13038: वृत्तिसर्गतायनेषु क्रमः¶
Padacheda: वृत्ति-सर्ग-तायनेषु | S | 7 | 3 |
क्रमः | S | 5 | 1 |
Sutrartha¶
(1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु ‘क्रम्’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
Sutrartha (English)¶
The verb ‘क्रम्’ gets the प्रत्ययाः of आत्मनेपद, when it is used in the meaning of - (1) वृत्तिः , To progress without getting stuck , (2) सर्गः, enthusiasm, (3) तायनः, expansion, elaboration.
Vasu English Summary¶
After the verb क्रम् ‘to move’, when used in the senses of ‘continuity’, ‘energy’ and ‘development’, the आत्मनेपद is used.
Vasu English Translation¶
After the verb क्रम् ‘to move’, when used in the senses of ‘continuity’, ‘energy’ and ‘development’, the आत्मनेपद is used. The word ‘kram’ governs the succeeding sutras up to (1.3.43) and is understood in them all.
The verb kram by sutra (1.3.78) (after the rest, let the parasmaipada affixes be employed in marking the agent), would have taken the affixes of the parasmaipada; the present aphorism enjoins Atmanepada affixes in certain cases when the verb means to have a taste for &c.
Vritti ‘continuity’ means unobstructed, or want of interruption (i. e., a taste for, or facility in, anything), sarga ‘energy’ means application, resolution and determination. Tayana ‘development’ means increase and growth.
As (1) ऋक्ष्वस्य क्रमते बुद्धिः - ‘his reason proceeds unobstructed through the Rig. scriptures i. e., he can easily comprehend the Rig.’ (2). व्याकरणाध्ययनाय क्रमते ‘the pupil shows energy or exerts to study the grammar.’ (3). अस्मिनशास्त्राणि क्रमन्ते ‘the shastras are developed in him.’
Why in these senses only? Witness अपक्रामति ‘he runs away.’
Kashika¶
शेषात् कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिष्वर्थेषु क्रमेर्धातोरात्मनेपदं भवति। वृत्तिरप्रतिबन्धः। सर्ग उत्साहः। तायनं स्फीतता। वृत्तौ तावत् — ऋक्ष्वस्य क्रमते बुद्धिः। न प्रतिहन्यत इत्यर्थः। यजुःष्वस्य क्रमते बुद्धिः। सर्गे — व्याकरणाध्ययनाय क्रमते। उत्सहत इत्यर्थः। तायने — अस्मिन् शास्त्राणि क्रमन्ते। स्फीतीभवन्तीत्यर्थः॥
Siddhanta Kaumudi¶
वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥
Balamanorama¶
वृत्तिसर्गतायनेषु क्रमः - वृत्तिसर्ग ।आत्मनेपद॑मिति शेषः । तायने उदाहरति — क्रमन्तेऽस्मिन्निति । तायनं = वृद्धिः । तदाह — स्फीतानीति ।
Tattvabodhini¶
वृत्तिसर्गतायनेषु क्रमः - वृत्तिसर्ग । तायृ सन्तानपालनयोः । तायनं स्फीतता.तदाह — स्फीतानीति । प्रवृद्धानीत्यर्थः ।
Padamanjari¶
सर्ग उत्साह इति ।’सृष्टश्चेद्ब्राह्मणवधे’ ,’येनेन्द्रलोकापजयाय सृष्टः’ इत्यादौ दर्शनात्सृजिरुत्सहार्थः। वृत्यादिष्विति किम्? अपक्रामति॥
Nyaas¶
शेषलक्षणेन क्रमेः परस्मेपदे प्राप्त आत्मेपदं विधीयते। वृत्त्यादयोऽर्था अप्रतिबन्धोत्साहस्फीततासु प्रसिद्धाः॥
Prakriyasarvasvam¶
अप्रतिबन्धोत्साहस्फीतत्वेषु क्रमेस्तङानाः स्युः । <karika>कृष्णे क्रमतां बुद्धिस्तदर्चने कर्म तत्सुतौ कुतुकम् ॥ ६४९ ॥</karika>
Sutra Prayogas¶
क्रममाणो (भट्टिकाव्यम्): वृत्ति- सर्ग इत्यादिना वृत्तौ तङ्।
क्रंस्था (भट्टिकाव्यम्): वृत्तिसर्गतायनेषु क्रमः इत्यादिना क्रमेः सर्गे उत्साहे तङ् ।