13024: उदोऽनूर्ध्वकर्मणि¶
Padacheda: उदः | S | 5 | 1 |
अनूर्ध्वकर्मणि | S | 7 | 1 |
Sutrartha¶
उत्थानक्रियां वर्जयित्वा अन्यत्र ‘उत्’ उपसर्गात् ‘स्था’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
स्था (गतिनिवृत्तयोः) अयं धातुः वस्तुतः परस्मैपदी । परन्तु उद्-उपसर्गात् परः स्था धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - शिष्यः मुक्तौ उत्तिष्ठते (‘मुक्तिं प्राप्तुं प्रयतते’ इत्यर्थः) । परन्तु यदि ‘ऊर्ध्वदेशसंयोगानुकूलक्रिया’ अस्ति, (इत्युक्ते, यदि क्रियया ऊर्ध्वदिशि स्थितस्य स्थलस्य अधिकं सामीप्यं जायते), तर्हि उद् + स्था इत्यस्य परस्मैपदमेव भवति । यथा - शिष्यः आसनाद् उत्तिष्ठति । अत्र आसनविलगक्रियया आसनात् ऊर्ध्वदिशि यत् क्षेत्रम्, तस्य सामीप्यं जायते, अतः अत्र ऊर्ध्वदेशसंयोगानुकूलक्रिया अस्ति । वार्तिकम् - <!ईहायामेव !> । ‘उद् + स्था’ इत्यनेन निर्दिष्टा क्रिया यदि कर्त्रा ‘ईहया’ क्रियते (इत्युक्ते, ‘सक्रियरूपेण क्रियते / श्रमेण स्वेच्छया वा क्रियते’), तर्हि एव आत्मनेपदम् भवति, नो चेत् परस्मैपदमेव भवति । यथा - ग्रामात् शतमुत्तिष्ठति । (‘ग्रामात् शतं (व्रीहिः) जायते’ इत्यर्थः । यद्यप्यत्र ऊर्ध्वदेशसंयोगानूकुलक्रिया नास्ति, तथाप्यत्र आत्मनेपदस्य प्रयोगः न क्रियते, यतः अत्र व्रीहिनिर्माणकार्यम् व्रीहेः इच्छया श्रमेण वा न भवति । (वाक्येऽस्मिन् ‘शतम्’ इति कर्ता अस्तीति स्मर्तव्यम्)) । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः ‘कर्म’शब्दः कारकं न दर्शयति, अपितु क्रियां दर्शयति ।
Sutrartha (English)¶
When the उपसर्ग ‘उत्’ is attached to the verb ‘स्था’, it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is not ‘moving upwards / standing up’.
Vasu English Summary¶
After the verb स्था ‘to stand’, preceded by उत् , when not meaning ‘to get up or rise’, as from a seat; the आत्मनेपद affix is used.
Vasu English Translation¶
After the verb स्था ‘to stand’, preceded by उत् , when not meaning ‘to get up or rise’, as from a seat; the आत्मनेपद affix is used. The word ‘karma’ in this aphorism means ‘action,’ and does not mean the grammatical karma or ‘object.’
As गेहे उत्तिष्ठते ‘he strives for the house’ so also कुटुम्बे उत्तिष्ठते ॥ But आसनादुत्तिष्ठति ‘he rises up from the seat.’
Vart:- The force of the preposition ut must be to express ईहा, ‘effort, exertion, wish or desire, to surprise or excell.’ If this be not the force of ut, the terminations are those of the Parasmaipada. As अस्माद् ग्रामात् शतमुत्तिष्ठति ‘a hundred is yielded by this village.’ The word ईहा qualifies the word ‘anurdhakarmani,’ and does not debar the latter.
