12060: फल्गुनीप्रोष्ठपदानां च नक्षत्रे ====================================== **Padacheda:** फल्गुनी-प्रोष्ठपदानाम् | S | 6 | 3 | च | S | 0 | 0 | नक्षत्रे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- And the dual of फाल्गुनी and प्रष्ठपदा , when signifying asterisms, (also connotes optionally plural). Vasu English Translation ------------------------ And the dual of फाल्गुनी and प्रष्ठपदा , when signifying asterisms, (also connotes optionally plural). The word च in this aphorism draws in the *anuvritti* of the word द्वयः from the last. Of the stars *phalguni* and *proshthapada*, the forms may be either dual or plural. As उदिते पूर्वे फल्गुन्यौ (dual); or उदिताः पूर्वाः फल्गुन्यः (plural.) So also पूर्वे प्रोष्ठपदे or पूर्वाः प्रोष्ठपदः ॥ There are two pairs of stars of the name of *phalguni* and *proshthapada*, both being of feminine gender, and their logical number being 'dual.' The present *sutra* ordains plural optionally. If *phalguni* and *proshthapada* are not names of asterisms, they must have their proper number : as फल्गुन्यौ माणविके ॥ Bhashya ------- फल्गुनीप्रोष्ठपदानां च नक्षत्रे अयमपि योगः शक्योऽवक्तुम्। कथम् - उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः। उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः? फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो वर्तते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। यदा तयोरेवाभिधानं तदा द्विवचनं भविष्यति ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ 60 ॥ Kashika ------- चकारो द्वयोरित्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्र इति किम्? फल्गुन्यौ माणविके॥ Siddhanta Kaumudi ----------------- द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥ Balamanorama ------------ **फल्गुनीप्रोष्ठपदानां च नक्षत्रे** - फल्गुनी । 'नक्षत्रे' इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह — द्वित्वे इति । पूर्वं प्रोष्ठपदे इति । स्त्रीत्वादौङः शीभावः ।प्रोष्ठपदा भाद्रपदा स्त्रिया॑मित्यमरः । फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑ इति टः । टित्त्वान्ङीप् । Tattvabodhini ------------- **फल्गुनीप्रोष्ठपदानां च नक्षत्रे** - फल्गुनीप्रोष्ठपदानां च । चकारेण द्वयोरनुकर्षणादाह — द्वित्व इति । फल्गुन्यौ माणविके इति । फल्गुनीशब्दात्नक्षत्रेण युक्तः कालः ॑ इत्यण् । तस्यलुबविशेषे॑इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑इति टः । टित्त्वन्ङीप् । न चायं गौणः, यौगिकत्वात् । तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः । Padamanjari ----------- चकार इत्यादि । केचिदाहुः - ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते - सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः - आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि - उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥ Nyaas ----- `चकारो द्वयोरनुकर्षनार्थः` इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन? एवं तह्र्रेतज्ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति - उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः `उदिताः पूर्वाः फल्गुन्यः` इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनज्र्योतिषउपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात्? तदेहैव स्यात् - अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्यत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह - **नक्षत्रेण युक्तः कालः** (4.2.3) इत्यण् भवति। श्रवणं तस्य न भवति; **लुबविशेषे** (4.2.4) इति लुप्तत्वात्।`फल्गुन्यौ माणविके` इति। फल्गुन्योर्जाते इति। `फल्गुन्याषाढाभ्यां टानौ` (वा।451) इत्युपसंख्यानाट्टप्रत्ययः। `टिड्ढाणञ्` (4.1.15) इति ङीप्॥