13023: प्रकाशनस्थेयाख्ययोश्च

Padacheda: प्रकाशन-स्थेय-आख्ययोः | S | 7 | 2 |

च | S | 0 | 0 |

Sutrartha

प्रकाशनम् (स्पष्टरूपेण स्वमतप्रदर्शनम्) तथा स्थेयाख्या (विवादे निर्णयप्रदर्शनम्) - एतयोः अर्थयोः प्रयुक्तात् ‘स्था’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

‘प्रकाशनम्’ इत्युक्ते ‘स्वस्य हेतोः स्पष्टरूपेण कथनम्’ । ‘स्थेयाख्या’ इत्युक्ते ‘विवादे निर्णयदानम्’ । एतयोः अर्थयोः स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गोपी कृष्णाय तिष्ठते (‘गोपी स्वस्य मनसः हेतुः कृष्णस्य समीपे प्रकटीकरोति’ इत्यर्थः), कर्णार्जुनवादः द्रोणे तिष्ठते (‘कर्णार्जुनवादे द्रोणः निर्णयं करोति’ इत्यर्थः)

Sutrartha (English)

The verb स्था gets the प्रत्ययाः of आत्मनेपद when used in the meaning of - (a) Clearing explaining own opinion, and (b) Putting and end to a question / debate.

Vasu English Summary

After the verb स्था ‘when meaning to indicate one’s intentions to another’, or ‘to make an award as an arbitrator’, the आत्मनेपद affix is employed.

Vasu English Translation

After the verb स्था ‘when meaning to indicate one’s intentions to another’, or ‘to make an award as an arbitrator’, the आत्मनेपद affix is employed. The word prakasana means disclosing one’s intentions. The word stheyakhya is a compound of stheya ‘arbitrator; and akhya ‘name.’

As तिष्ठते जायापत्ये ‘the wife expresses her wish to the husband;’ त्वयितिष्ठते ‘he refers to thee for settlement;’ संशय्य कर्णादिषु तिष्ठते यः, ‘who, when he is in doubt, has recourse to Karna as his judge or umpire.’

Kashika

स्वाभिप्रायकथनं प्रकाशनम्। स्थेयस्याख्या स्थेयाख्या। तिष्ठन्त्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेय इति प्रसिद्धः, तस्य प्रतिपत्त्यर्थमाख्याग्रहणम्। प्रकाशने स्थेयाख्यायां च तिष्ठतेरात्मनेपदं भवति। प्रकाशने तावत् — तिष्ठते कन्या छात्रेभ्यः। तिष्ठते वृषली ग्रामपुत्रेभ्यः। प्रकाशयत्यात्मानमित्यर्थः। स्थेयाख्यायाम् — त्वयि तिष्ठते। मयि तिष्ठते। संशय्य कर्णादिषु तिष्ठते यः (कि० ३.१४)॥

Siddhanta Kaumudi

गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ॥

Balamanorama

प्रकाशनस्थेयाख्ययोश्च - प्रकाशन । प्रकाशनं — स्वाभिप्रायाविष्करणम् । स्थेयः — विवादपदनिर्णेता । तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे ‘अचो यत्’ इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः ।स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते॑ इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः । आख्या = अभिधानम् । प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः । प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति ।श्लाघह्नुङ्स्थाशपा॑मिति संप्रदानत्वाच्चतुर्थी । स्थेये उदाहरति- - संशय्येति । कर्णादिष्विति विषयसप्तमी । फलितमाह — कर्णादीनिति ।

Tattvabodhini

प्रकाशनस्थेयाख्ययोश्च - प्रकाशन । प्रकाशनं — ज्ञापनम् । स्थेयो — विवादपदनिर्णेता, तिष्ठन्तेऽस्मिन् विवादपदनिर्मयार्थमिति व्युत्पत्तेः । बाहुलकादधिकरणेअचो यत्स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते॑ इति मेदिनी । कर्णादिष्विति अधिकरणे सप्तमी । तेषां स्थेयत्वंतिष्ठते॑इत्यात्मनेपदेन द्योत्यते । तमेवाऽर्थमाह — कर्णादानिति । प्रकाशनेत्यादि । चैत्रे तिष्ठति ।

Padamanjari

स्वाभिप्रायकथनमिति। कथनमाविष्करणमात्रं न तु शब्देनैव, तेनाभाषमाणायामपि कन्यकायां भवति। तिष्ठत्यस्मिन्निति। प्रकरणादिनात्र विवादपदनिर्णेतुः प्रतीतिः, न तु शाब्दीति विग्रहवाक्ये आत्मनेपदं न कृतम्। संशय्य कर्णादिष्विति। संशयस्थानेषु कर्णादीन् निर्णेतृत्वेनाश्रयतीत्यर्थः॥

Nyaas

तिष्ठन्त्यस्मिन्नति स्थेयः इति। कृत्यल्युटो बहुलम् (3.3.113) इत्यधिकरणे अचो यत् (3.1.97) । ईद्यति (6.4.65) इतीत्त्वम्। गुणः। विवाद इति। सन्देहविषये। निर्णेता इति। निश्चेता, प्रमाणभूत इत्यर्थः। कथं पुनः स्थेयशब्दात् तस्य प्रतीतिर्भवति, यावता स्थेयशब्दो भावसाधनोप्यस्ति गतिनिवृत्तिवचन इत्याह - तस्य इत्यादि। यस्य स्थेय इत्याख्या, लोके तस्य प्रतीतिर्यथा स्यादित्येवमर्थमाख्याग्रहणम्। तेनाख्याग्रहणेन तस्य प्रतीतिर्भवतीति दर्शयितुमाख्याग्रहणं कृतम्। तिष्ठते कन्या छात्रेभ्यः इति। पूर्ववत् सम्प्रदानसंज्ञायां सत्यां छात्रेभ्य इति चतुर्थी। प्रकाशयत्यात्मानमित्यर्थः ` इति। अनेकार्थद्धातूनां तिष्ठतिरत्र प्रकाशने वर्तते। `संशय्य इति।जहातु नैनं कथमर्थसिद्धःसंशय्य कणादिषु तिष्ठते यः।असाधुयोगा हि जयान्तरायाःप्रमाथिनीनां विपदां पदानि॥ (किरा-3।14) इत्यस्य श्लोकस्यायमेकदेश इहोपन्यस्तः। संशय्येति विवादपदभूते वस्तुनि संशयित्वो भूत्वा कर्णादिषु तिष्ठत इति। कर्णशकुनिप्रभृतिषु निर्षेतृत्वेनाभिमतेषु तत्सु पक्षान्तरं परित्यज्य तिष्ठते; तदुपदर्शितस्यैव पक्षस्याश्रयणात्॥

Prakriyasarvasvam

प्रकाशने निर्णेत्राख्यायोगे च स्थस्तङ् । कृष्णाय तिष्ठते राधा । स्थेययोगे तु निर्णयार्थं तिष्ठति निर्णतृत्वेन तिष्ठतीति च द्वेधाहुर्भट्टपादयः । कृष्णे तिष्ठते धर्मजः, धर्मजे तिष्ठते कृष्णः ।

Sutra Prayogas

  • तिष्ठते (किरातार्जुनीयम्): प्रकाशनस्थेयाख्ययोश्च इति स्थेयाख्यायामात्मनेपदम्।

  • तस्थे (भट्टिकाव्यम्): प्रकाशन- स्थेयाख्ययोश्च इति प्रकाशने तङ्।

  • तिष्ठते (भट्टिकाव्यम्): प्रकाशन स्थेयाख्ययोश्च इत्यात्मनेपदम्।