13032: गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः

Padacheda: गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु | S | 7 | 3 |

कृञः | S | 5 | 1 |

Sutrartha

गन्धनम् (अनुपस्थितौ अपशब्दप्रयोगः), अवक्षेपणम् (निन्दा), सेवनम् (सेवा), साहसिक्यम् (बलात्कारः), प्रतियत्नम् (गुणपरिवर्तनम्), प्रकथनम् (कथनम्), उपयोग (प्रयोगः) - एतेषु अर्थेषु कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

डुकृञ् (करणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु तस्मात् केवलमात्मनेपदस्य प्रत्ययाः एव भवन्ति - 1) गन्धनम् (कस्यचन अनुपस्थितौ तस्य विषये निन्दापूर्वकम् भाषणम्) - सः तानसेनमुत्कुरुते (‘तानसेनस्य अनुपस्थितौ तस्य विषये निन्दापूर्वकं भाषते’ इत्यर्थः) । 2) अवक्षेपणम् (निन्दा) - राजा शत्रुमुदाकुरुते (‘निर्भत्सयति’ इत्यर्थः) । 3) साहसिक्यम् (बलात्कारः) - सः परदारान् प्रकुरुते (‘सहसा बलात्कारं करोति’ इत्यर्थः ) । 4) प्रतियत्नम् (अन्यपदार्थस्य गुणग्रहणम्) - इन्धनमुदकस्य उपस्कुरुते (‘जले नूतनान् गुणान् निर्माति’ इत्यर्थः । कृञः प्रतियत्ने (2.3.53) इति षष्ठीविभक्तिः ।] 5) प्रकथनम् (कथनम्) - गुरुः वेदम् प्रकुरुते (‘कथयति’ इत्यर्थः) । 6) उपयोग (उपयोजनम् ) - धनिकः शतं धर्मार्थं उपकुरुते (‘धर्मकार्यार्थम् प्रयुङ्क्ते’ इत्यर्थः) । अन्येषु अर्थेषु उभयपदमेव भवति । यथा - कटं करोति कुुरुते वा ।

Sutrartha (English)

The verb कृ gets the प्रत्ययाः of आत्मनेपद, when used in the meanings of - (1) गन्धनम् - To backbite, (2) अवक्षेपणम् - To defame, (3) सेवन् - To serve or help out (4) साहसिक्यम् - To force someone to do something against their wish, To rape (5) प्रतियत्न -To make someone change their character, (6) प्रकथनम् - To narrate, and (7) उपयोग - To bring in practice, to use.

Vasu English Summary

After the verb कृ when meaning ‘to divulge’, ‘to revile’, ‘to serve’, ‘to use violence’, ‘to cause change’, ‘to recite’ and ‘to do an act tending to effect a desired purpose’, the आत्मनेपद is used, even when the fruit of the action does not accrue to the agent.

Vasu English Translation

After the verb कृ when meaning ‘to divulge’, ‘to revile’, ‘to serve’, ‘to use violence’, ‘to cause change’, ‘to recite’ and ‘to do an act tending to effect a desired purpose’, the आत्मनेपद is used, even when the fruit of the action does not accrue to the agent. The verb कृञ् by sutra 72 would take the affixes of the Atmanepada when the direct fruit of the action accrues to the agent. This sutra has been begun to show that this verb takes the Atmanepada terminations under certain circumstances even when the direct fruit of the action does not accrue to the agent.

The word gandhana comes from the root gandh ‘to injure,’ of churadi class and means to inform against another maliciously with the object of injuring such person. Avakshepana means ‘to revile’, ‘to over-come,’ sevana means ‘to obey and serve,’ sahasikya means ‘an act of violence,’ pratiyatna means, ‘imparting a new quality or virtue,’ prakathana means ‘to narrate fully,’ upayoga means ‘the disposal of a thing for the object of attaining &c.’

