13025: उपान्मन्त्रकरणे

Padacheda: उपात् | S | 5 | 1 |

मन्त्रकरणे | S | 7 | 1 |

Sutrartha

‘मन्त्रैः निकटगमनम्’ अस्मिन् अर्थे ‘उप’ उपसर्गात् ‘स्था’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

‘मन्त्रकरणम्’ इत्युक्ते ‘मन्त्रैः वैदिकदेवतायाः स्तुतिकरणम्’ । अस्मिन् अर्थे ‘उप + स्था’ इत्यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - सः गार्ह्यपत्यमुपतिष्ठते (‘मन्त्रेण अग्नेः स्तुतिं करोति’ इत्यर्थः) । यत्र वैदिकदेवतायाः स्तुतिः नास्ति तत्र तु परस्मैपदमेव भवति । यथा - पत्नी भर्तारमुपतिष्ठति (भर्तारम् स्तौति इत्यर्थः) । अत्र वार्तिकद्वयं ज्ञातव्यम् - 1) <!उपात् देवपूजा-सङ्गतिकरण-मित्रकरण-पथिष्विति वाच्यम् !> - उप + स्था इत्यस्य एतेषु अर्थेषु अपि आत्मनेपदम् भवति - क) देवपूजा - आदित्यं उपतिष्ठते । ‘सूर्यं पूजति’ इत्यर्थः । ख) सङ्गतिकरणम् (उपश्लेषः / निकटसम्बन्धः / युतिः) - गङ्गा यमुनामुपतिष्ठते । यमुनया सह उपश्लेषं करोति इत्यर्थः । ग) मित्रकरणम् - दुर्योधनः कर्णमुपतिष्ठते । ‘कर्णेन सह मित्रतामाचरति’ इत्यर्थः । घ) पन्थाः (मार्गः) - अयं पन्थाः तक्षशीलामुपतिष्ठते । ‘अयं मार्गः तक्षशीलां प्रति गच्छति’ इत्यर्थः । 2) <!वा लिप्सायामिति वक्तव्यम् !> - लिप्सा (‘प्राप्तेः इच्छा’) अस्मिन् अर्थे उप + स्था इत्यस्मात् वैकल्पिकमात्मनेपदम् भवति । यथा - भिक्षुकः धनिकमुपतिष्ठते उपतिष्ठति वा । ‘धनप्राप्तेः इच्छया धनिकस्य समीपं गच्छति’ इत्यर्थः। ज्ञातव्यम् - अकर्मकाच्च (1.3.26) इत्यनेन अग्रिमसूत्रेण ‘उप + स्था’ इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति ; सकर्मकप्रयोगे तु परस्मैपदमेव क्रियते । परन्तु ‘आदित्यमुपतिष्ठते’, ‘कर्णमुपतिष्ठते’, ‘तक्षशीलामुपतिष्ठते’, ‘धनिकमुपतिष्ठते’ - आदिषु वाक्येषु यद्यपि सकर्मकप्रयोगः दृश्यते, तथापि वर्तमानसूत्रे निर्दिष्टयोः वार्त्तिकयोः सामर्थ्यात् एतेषु उदाहरणेषु आत्मनेपदमेव क्रियते ।

Sutrartha (English)

When the उपसर्ग ‘उप’ is attached to the verb ‘स्था’, it gets the प्रत्ययाः of आत्मनेपद ; provided the meaning is ‘to approach using the मन्त्रs’.

Vasu English Summary

After the verb स्था ‘to stand’, preceded by उप , when meaning ‘to adore’, the आत्मनेपद affix is used.

Vasu English Translation

After the verb स्था ‘to stand’, preceded by उप , when meaning ‘to adore’, the आत्मनेपद affix is used. As ऐन्द्र्यागार्हपत्यमुपतिष्ठते ‘he approaches with prayers or worships the Garhapatya fire with aindra hymns.’

If it does not mean ‘praising with hymns’ the terminations which the verb takes, are those of the Parasmaipada, as भर्तारमुपतिष्ठति यौवनेन ‘she approaches the husband through youth.’

Vart:- The verb स्था after the preposition उप takes the terminations of the atmanepada when meaning ‘worshipping a deity,’ ‘to approach for intercourse or uniting or joining,’ ‘to form friendship with,’ and ‘to lead to as a way.’ Thus:- 1st Deva puja आदित्यमुपतिष्ठते ‘he worships the Aditya.’ 2. Sangati karana पतिमुपतिष्ठते नारी ‘the wife approaches the husband,’ रथिकानुपतिष्ठते ‘forms union with charioteers.’ 3. Mitri karana सन्तमुपतिष्ठते साधुः ‘the good man approaches the saints to make friends with.’ What is the difference between Sangati-karana and Mitri-karana ? Sangati-karana means drawing near and approaching together in space, as गंगायमुनामुपतिष्ठते ‘the Ganges joins the Jumna.’ While the friendly relations may be established without coming in physical contact. 4. Patha :- अयं पन्थाः स्रुघ्नमुपतिष्ठते ‘this road leads to Srughna.’

Vart:- It must be stated that the Atmanepada is optional when the sense is ‘desire of getting.’ As भिक्षुको ब्राह्मणकुलमुपतिष्ठते or उपतिष्ठति ‘a beggar waits at the place of a Brahmana with the desire of getting something.’

