (भट्टिकाव्यम्): उप-पराभ्याम् इत्यनेन सर्गे तङ्।

  • उपाक्रंस्यचेतितः (भट्टिकाव्यम्): उपपराभ्याम् इति वृत्त्यादिषु सर्ग उत्साहे क्रमेस्तङ् भवति।