Thus उत्कुरुते, उदाकुरुते a means he informs against; (2) श्येनो वर्तिकामुदाकुरुते ‘the hawk overcomes or reviles a snail,’ (3) गणिकानुपकुरुते ‘he serves the prostitutes,’ महामात्राननुकुरुते ‘he serves the mahamatra,’ (4) परदारान् प्रकुरुते ‘he outrages another’s wife,’ (5) एधोदकस्योपस्कुरुते ‘the fuel gives a new quality (boils) to the water (or he prepares the wood and water for a sacrifice).’ The object of the verb kri takes the affix of the sixth case i. e. genitive, only when the verb means pratiyatna, see Sutra (2.3.53) (कृञः प्रतियत्ने) । Therefore udakasya, though an object, has genitive form. The verb takes the augment सुट् only when it is preceded by upa and signifies pratiyatna, see (6.1.139). (उपात् प्रतियत्न वैकृत वाक्याध्याहारेषु) ॥ Therefore, there is the insertion of sibilant in upaskurute. (5) गाथाः प्रकुरुते ‘he recites stories,’ जनापवादान् प्रकुरुते ‘he recites slander,’ (6) शतं प्रकुरुते ‘he devotes a hundred pieces of money, for the sake of merit.’ सहस्रं प्रकुरुते ‘he devotes a thousand.’

Why do we say in these senses? Witness कटं करोति ‘he makes a mat.’ In this case the atmanepada affix is not employed.

The verb kri is understood in the three succeeding sutras.

Kashika

कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। गन्धनादिष्वर्थेषु वर्तमानात् करोतेरात्मनेपदं भवति। गन्धनमपकारप्रयुक्तं हिंसात्मकं सूचनम्। तथाहि — बस्त गन्ध अर्दने, अर्द हिंसायाम् इति चुरादौ पठ्यते। अवक्षेपणं भर्त्सनम्। सेवनमनुवृत्तिः। साहसिक्यं साहसं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो र्धादिप्रयोजनो विनियोगः। गन्धने तावत् — उत्कुरुते। उदाकुरुते। सूचयतीत्यर्थः। अवक्षेपणे — श्येनो वर्तिकामुदाकुरुते। भर्त्सयतीत्यर्थः। सेवने — गणकानुपकुरुते। महामात्रानुपकुरुते। सेवत इत्यर्थः। साहसिक्येपरदारान् प्रकुरुते। तेषु सहसा प्रवर्तत इत्यर्थः। प्रतियत्ने — एधोदकस्योपस्कुरुते। काण्डं गुडस्योपस्कुरुते। तस्य सतो गुणान्तराधानं करोतीत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने — गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयतीत्यर्थः। उपयोगे — शतं प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम् ? कटं करोति॥

Siddhanta Kaumudi

गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥

Laghu Siddhanta Kaumudi

गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम्? कटं करोति॥ भुजोऽनवने (LSK671) - ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ इत्यात्मनेपदप्रक्रिया ॥

Balamanorama

गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः - गन्धनावक्षेपण ।आत्मनेपदमकत्र्रभिप्रायेऽपी॑ति शेषः । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचयतीति । परदोषमाविषकरोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः , हिंसाया असत्त्वादित्यत आह — सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका - शकुनिविशेषः । साहसिक्ये उदाहरति — परदारान् प्रकुरुते इति । साहसप्रवृत्तिविषयीकरोतीत्यर्थः । सहसा वर्तते साहसिकः ।ओजस्सहोऽम्भसा वर्तते॑ इति ठक् । तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम् । तदाह — तेषु सहसा प्रवर्तते इति । फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति । एधशब्दोऽदन्तःअवोदैधौद्मप्रश्रथहिमश्रथाः॑ इति सूत्रे निपातितः । एधश्च उदकं चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः । एधश्च दकं चेति विग्रहः । दकशब्द उदकवाची ।प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च॑ इति हलायुधः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि॑त्यमरः । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह — गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम् ।

Tattvabodhini

गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः - गन्धनं हिंसेति । गन्ध अर्दने, अर्द हिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः ।ओजः सहोम्भसे॑ति ठक् तस्य कर्म साहसिक्यम् । ब्राआहृणादित्वत्ष्यञ् । परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्वर्थः, तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह - तेषु सहसेति । एधो दकस्येति । एधशब्दोऽकारान्तः — अवोदैधौद्मे॑ति निपातितः । एधाश्च उदकं च एषां समाहारः । यद्वा एधः शब्दः सकारान्तः । तथा च एधांसि च दकं चेति विग्रहः । दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हलायुदे — प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं चे॑ति ।

