13031: स्पर्द्धायामाङः

Padacheda: स्पर्द्धायाम् | S | 7 | 1 |

आङः | S | 5 | 1 |

Sutrartha

‘स्पर्धा / सङ्घर्षः / पराभवस्य इच्छा’ अस्मिन् अर्थे ‘आङ्’ उपसर्गात् ‘ह्वे’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु ‘स्पर्धां करोति / सङ्घर्षं करोति ‘ अस्मिन् अर्थे ‘आ + ह्वे’ अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - कृष्णः चाणूरमाह्वयते (‘युद्धस्य आवाहनं करोति’ इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव - माता पुत्रमाह्वयति आह्वयते वा ।

Sutrartha (English)

When the उपसर्ग ‘आङ्’ is attached to the verb ‘ह्वे’, it gets the प्रत्ययाः of ‘आत्मनेपद’, provided the meaning is ‘to complete / to wish to defeat’.

Vasu English Summary

After the verbs ह्वे ‘to call’, when meaning ‘to challenge’ and preceded by अङ् , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent.

Vasu English Translation

After the verbs ह्वे ‘to call’, when meaning ‘to challenge’ and preceded by अङ् , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent. As मल्लो मल्लामाह्वयते ‘an athlete challenges another athlete (in order to conquer him)’; छात्रश्छात्रमाह्वयते ‘one student emulates with another student.’

This sutra is also for the purpose of showing that the root hve takes the Atmanepada terminations even when the direct fruit of the action does not accrue to the agent.

The word spardha means to emulate, to vie, to desire, to conquer another. When the verb hve has not the above signification, it takes the terminations of the parasmaipada. As गामाह्वयति गोपालः ‘the cowherd calls the cows.’

Kashika

अकर्त्रभिप्रायार्थोऽयमारम्भः। स्पर्धायां विषय आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा संघर्षः, पराभिभवेच्छा, स विषयो धात्वर्थस्य। धातुस्तु शब्दक्रिय एव। मल्लो मल्लमाह्वयते। छात्रश्छात्रमाह्वयते। स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः। स्पर्धायामिति किम् ? गामाह्वयति गोपालः।

Siddhanta Kaumudi

कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥

Balamanorama

स्पर्धायामाङः - अथ स्वारितसंज्ञामाह-समाहारः स्वरितः । पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य । अतो नैवमर्थः । किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः ।

Padamanjari

सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥

Nyaas

स्पद्र्धायां विषये इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह - स्पर्धा सङ्घर्षः। `पराभिभवेच्छा इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- स विषयो धात्वर्थस्य इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः? इत्याह - धातुस्तु शब्दक्रियः इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पद्र्धायामपि पठते, तथाप्याङपूर्वस्तत्र न वर्तते, यथा - तिष्ठतिर्गतिनिवृत्तौ पठते, अथ च प्रपूर्वो गतावेव वर्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पद्र्धायां वृत्त्यभावात् स्पद्र्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्॥बाल-मनोरमास्पर्धायामाङः 527, 1.3.31 स्पर्दायामाङः। आङ्पूर्वकात् स्पर्धाविषयकात् ह्वेञ आत्मनेपदमित्यर्थः। कृष्णश्चाणूरमाह्वयते इति। स्पर्धार्थमाकारयतीत्यर्थः। बाल-मनोरमासमाहारः स्वरितः 9, 1.3.31 अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः।

Prakriyasarvasvam

स्पर्धयाह्वानेऽर्थे आह्वेञस्तङ् । चाणूरः कृष्णमाह्वयते, अन्यत्र गामाह्वयति ।

Sutra Prayogas

  • समाजुहूषमाणः (किरातार्जुनीयम्): स्पर्धायामाङ् इति आत्मनेपदम्।

  • आह्वास्त (भट्टिकाव्यम्): स्पर्धायामाङः इत्यात्मनेपदम्।

  • आजुहुवे (भट्टिकाव्यम्): स्पर्धायामाङः इति आत्मनेपदम्।

  • आह्वास्यते (भट्टिकाव्यम्): स्पर्धायामाङः इत्यात्मनेपदम्।