13040: आङ उद्गमने

Padacheda: आङः | S | 5 | 1 |

उद्गमने | S | 7 | 1 |

Sutrartha

‘आङ्’ उपसर्गात् ‘क्रम्’ धातोः ‘उद्गमनम्’ अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Sutrartha (English)

When the उपसर्ग ‘आङ्’ is attached to the verb ‘क्रम्’, it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is ‘to rise, to travel upwards’.

Vasu English Summary

After the verb क्रम् , preceded by an अङ् , the आत्मनेपद is used,when in the sense of ‘the rising of a luminary’.

Vasu English Translation

After the verb क्रम् , preceded by an अङ् , the आत्मनेपद is used,when in the sense of ‘the rising of a luminary’. As आक्रमते सूर्यः ‘the sun rises.’ आक्रमते चन्द्रमाः ‘the moon rises,’ आक्रमन्त ज्योतींषि ‘the stars rise.’

Vart:- This ascending must refer to heavenly bodies. Therefore in, आक्रामति धूमोहर्म्यतलात्, ‘the smoke rises from the surface of the terrace,’ the verb क्रम is parasmaipadi. Why do we say in the sense of “to ascend”? Witness आक्रमति माणवकः कुतपम् ‘the boy assails the ox.’

Bhashya

आङ् उद्गमने ज्योतिषामुद्गमने ॥ 1 ॥ ज्योतिरूद्गमने इति वक्तव्यम्। इह मा भूत् - आक्रामति धूमो र्हम्यतलादिति ॥ 40 ॥

Kashika

आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमत आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गमन इति किम्? आक्रामति माणवकः कुतपम्॥ ज्योतिरुद्गमन इति वक्तव्यम्॥ इह मा भूत् — आक्रामति धूमो हर्म्यतलात्॥

Siddhanta Kaumudi

आक्रमते सूर्यः । उदयत इत्यर्थः ।<!ज्योतिरुद्गमन इति वाच्यम् !> (वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥

Padamanjari

आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः,’कुत्वा डुपच्’ । कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु’नभः समाक्रामति चन्द्रमाः क्रमात्’ इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥

Nyaas

आक्रामति माणवकः कुतपम् इति।अवष्टभ्नातीत्यर्थः। ज्योतिरुद्गमन इति वक्तव्यम् इति। ज्योतिषां ग्रहनक्षत्रादीनामुद्गमन एवात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - अनुपसर्गाद्वा (1.3.43) इत्यतो वाग्रहणमनुवर्तते सिंहावलोकितन्यायेन, सा च व्यवस्थितविभाषा; तेन ज्योतिरुद्गमन् एव भविष्यति, नान्यत्रेति। यदि तर्हि वा ग्रहणमनुवर्तते, उभयोरपि योगयोरनुवर्तेत? मण्डूकप्लुतिन्यायेन नानुवर्तिष्यत इत्यदोषः।

Prakriyasarvasvam

<!ज्योतिरुद्गमन इति वाच्यम्!> (वा०) । आक्रमतेऽर्कः । अन्यत्र आक्रामति शत्रुम् । अज्योतिषि आक्रामति धूमो हर्म्यम् । उद्गमनेऽकर्मकत्वाद्, आक्रामति धूमो हर्म्यादिति केचित् । तस्मान्निर्गच्छतीत्यर्थः ।

Vartika

ज्योतिरूद्गमन इति वक्तव्यम् ।

Sutra Prayogas

  • आक्रममाणेव (भट्टिकाव्यम्): आङ उद्गमने इति तङ्।

  • केतु-तारा (भट्टिकाव्यम्): आङ उद्गमने इति तत्र हि ज्योतिरुद्गमनमित्युक्तम्।