Padamanjari

अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा - कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह - तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः।’कृञः प्रतियत्ने’ इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥

Nyaas

अपकारप्रयुक्तम् इति। तृतीयासमासोऽयम्। अपकारमुद्दिश्य यत्प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम्। हिंसात्मकम् इति। हिनस्तीति हिंसः, पचाद्यच्, हिंस आत्मा यस्य तत् तथोक्तम्। पीडाकरणमित्यर्थः। सूचनम् इति दोषाविष्करणम्। कथमेतद्विज्ञायत एंविधं सूचनं गन्धनमित्याह - तथा ह इत्यादि। वस्त इत्यादिनना गन्धयतिधातुरर्दयतेरर्थे वर्तते इति दर्शयति। अर्द हिंसायाम् इत्यादिना अर्दयतेर्हिसात्मकत्वम्। एवञ्च हिंसार्थेनार्दयतिना गन्धयतेः समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितं भवति। भत्र्सनं तिरस्करणम्। अनुवृत्तिः परचितावधारणम्। साहसिक्यं साहसं कर्म इति। ओजः सहोऽम्भसा वर्तते (4.4.27) इति ठक्, साहसिकः। तस्य कर्मेति तस्माद्गुणवचनब्राआहृणादित्वात् (5.1.123) ष्यञ्, साहसिक्यम्। उपयोगो धर्मादिप्रयोजनो विनियोगः इति। धर्मादिषु प्रयोजनं यस्य स तथोक्तः। आदिशब्दः कामापरिग्रहाय। एधो दकस्योपस्कुरुते इति। उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु (6.1.139) इति सुट्। कृञः प्रतियत्ने (2.3.53) इति षष्ठी॥

Prakriyasarvasvam

एषु कृञस्तङ्गेव । हिंसार्थं दोषसूचनं गन्धनम् । तमुत्कुरुते पिशुनः । अवक्षेपणमभिभवः । नृपो रिपूनुत्कुरुते¹, अवकुरुते । सेवनादौ हरिं प्रकुरुते । परदारान् प्रकुरुते अविचार्याभिगच्छतीत्यर्थः । कुसुमैः केशस्योपस्कुरुते । शास्त्रं प्रकुरुते । उपयोगो व्ययः । शतं पणान् प्रकुरुते ।

Sudha

गन्धनावक्षेपण । आत्मनेपदम्, अकर्त्रभिप्रायेऽपीति शेषः । सूचयतीति । परदोषमाविष्करोतीत्यर्थः । श्येनो वर्तिकामुत्कुरुते इति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः**(1.3.32) इत्यनेन श्येनो वर्तिकामुत्कुरुते इत्यतः प्रारभ्य शतं प्रकुरुते इत्यन्तः प्रयोगा आत्मनेपदिनो भवन्ति । कटं करोति । अत्र गन्धनादिभिन्नत्वात् नात्मनेपदमिति भावः । **भुजोऽनवने ((LSK671)) । अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ओदनं भुङ्क्ते । भुज् धातोर्लटः स्थाने **भुजोऽनवने**(1.3.66) इति आत्मनेपदत्वात् ते, सार्वधातुकसंज्ञायां **रुधादिभ्यः श्नम्**(3.1.78) इति श्नमि, अनुबन्धलोपे, मित्वादन्त्यादचः परे **श्नसोरल्लोपः**(6.4.111) इति श्नमोऽकारस्य लोपे, जस्य कुत्वेन गत्वे गस्य चर्त्वेन कत्वे, अनुस्वारे, परसवर्णे टेरेवे च तत्सिद्धिः। मही मुनक्तीति । रक्षतात्यर्थः । इत्यात्मनेपदप्रक्रिया ॥

Sutra Prayogas

  • प्रकुर्वाणो (भट्टिकाव्यम्): गन्धन इत्यादिना सेवने तङ्।