13030: निसमुपविभ्यो ह्वः

Padacheda: नि-सम्-उप-विभ्यः | S | 5 | 3 |

ह्वः | S | 5 | 1 |

Sutrartha

‘नि’ , ‘सम्’, ‘वि’ उपसर्गेभ्यः ‘ह्वे’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु निस् / नित्/ सम् / उप / वि - एतेभ्यः अस्य आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - निह्वयते, संह्वयते, उपह्वयते, विह्वयते (सर्वेषामर्थः - ‘आवाहनं करोति’ इति) ।

Sutrartha (English)

When any of the उपसर्गs - नि, सम्, वि - is attached to the verb ‘ह्वे’, it gets the प्रत्ययाः of आत्मनेपद.

Vasu English Summary

After the verbs ह्वे ‘to call’, preceded by नि , सम् , उप and वि , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent.

Vasu English Translation

After the verbs ह्वे ‘to call’, preceded by नि , सम् , उप and वि , the आत्मनेपद is used, even, when the fruit of the action does not accrue to the agent. The verb ह्वेः ‘to call’ whether transitive or intransitive is Atmanepadi after the above prepositions. The condition of being Intransitive does not apply to this sutra, and from this sutra forward general rules of Atmanepada are treated of. As निह्वयते, संह्वयते, उपह्वयते ॥

The verb ह्वे is marked in the Dhatupatha with a ञ् and therefore, by sutra 72 of this Chapter, it will take the terminations of the Atmanepada when the direct fruit of the action accrues to the agent. But even when the direct fruit of the action does not accrue to the agent, the verb hve takes the terminations of the Atmanepada when preceded by the above prefixes.

Vart:- The verbs अस् ‘to throw’ and ऊह ‘to note’ take optionally Atmanepada affixes when compounded with upasargas. As निरस्यति—०ते ‘he casts out,’ समूहति—०ते ‘he collects.’

Kashika

अकर्मकादिति निवृत्तम्। अतः परं सामान्येनात्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवंपूर्वाद् ह्वयतेर्धातोरात्मनेपदं भवति। निह्वयते। संह्वयते। उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थोऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धमेवात्मनेपदम्॥ उपसर्गादस्यत्यूह्योर्वा वचनम्॥ निरस्यति, निरस्यते। समूहति, समूहते॥

Siddhanta Kaumudi

निह्वयते ॥

Balamanorama

निसमुपविभ्यो ह्वः - निसमुपवि । ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते । उपह्वयते । विह्वयते । अकत्र्रभिप्रायार्थमिदम् ।

Padamanjari

निह्वयते इति। कथं पुनरत्रात्मनेपदम्, यावता’ह्वा’ इत्याकारान्तादियं पञ्चमि, एकारान्तश्चायम्, न च विकृतिः प्रकृतिं संगृह्णाति? सत्यम्; आकारान्तात्पञ्चमी, न त्विदं प्रयोगस्थस्याकारान्तस्यानुकरणम्, किं तर्हि? धातुपाठेऽवस्थितैकारान्तस्य तस्यैव लक्षणवशादात्वम्। न चातुक्रियमाणरूपविनाशप्रसङ्गः; शास्त्रवासनया तस्यैव प्रतीतेः, यथा -‘यस्येति च’ इतीकाराकारयोः॥

Prakriyasarvasvam

अकर्मकादिति निवृत्तम् । निह्नयते गामित्यादि । ‘उपसर्गादस्यत्यूह्योर्वा- वचनम्’ (वा०) । निरस्यते, निरस्यति । समूहते, समूहति ।

Vartika

उपसर्गादस्यत्यूह्योर्वा वचनम् ।

Sutra Prayogas

  • उपाह्वये (भट्टिकाव्यम्): नि-समुपविभ्यो ह्वः इत्यकर्त्रभिप्राये लट्लोटोरात्मनेपदम्।