Bhashya

उपान्मन्त्रकरणे उपाद्देवपूजासङ्गतकरणयोः । उपाद्देवपूजासङ्गतकरणयोरिति वक्तव्यम्। आदित्यमुपतिष्ठते । चन्द्रमसमुपतिष्ठते। सङ्गतकरणे - रथिकान् उपतिष्ठते। अश्वारोहान् उपतिष्ठन्ते। बहूनामप्यचित्तानामेको भवति चित्तवान्। पश्य वानरसैन्येऽस्मिन्यदर्कमुपतिष्ठते ॥ 1 ॥ मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम्। एतदप्यस्य कापेयं यदर्कमुपतिष्ठति ॥ 2 ॥ अपर आह - उपाद्देवपूजासङ्गतकरणमित्रकरणपथिषु। उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वक्तव्यम्। देवपूजासङ्गतकरणयोरुदाहृतम्। मित्रकरणे - रथिकान् उपतिष्ठते, अश्वारोहान् उपतिष्ठते। पथिषु - अयं पन्थाः स्रुग्ध्नमुपतिष्ठते, अयं पन्थाः साकेतमुपतिष्ठते। वा लिप्सायाम्। वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलमुपतिष्ठते। भिक्षुको ब्राह्मणकुलमुपतिष्ठति।

Kashika

उपपूर्वात् तिष्ठतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यमुपतिष्ठते। आग्नेय्याग्नीध्रमुपतिष्ठते। मन्त्रकरण इति किम्? भर्तारमुपतिष्ठति यौवनेन॥ उपाद् देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्॥ देवपूजायाम् — आदित्यमुपतिष्ठते। संगतिकरणे — रथिकानुपतिष्ठते। मित्रकरणे — महामात्रानुपतिष्ठते। मित्रकरणसंगतिकरणयोः को विशेषः? संगतिकरणमुपश्लेषः,तद्यथा — गङ्गा यमुनामुपतिष्ठते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसंबन्धः। पथि — अयं पन्थाः स्रुघ्नमुपतिष्ठते॥ वा लिप्सायामिति वक्तव्यम्॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा॥

Siddhanta Kaumudi

आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ।<!उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् !> (वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ।<!वा लिप्सायामिति वक्तव्यम् !> (वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥

Balamanorama

उपान्मन्त्रकरणे - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः ।

Tattvabodhini

उपान्मन्त्रकरणे - उपान्मन्त्रकरणे । मन्त्रः करणं यत्र मन्त्रकरणं — स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रम् = अग्निविशेषं स्तौतीत्यर्थः । अत्रकेचित् — श्लोकै राजानं स्तौतीत्यर्थे स्लौकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्य्रा गार्हपत्यमुपतिष्ठते, आग्नेय्या आग्नीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तङिति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपवस्थानमेवार्थः । न च तत्र यष्टायदिवन्मत्रस्य करणत्वं न संभवतीति वाच्यम्, उपस्थानस्वरूपे तस्योपयोगाऽभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते ।आग्नीध्र॑मिति द्वितीया तु करमत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चाऽऽग्नेय्या आग्नीध्रं स्तोतु तत्समीपे तिष्ठतीत्येव वाक्यार्थः । आदित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्याऽसंभवदादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः इत्याहुः । गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना, गङ्गा तु पश्चाद्यमुनया सह मिलितेति प्रतीयते ।

Padamanjari

पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥

Nyaas

मन्त्रकरणे`इति। मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः। `उपात् इत्यादि। अत्र वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रे चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन उपपूर्वात्तिष्ठतेर्देवपूजादिष्वप्यात्मनेपदं भवति।वा लिप्सायाम् इति। लब्धुमिच्छा लिप्सा। लिप्सायां गम्यमानायामित्येषोऽर्थोवेदितव्यः,न तु तत्र वर्तमानात् तिष्ठतेरिति, न लिप्सा तिष्ठरेरर्थः। तथा हि - `भिक्षुको ब्राआहृणकुलमुपतिष्ठते`इत्यत्र तिष्ठतिरुपसंक्रमणे वर्तते। लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते। लिप्सायां हेतुभूतानां ब्राआहृणकुलमुपसंक्रामतीत्यर्थः॥

Prakriyasarvasvam

मन्त्रसाधनकेऽर्थे तङ् चान्निमुपतिष्ठते । अन्यत्र तु वधूः कान्तं यौवनेनोपतिष्ठति ॥ ६४८ ॥<!उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिव्विति वाच्यम्!> (वा०) । विष्णु- मुपतिष्ठते । सङ्गतौ यमुना गङ्गामुपतिष्ठते । मैत्र्याम् चैद्यमुपतिष्ठते रुक्मी । पथि कर्तृकत्वे तु अयं पन्थाः स्वर्लोकमुपतिष्ठते ।<!लिप्सायां वा!> (वा०) । भिक्षु- र्धार्मिकमुपतिष्ठते, उपतिष्ठति वा ।

Vartika

उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम् ।

Sutra Prayogas

  • उपतिष्ठन्ते (भट्टिकाव्यम्): उपान्मन्त्रकरणे इत्यात्मनेपदम्।