13031: स्पर्द्धायामाङः ====================== **Padacheda:** स्पर्द्धायाम् | S | 7 | 1 | आङः | S | 5 | 1 | Sutrartha --------- **'स्पर्धा / सङ्घर्षः / पराभवस्य इच्छा' अस्मिन् अर्थे 'आङ्' उपसर्गात् 'ह्वे' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु 'स्पर्धां करोति / सङ्घर्षं करोति ' अस्मिन् अर्थे 'आ + ह्वे' अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - कृष्णः चाणूरमाह्वयते ('युद्धस्य आवाहनं करोति' इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव - माता पुत्रमाह्वयति आह्वयते वा । Sutrartha (English) ------------------- When the उपसर्ग 'आङ्' is attached to the verb 'ह्वे', it gets the प्रत्ययाः of 'आत्मनेपद', provided the meaning is 'to complete / to wish to defeat'. Vasu English Summary -------------------- After the verbs ह्वे 'to call', when meaning 'to challenge' and preceded by अङ् , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent. Vasu English Translation ------------------------ After the verbs ह्वे 'to call', when meaning 'to challenge' and preceded by अङ् , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent. As मल्लो मल्लामाह्वयते 'an athlete challenges another athlete (in order to conquer him)'; छात्रश्छात्रमाह्वयते 'one student emulates with another student.' This *sutra* is also for the purpose of showing that the root *hve* takes the *Atmanepada* terminations even when the direct fruit of the action does not accrue to the agent. The word *spardha* means to emulate, to vie, to desire, to conquer another. When the verb *hve* has not the above signification, it takes the terminations of the *parasmaipada*. As गामाह्वयति गोपालः 'the cowherd calls the cows.' Kashika ------- अकर्त्रभिप्रायार्थोऽयमारम्भः। स्पर्धायां विषय आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा संघर्षः, पराभिभवेच्छा, स विषयो धात्वर्थस्य। धातुस्तु शब्दक्रिय एव। मल्लो मल्लमाह्वयते। छात्रश्छात्रमाह्वयते। स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः। स्पर्धायामिति किम् ? गामाह्वयति गोपालः। Siddhanta Kaumudi ----------------- कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥ Balamanorama ------------ **स्पर्धायामाङः** - अथ स्वारितसंज्ञामाह-समाहारः स्वरितः । पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य । अतो नैवमर्थः । किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः । Padamanjari ----------- सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥ Nyaas ----- `स्पद्र्धायां विषये` इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह - `स्पर्धा सङ्घर्षः। `पराभिभवेच्छा` इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- `स विषयो धात्वर्थस्य` इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः? इत्याह - `धातुस्तु शब्दक्रियः` इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पद्र्धायामपि पठते, तथाप्याङपूर्वस्तत्र न वर्तते, यथा - तिष्ठतिर्गतिनिवृत्तौ पठते, अथ च प्रपूर्वो गतावेव वर्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पद्र्धायां वृत्त्यभावात् स्पद्र्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्॥बाल-मनोरमास्पर्धायामाङः 527, 1.3.31 स्पर्दायामाङः। आङ्पूर्वकात् स्पर्धाविषयकात् ह्वेञ आत्मनेपदमित्यर्थः। कृष्णश्चाणूरमाह्वयते इति। स्पर्धार्थमाकारयतीत्यर्थः। बाल-मनोरमासमाहारः स्वरितः 9, 1.3.31 अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः। Prakriyasarvasvam ----------------- स्पर्धयाह्वानेऽर्थे आह्वेञस्तङ् । चाणूरः कृष्णमाह्वयते, अन्यत्र गामाह्वयति । Sutra Prayogas -------------- * **समाजुहूषमाणः** (किरातार्जुनीयम्): `स्पर्धायामाङ्` इति आत्मनेपदम्। * **आह्वास्त** (भट्टिकाव्यम्): `स्पर्धायामाङः` इत्यात्मनेपदम्। * **आजुहुवे** (भट्टिकाव्यम्): `स्पर्धायामाङः` इति आत्मनेपदम्। * **आह्वास्यते** (भट्टिकाव्यम्): `स्पर्धायामाङः` इत्यात्मनेपदम्।