13024: उदोऽनूर्ध्वकर्मणि ======================== **Padacheda:** उदः | S | 5 | 1 | अनूर्ध्वकर्मणि | S | 7 | 1 | Sutrartha --------- **उत्थानक्रियां वर्जयित्वा अन्यत्र 'उत्' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** स्था (गतिनिवृत्तयोः) अयं धातुः वस्तुतः परस्मैपदी । परन्तु उद्-उपसर्गात् परः स्था धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - शिष्यः मुक्तौ उत्तिष्ठते ('मुक्तिं प्राप्तुं प्रयतते' इत्यर्थः) । परन्तु यदि 'ऊर्ध्वदेशसंयोगानुकूलक्रिया' अस्ति, (इत्युक्ते, यदि क्रियया ऊर्ध्वदिशि स्थितस्य स्थलस्य अधिकं सामीप्यं जायते), तर्हि उद् + स्था इत्यस्य परस्मैपदमेव भवति । यथा - शिष्यः आसनाद् उत्तिष्ठति । अत्र आसनविलगक्रियया आसनात् ऊर्ध्वदिशि यत् क्षेत्रम्, तस्य सामीप्यं जायते, अतः अत्र ऊर्ध्वदेशसंयोगानुकूलक्रिया अस्ति । वार्तिकम् - । 'उद् + स्था' इत्यनेन निर्दिष्टा क्रिया यदि कर्त्रा 'ईहया' क्रियते (इत्युक्ते, 'सक्रियरूपेण क्रियते / श्रमेण स्वेच्छया वा क्रियते'), तर्हि एव आत्मनेपदम् भवति, नो चेत् परस्मैपदमेव भवति । यथा - ग्रामात् शतमुत्तिष्ठति । ('ग्रामात् शतं (व्रीहिः) जायते' इत्यर्थः । यद्यप्यत्र ऊर्ध्वदेशसंयोगानूकुलक्रिया नास्ति, तथाप्यत्र आत्मनेपदस्य प्रयोगः न क्रियते, यतः अत्र व्रीहिनिर्माणकार्यम् व्रीहेः इच्छया श्रमेण वा न भवति । (वाक्येऽस्मिन् 'शतम्' इति कर्ता अस्तीति स्मर्तव्यम्)) । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'कर्म'शब्दः कारकं न दर्शयति, अपितु क्रियां दर्शयति । Sutrartha (English) ------------------- When the उपसर्ग 'उत्' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is not 'moving upwards / standing up'. Vasu English Summary -------------------- After the verb स्था 'to stand', preceded by उत् , when not meaning 'to get up or rise', as from a seat; the आत्मनेपद affix is used. Vasu English Translation ------------------------ After the verb स्था 'to stand', preceded by उत् , when not meaning 'to get up or rise', as from a seat; the आत्मनेपद affix is used. The word '*karma*' in this aphorism means 'action,' and does not mean the grammatical *karma* or 'object.' As गेहे उत्तिष्ठते 'he strives for the house' so also कुटुम्बे उत्तिष्ठते ॥ But आसनादुत्तिष्ठति 'he rises up from the seat.' Vart:- The force of the preposition *ut* must be to express ईहा, 'effort, exertion, wish or desire, to surprise or excell.' If this be not the force of *ut*, the terminations are those of the *Parasmaipada*. As अस्माद् ग्रामात् शतमुत्तिष्ठति 'a hundred is yielded by this village.' The word ईहा qualifies the word '*anurdhakarmani*,' and does not debar the latter. Bhashya ------- उदोनूर्ध्वकर्मणि उद ईहायाम् ॥ उद इर्हायामिति वक्तव्यम्। इह मा भूत् - उत्तिष्ठति सेनेति। Kashika ------- उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वकर्मविशिष्टात् क्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेह उत्तिष्ठते। कुटुम्ब उत्तिष्ठते। तदर्थं यतत इत्यर्थः॥ उद ईहायामिति वक्तव्यम्॥ इह मा भूत् — अस्माद् ग्रामात् शतमुत्तिष्ठति। शतमुत्पद्यत इत्यर्थः। ईहाग्रहणमनूर्ध्वकर्मण एव विशेषणम्, नापवादः। अनूर्ध्वकर्मणीति किम्? आसनादुत्तिष्ठति॥ Siddhanta Kaumudi ----------------- मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति । (वार्तिकम्) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥ Balamanorama ------------ **उदोऽनूर्द्ध्वकर्मणि** - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः । Tattvabodhini ------------- **उदोऽनूर्द्ध्वकर्मणि** - उदोऽनुर्द्ध्वकर्मणि ।स्थ॑ इत्यनुवर्तते । ऊर्द्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्द्ध्वकर्म ।उदोऽनूर्ध्वे॑ इत्युक्तेऽप्यनूध्र्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव, तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह — ईहायामेवेति । इच्छापूर्विका चेष्टा — ईहा । सा चग्रामाच्छत॑मित्यत्र नास्ति । Padamanjari ----------- कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥ Nyaas ----- अनुध्र्वकर्मणि वर्तमानादित्युक्ते, यश्चोदयति - `ननु च तिष्ठतेरकर्मकक्रियावचनत्वान्न कर्मणि वृत्तिरुपपद्यते। तत्किमुच्यते - `अनूध्र्वकर्मणि वर्तमानात्` इति, तं प्रत्याह - `क्रियावाची` इति। यदुक्तम् - अनूध्र्वकर्मणि वर्तमानादिति, तस्यार्थं विस्पष्टीकर्त्तुमाह - `अनूध्र्वकर्मविशिष्टात् क्रियावचनात्` इति। `उद ईहायामिति वक्तव्यम्िति। उत्पूर्वात् तिष्ठतेरीहायां परिस्पन्दनेवर्तमानादात्मेपदं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - अन्तरेणापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतेः सिद्धे यत् कर्मग्रहणं तल्लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतिपत्तयर्थं कृतम्, सा तु परिस्पन्दनात्मकैव परिस्पन्दनात्मिकैव घटनभ्रमणादिका, तथा हि - तां कुर्वाणः `सक्रियः` इत्युच्यते। स्थानासनादिकां त्वपरिसम्पन्दनात्मिकां कुर्वाणोऽपि `निष्क्रियः` इति। तस्मादात्मनेपदमिदं कर्मग्रहणादीहायामेव वर्तमानाद्भविष्यति। उद ईहायामित्युक्ते, ईहाग्रहणमनूध्र्वकर्मणोऽपवाद इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `ईहाग्रहणम्` इत्यादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम्। एतदुक्तं भवति - यदिदमुक्तम् `उद ईहायामिति वक्तव्यम्` इति, तत्र यदीहाग्रहणं तदनूध्र्वकर्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम्। ईहात्मकमिहानूध्र्वकर्म विवक्षितमिति प्रतिपादनार्थमित्यर्थः॥ Prakriyasarvasvam ----------------- (वा०) उदस्तिष्ठतेरनूर्ध्वकर्मणीहायामर्थे तङ् । मुक्तावुत्तिष्ठते । व्याप्रियत इत्यर्थः । ऊर्ध्वकर्मणि तु आसनादुत्तिष्ठति । अनीहायामपि अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । Vartika ------- ईहायामिति वक्तव्यम् । Sutra Prayogas -------------- * **पीठादुतिष्ठदच्युतः** (शिशुपालवधम्): `उदोऽनूर्ध्वकर्मणि` इति नियमादिहोर्ध्वकर्मणि नात्मनेपदम्। * **उत्तिष्ठमानस्तु** (शिशुपालवधम्): `उदोऽनूर्ध्वकर्मणि` इत्यात्मनेपदम् । * **उत्तिष्ठमानं** (भट्टिकाव्यम्): `उदो ऽनूर्ध्वकर्मणि` इत्यात्मनेपदम्। * **उत्तिष्ठस्व** (भट्टिकाव्यम्): `उदोऽनूर्ध्वकर्मणि` इति तङ्।