12058: जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् =============================================== **Padacheda:** जाति-आख्यायाम् | S | 7 | 1 | एकस्मिन् | S | 7 | 1 | बहुवचनम् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In (a common) name (expressive of) class, in denoting the singular, the plural is optionally used. Vasu English Translation ------------------------ In (a common) name (expressive of) class, in denoting the singular, the plural is optionally used. The words of this *sutra* require some detailed explanation. The name of a *jati* or species, always denotes one, since it is a collective noun, and will naturally take the singular number; by the present *sutra* such words may take the plural number also. In such nouns of class, the plural number has also the force of the singular. The *anuvritti* of *asishyam* does not go further. It follows from this that adjectives which are not themselves common noun, such as संपन्नः &c., agree with the noun and will also get the plural number. Thus संपन्नो यवः or संपन्ना यवाः; "Full grown barley" पूर्ववया ब्राह्मणः प्रत्युत्येयः or पूर्ववयसो ब्राह्मणाः प्रत्युत्येयाः ॥ Why have we used the word *jati* in this *sutra* ? For this aphorism does not apply to Proper Nouns. Thus देवदत्तः *Devadatta*, यज्ञदत्तः *Yajnadatta*. Why have we used the word आख्यायाम्? A word may be a class noun or *jati*, but it may not be the appellation of a class. Thus the statue of *Kasyapa* may also be called *kasyapa*; this is a class noun; but as it is not the appellation आख्या or name of a class, such words cannot take the plural form and still denote a singular sense. Why do we say '*ekasmin*'? When two or more class names are compounded as ब्रीहियवौ 'the rice and barley': the rule does not apply. Vart:- An exception must be made when a class noun is qualified by a numeral adjective. As एको ब्रीहिः संपन्नः सुभिक्षं करोति. Bhashya ------- जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ एकत्वे बहुवचनसाधनाधिकरणम् ॥ इदमयुक्तं वर्तते। किमत्रायुक्तम्? बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। तद्यदेकवचने शासितव्ये बहुवचनं शिष्यते एतदयुक्तम्। बहुष्वेकवचनमिति नाम वक्तव्यम्। अत उत्तरं पठति- - जात्याख्यायां सामान्याभिधानादैकार्थ्यम् - जात्याख्यायां सामान्याभिधानादैकार्थ्यं भविष्यति। यत्तद् व्रीहौ व्रीहित्वं यवे यवत्वं गार्ग्ये गार्ग्यत्वं तदेकम्, तच्च विवक्षितम्, तस्यैकत्वादेकवचनमेव प्राप्नोति। इष्यते च बहुवचनं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति- जात्याख्यायामेकस्मिन् बहुवचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति। - तत्रैकवचनादेश उक्तम् - किमुक्तम्? व्रीहिभ्य आगत इत्यत्र घेर्ङिति (7.3.111) इति गुणः प्राप्नोतीति। नैष दोषः। - अर्थातिदेशात्सिद्धम् - अर्थातिदेशोऽयम्। नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्- उच्यते वचनम्, बहूनामर्थानां वचनं बहुवचनमिति। यावद्ब्रूयादेकोऽर्थो बहुवद्भवतीति, तावदेकस्मिन् बहुवचनमिति। - सङ्ख्याप्रयोगे प्रतिषेधः - सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको व्रीहिः सम्पन्नः सुभिक्षं करोति। एको यवः सम्पन्नः सुभिक्षं करोति। - अस्मदो नामयुवप्रत्यययोश्च - अस्मदो नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधो वक्तव्यः। नामप्रयोगे, अहं देवदत्तो ब्रवीमि। अहं यज्ञदत्तो ब्रवीमि। युवप्रत्ययप्रयोगे अहं गार्ग्यायणो ब्रवीमि। अहं वात्स्यायनो ब्रवीमि। युवग्रहणेन नार्थः अस्मदो नामप्रत्ययप्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं गार्ग्यो ब्रवीमि। अहं वात्स्यो ब्रवीमि। अपर आह- अस्मदः सविशेषणस्य प्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं पटुर्ब्रवीमि। अहं पण्डितो ब्रवीमि। - अशिष्यं वा बहुवत्पृथक्त्वाभिधानात् - अशिष्यो वा बहुवद्भावः। किं कारणम्? पृथक्त्वाभिधानात्। पृथक्त्वेन हि द्रव्याण्यभिधीयन्ते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। किमुच्यते पृथक्त्वाभिधानात् इति। यावता इदानीमेवोक्तम् जात्याख्यायां सामान्यभिधानादैकार्थ्यम् इति? - जातिशब्देन हि द्रव्याभिधानम् - जातिशब्देन हि द्रव्यमप्यभिधीयते, जातिरपि। कथं पुनर्ज्ञायते जातिशब्देन द्रव्यमप्यभिधीयत इति? एवं हि कश्चिन्महति गोमण्डले गोपालकमासीनं पृच्छति- अस्त्यत्र काञ्चिद्गां पश्यसि इति। स पश्यति- पश्यति चायं गाः, पृच्छति च- काञ्चिदत्र गां पश्यसि इति, नूनमस्य द्रव्यं विवक्षितम् इति। तद्यदा- द्रव्याभिधानं तदा बहुवचनं भविष्यति, यदा सामान्याभिधानं तदैकवचनं भविष्यति ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ 58 ॥ Kashika ------- अशिष्यमिति निवृत्तम्। जातिर्नामायमेकोऽर्थः, तदभिधान एकवचनमेव प्राप्तम्, अत इदमुच्यते। जातेराख्या जात्याख्या जात्याख्यायामेकस्मिन्नर्थे बहुवचनमन्यतरस्यां भवति। जात्यर्थो बहुवद् भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते। संपन्नो यवः। संपन्ना यवाः। संपन्नो व्रीहिः। संपन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्त्थेयः। पूर्ववयसो ब्राह्मणाः प्रत्युत्त्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायामिति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिन्निति किम्? व्रीहियवौ॥ संख्याप्रयोगे प्रतिषेधो वक्तव्यः॥ एको व्रीहिः संपन्नः सुभिक्षं करोति॥ Siddhanta Kaumudi ----------------- एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥ Balamanorama ------------ **जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्** - जात्याख्यायाम् । आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति 'ब्राआहृणा भोज्या' इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः । Tattvabodhini ------------- **जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्** - एकोऽप्यर्थो वा बहुबदिति । एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति -ब्राआहृणाः पूज्या इति । जात्याख्यायां किम् । दोवदत्तो यज्ञदत्तः । एकस्मिन्किम् । व्रीहियवौ । अस्मदो द्वयोश्च । चात्एकस्मिन् बहुवचनमन्यतरस्या॑मिति च वर्तते । तदेतदाह -एकत्वे द्वित्वे च विवक्षित इत्यादि । Padamanjari ----------- जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् - दिष्टिप्रस्थसुवर्णादि मूर्तभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ इति । बैशेषिकाश्च व्यावहरन्ति - पञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्याउ प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः । देवदत इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् ऽलुम्मनुष्येऽ । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिंस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः । संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ॥ Nyaas ----- `जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि `भेदका गुणाः` इत्यस्मद्दर्शने` भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। `जातेराख्या` इति। आख्यानमाख्या = प्रत्यायनम्। `एकस्मिन्नर्थे` इति। जात्याख्योऽर्थो `जात्यर्थो बहुवद्भवतीति यावत्` इति। एतेनैतद्दर्शयति - न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्रते, किं तर्हि? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्। न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामर्थ्याद्वित्यर्थो गम्यते - एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। `तेन` इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्।`देवदत्तः` इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामर्थ्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः।`काश्यपप्रतिकृतिः काश्यपः` इति। काश्यपस्यापत्यम् `अनृष्यानन्तर्ये विदादिभ्योऽञ्` (4.1.104) इत्यञ् - काश्यप इति। तत इवार्थे `एवे प्रतिकृतौ` (5.3.96) इति कन्। `लुम् मनुष्ये` (5.3.98) इति लप् भवति। `अयं जातिशब्दः` इति। `गोत्रञ्च चरणैः सह` (4.1.63म।भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि? प्रतिकृतिप्रत्यायनम्।`व्रीहियवौ` इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति॥ Prakriyasarvasvam ----------------- जातिमात्राभिधाने जातेरेकत्वादेकस्मिन्नर्थेऽपि वा बहुवचनं स्यात् । वन्द्या विप्राः । वन्द्यो विप्रः । संख्याप्रयोगे नेति वाच्यम् । एको विप्रः । पूजायां सर्वत्र बहुत्वमिष्टम् । आचार्यान् पितृपादांश्च भट्टमिश्रान् नमाम्यहम् । यूयं ब्रूथ महात्मान इत्येकत्वेऽपि दृश्यते ॥ ५७६ ॥ शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः । इत्यादौ शक्यमित्येतत् सामान्योपक्रमाद् भवेत् ।। ५७७ ।। शक्यमिदमित्युपक्रम्य किं तदित्यपेक्षायां वाताः पातुमिति विशेषो योज्य इति ।। सर्वादिस्तु — सर्वः । सर्वौ । सर्व अस् । Vartika ------- संख्याप्रयोगे प्रतिषेधः ।