Bhashya¶
उदोनूर्ध्वकर्मणि उद ईहायाम् ॥ उद इर्हायामिति वक्तव्यम्। इह मा भूत् - उत्तिष्ठति सेनेति।
Kashika¶
उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वकर्मविशिष्टात् क्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेह उत्तिष्ठते। कुटुम्ब उत्तिष्ठते। तदर्थं यतत इत्यर्थः॥ उद ईहायामिति वक्तव्यम्॥ इह मा भूत् — अस्माद् ग्रामात् शतमुत्तिष्ठति। शतमुत्पद्यत इत्यर्थः। ईहाग्रहणमनूर्ध्वकर्मण एव विशेषणम्, नापवादः। अनूर्ध्वकर्मणीति किम्? आसनादुत्तिष्ठति॥
Siddhanta Kaumudi¶
मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ।<!ईहायामेव !> (वार्तिकम्) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥
Balamanorama¶
उदोऽनूर्द्ध्वकर्मणि - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः ।
Tattvabodhini¶
उदोऽनूर्द्ध्वकर्मणि - उदोऽनुर्द्ध्वकर्मणि ।स्थ॑ इत्यनुवर्तते । ऊर्द्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्द्ध्वकर्म ।उदोऽनूर्ध्वे॑ इत्युक्तेऽप्यनूध्र्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव, तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह — ईहायामेवेति । इच्छापूर्विका चेष्टा — ईहा । सा चग्रामाच्छत॑मित्यत्र नास्ति ।
Padamanjari¶
कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥
Nyaas¶
अनुध्र्वकर्मणि वर्तमानादित्युक्ते, यश्चोदयति - ननु च तिष्ठतेरकर्मकक्रियावचनत्वान्न कर्मणि वृत्तिरुपपद्यते। तत्किमुच्यते - `अनूध्र्वकर्मणि वर्तमानात् इति, तं प्रत्याह - क्रियावाची इति। यदुक्तम् - अनूध्र्वकर्मणि वर्तमानादिति, तस्यार्थं विस्पष्टीकर्त्तुमाह - अनूध्र्वकर्मविशिष्टात् क्रियावचनात् इति। उद ईहायामिति वक्तव्यम्िति। उत्पूर्वात् तिष्ठतेरीहायां परिस्पन्दनेवर्तमानादात्मेपदं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - अन्तरेणापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतेः सिद्धे यत् कर्मग्रहणं तल्लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतिपत्तयर्थं कृतम्, सा तु परिस्पन्दनात्मकैव परिस्पन्दनात्मिकैव घटनभ्रमणादिका, तथा हि - तां कुर्वाणः `सक्रियः इत्युच्यते। स्थानासनादिकां त्वपरिसम्पन्दनात्मिकां कुर्वाणोऽपि निष्क्रियः इति। तस्मादात्मनेपदमिदं कर्मग्रहणादीहायामेव वर्तमानाद्भविष्यति। उद ईहायामित्युक्ते, ईहाग्रहणमनूध्र्वकर्मणोऽपवाद इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - ईहाग्रहणम् इत्यादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम्। एतदुक्तं भवति - यदिदमुक्तम् उद ईहायामिति वक्तव्यम् इति, तत्र यदीहाग्रहणं तदनूध्र्वकर्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम्। ईहात्मकमिहानूध्र्वकर्म विवक्षितमिति प्रतिपादनार्थमित्यर्थः॥
Prakriyasarvasvam¶
<!ईहायामिति वाच्यम्!> (वा०) उदस्तिष्ठतेरनूर्ध्वकर्मणीहायामर्थे तङ् । मुक्तावुत्तिष्ठते । व्याप्रियत इत्यर्थः । ऊर्ध्वकर्मणि तु आसनादुत्तिष्ठति । अनीहायामपि अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः ।
Vartika¶
ईहायामिति वक्तव्यम् ।
Sutra Prayogas¶
पीठादुतिष्ठदच्युतः (शिशुपालवधम्): उदोऽनूर्ध्वकर्मणि इति नियमादिहोर्ध्वकर्मणि नात्मनेपदम्।
उत्तिष्ठमानस्तु (शिशुपालवधम्): उदोऽनूर्ध्वकर्मणि इत्यात्मनेपदम् ।
उत्तिष्ठमानं (भट्टिकाव्यम्): उदो ऽनूर्ध्वकर्मणि इत्यात्मनेपदम्।
उत्तिष्ठस्व (भट्टिकाव्यम्): उदोऽनूर्ध्वकर्मणि इति तङ्।