12046: कृत्तद्धितसमासाश्च ========================= **Padacheda:** कृत्-तद्धित-समासाः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **कृत्-प्रत्ययान्तशब्दानाम्, तद्धितप्रत्ययान्तशब्दानाम् तथा सामासिकशब्दानाम् 'प्रातिपदिकम्' इति संज्ञा भवति ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) इति पूर्वसूत्रेण अप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञायाम् कृतायाम्, प्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञाविधानार्थम् इदं सूत्रम् प्रारभ्यते । **ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति, तद्धितप्रत्ययान्ताः वा सन्ति तेषाम्, तथा च समासेन सिद्धानां शब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति ** । **कृत्प्रत्ययान्तशब्दाः** अष्टाध्याय्यां तृतीयाध्याये **कृदतिङ्** (3.1.93) अस्मिन् अधिकारे कृत्प्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य कृदन्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'रम्' धातोः 'घञ्' प्रत्यये कृते प्राप्तः 'राम' इति कृदन्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि कृदन्तप्रातिपदिकानि एतादृशानि - पाठक (= पठ् + ण्वुल्), कर्तृ (= कृ + तृच्), द्रष्टव्य (= दृश् + तव्य), लेखन (= लिख् + ल्युट्), सङ्गम्य (= सम् + गम् + ल्यप्), पठितवत् (= पठ् + क्तवतुँ ) । **तद्धितप्रत्ययान्तशब्दाः** अष्टाध्याय्यां चतुर्थपञ्चमाध्याययोः **तद्धिताः** (4.1.76) अस्मिन् अधिकारे तद्धितप्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य तद्धितान्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'कृष्ण' इत्यस्मात् प्रातिपदिकात् 'इञ्' इति तद्धितप्रत्ययं कृत्वा प्राप्तः 'कार्ष्णि' इति तद्धितान्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि तद्धितान्तप्रातिपदिकानि एतादृशानि - गौरव (= गुरु + अण्) , वैनतेय (= विनता + ढक्) , पञ्चम (= पञ्चन् + डट्), शालीय (= शाला + छ) । **समासनिर्मिताः शब्दाः** अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमद्वितीयपादयोः **प्राक्कडारात्समासः** (2.1.3) अस्मिन् अधिकारे समासविधायकानि सूत्राणि पाठितानि सन्ति । एतैः सूत्रैः ये नूतनशब्दाः सिद्ध्यन्ति, तेषाम् प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'सीतायाः पतिः' इत्यत्र **षष्ठी** (2.2.8) इत्येनेन तत्पुरुषसमासे कृते प्राप्तः 'सीतापति' शब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि उदाहरणानि एतानि - , रामलक्ष्मण (= रामश्च लक्ष्मणश्च), पीताम्बर (= पीतम् अम्बरम् यस्य सः), यथाशक्ति (= शक्तिम् अनतिक्रम्य) । **स्त्रीप्रत्ययान्तशब्दा:** अष्टाध्याय्याम् चतुर्थाध्यायस्य प्रथमपादे अष्टौ स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीष्, ङीप्, ङीन्, ऊङ्, क्तिन् । एते प्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः प्रकृतसूत्रेण स्त्रीप्रत्ययान्यशब्दानाम् प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इत्यया परिभाषया - 'यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति' इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, **ङ्याप्प्रातिपदिकात्** (4.1.1) इत्यस्मिन् सूत्रे 'ङी' तथा 'आप्' एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते । **सूत्रे 'अन्त'ग्रहणस्य अभावः** **संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति** अनया परिभाषया यत्र संज्ञाविधानसूत्रे प्रत्ययस्य निर्देशः क्रियते तत्र सा संज्ञा प्रत्ययस्यैव भवति,न हि प्रत्ययान्तस्य । प्रकृतसूत्रे अस्याः परिभाषायाः आश्रयणनेन केवलम् कृत्-प्रत्ययानाम् तद्धितप्रत्ययानाम् च प्रत्ययसंज्ञा भवेत्, न हि तदन्तानाम् । परन्तु केवलप्रत्ययानां प्रातिपदिकसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र 'अन्त'ग्रहणम् कृत्वैव अर्थनिर्णयः क्रियते । **सामासिकशब्दानां विषये नियमः** वस्तुतः **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) इत्यनेनैव सूत्रेण सामासिकशब्दानाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति, यतः सामासिकशब्दाः अर्थवन्तः सन्ति, धातुसंज्ञकाः न सन्ति, प्रत्ययान्ताः च न सन्ति । अनेन प्रकारेण पूर्वसूत्रेणैव प्रातिपदिकसंज्ञायां सिद्धायाम् प्रकृतसूत्रे 'समास'ग्रहणम् **नियमार्थम्** अस्ति । **यत्र द्वयोः अधिकानाम् वा पदानाम् समूहः दृश्यते, तत्र केवलं समासस्यैव प्रातिपदिकसंज्ञा भवति, अन्येषाम् पदसमूहानाम् न** इति अत्र नियमः । अनेन नियमेन **वाक्यस्य** प्रातिपदिकसंज्ञा प्रतिषिध्यते । वाक्यम् अपि समाससदृशः पदसमूहः एव । तत् अपि अर्थवत् अस्ति, धातुसंज्ञकम् प्रत्ययान्तं च नास्ति (यद्यपि वाक्यस्य अन्ते विद्यमानः शब्दः प्रत्ययान्तः एव, तथापि **प्रत्ययग्रहणे यस्मात्स विहितः तदादेः तदन्तस्य च ग्रहणम्** इति परिभाषया इदं प्रत्ययान्तत्वं तस्य शब्दस्य कृते एव स्वीक्रियते, वाक्यस्य कृते न, अतः वाक्यम् तु अप्रत्ययान्तम् एव - इति आशयः ) । अतः **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्**(1.2.45) इत्यनेन तस्य प्रातिपदिकसंज्ञायां प्राप्तायाम् प्रकृतसूत्रे समासग्रहणेन सा निषिध्यते । इति परिभाषया कृत्तद्धितेति तदन्तग्रहणन्तदाह - कृत्तद्धितान्तावित्यादिना ।