13039: उपपराभ्याम् ================== **Padacheda:** उप-पराभ्याम् | S | 5 | 2 | Sutrartha --------- **उपसर्गपूर्वकात् 'क्रम्' धातोः - (1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु एव आत्मनेपदस्य प्रत्ययाः भवन्ति ।** Sutrartha (English) ------------------- When the verb 'क्रम्' comes with an उपसर्ग, it gets the प्रत्ययाः of आत्मनेपद only in the meaning of - (1) वृत्तिः , To progress without getting stuck , (2) सर्गः, enthusiasm, (3) तायनः, expansion, elaboration. Vasu English Summary -------------------- After the verb क्रम् , preceded by उप and पर , when used in the senses of 'continuity', 'energy' and 'development', the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb क्रम् , preceded by उप and पर , when used in the senses of 'continuity', 'energy' and 'development', the आत्मनेपद is used. The words *vritti* &c., of the last *sutra* are understood here also. Why has this been made a separate *sutra* and not included in the last? The reason is to make a restrictive rule in the cases of *upasargas*; that is to say, only in the cases of the *upasargas* *upa* and *para*, there is *atmanepada* affix; but not so when any other *upasarga* precedes the verb *kram*, though the sense may be of continuity &c. Thus उपक्रमते 'he commences to advance,' पराक्रमते 'he marches to attack.' Why do we say after the *upasargas* '*upa* and *para*'? Because, after any other preposition the affix will be of the *parasmaipada*; as संक्रामति 'he makes progress.' If the sense is not that of "continuity" &c., *parasmaipada* will be employed, as उपक्रामति, पराक्रामति. Kashika ------- वृत्तिसर्गतायनेष्विति वर्तते। उपपरापूर्वात् क्रमतेर्वृत्त्यादिष्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हीदमुच्यते ? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, नान्यपूर्वादिति। उपक्रमते। पराक्रमते। उपपराभ्यामिति किम्? संक्रामति वृत्त्यादिष्वित्येव — उपक्रामति। पराक्रामति॥ Siddhanta Kaumudi ----------------- वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥ Balamanorama ------------ **उपपराभ्याम्** - राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । 'विप्रश्न' इत्येतद्व्याचष्टे — विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्ग इति । गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ 'ईक्ष दर्शने॑ । इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, 'यस्य विप्रश्न' इति लिङ्गात् । तदाह — शुभाशुभं पर्योलोचयतीत्यर्थ इति । अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथाराधोऽकर्मकादि॑ति नियमाच्छ्यन्न स्यात् । एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः । कृष्णस्य संप्रदानत्वं । षष्ठपवादः । Padamanjari ----------- उपपराभ्यामिति माणवकः कुतुपमिति। उपसर्गनियमः किमर्थ इत्यर्थः। संक्रामतीति।'क्रमः परस्मैपदेषु' इति दीर्घः॥ Nyaas ----- `संक्रमति` इति। **क्रमः परस्मैपदेषु** (7.3.76) इति दीर्घः।बाल-मनोरमाउपपराभ्याम् 535, 1.3.39 उपपराभ्याम्। `वृत्तिसर्गतायनेषु क्रमः` इत्यनुवर्तते। तेनैव सिद्धे नियमार्थमिदं। तदाह - आभ्यामेव क्रमेरिति। `आत्मनेपद`मिति शेषः। बाल-मनोरमाआङ उद्गमने 536, 1.3.39 आङ उद्गमने। आङः परस्मादुद्गमनवृत्तेः क्रम आत्मनेपदमित्य्रथः। आक्रमते सूर्य इति। आङ्पूर्वः क्रमिरुद्गमनार्थकः। तदाह - उदयते इत्यर्थ इति। उपसर्गवशादिति भावः। बाल-मनोरमाराधीक्ष्योर्यस्य विप्रश्नः 569, 1.3.39 राधीक्ष्योः। यदीय इति। यद्विषयक इत्यर्थः। `विप्रश्न` इत्येतद्व्याचष्टे - विविधः प्रश्न इति। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति। गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः। `राध संसिद्धौ ` `ईक्ष दर्शने`। इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, `यस्य विप्रश्न` इति लिङ्गात्। तदाह - शुभाशुभं पर्योलोचयतीत्यर्थ इति। अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा `राधोऽकर्मकादि`ति नियमाच्छ्यन्न स्यात्। एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः। कृष्णस्य संप्रदानत्वं। षष्ठपवादः। Prakriyasarvasvam ----------------- वृत्त्यादिष्वाभ्यामेव क्रमेस्तङ् नान्योपसर्गात् । उपक्रमते पराक्रमते । त्रिष्वर्थेषु योज्यम् । Sutra Prayogas -------------- * **पराक्रमन्ते** (किरातार्जुनीयम्): `उपपराभ्याम्` इति वृत्तावात्मनेपदम्। * **पराक्रंस्त** (भट्टिकाव्यम्): `उप-पराभ्याम्` इत्यनेन सर्गे तङ्। * **उपाक्रंस्यचेतितः** (भट्टिकाव्यम्): `उपपराभ्याम्` इति वृत्त्यादिषु सर्ग उत्साहे क्रमेस्तङ् भवति।