12041: अपृक्त एकाल् प्रत्ययः ============================ **Padacheda:** अपृक्तः | S | 1 | 1 | एकाल् | S | 1 | 1 | प्रत्ययः | S | 1 | 1 | Sutrartha --------- **यस्मिन् प्रत्यये केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अपृक्त' इति संज्ञा । **यस्मिन् प्रत्यये एकः एव वर्णः विद्यते, तस्य अनेन सूत्रेण 'अपृक्त' इति संज्ञा भवति । ** यथा - 1) प्रथमैकवचनस्य सुँ-प्रत्ययस्य इत्संज्ञालोपात् अनन्तरम् 'स्' इति एकाल् रूपम् अवशिष्यते । अस्य 'अपृक्तः' इति संज्ञा भवति । 2) लङ्लकारस्य स्थाने विहितस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य पकारस्य इतसंज्ञालोपे कृते 'ति' इत्यत्र विद्यमानस्य इकारस्य **इतश्च** (3.4.100) इत्यनेन लोपे कृते अवशिष्टे 'त्' इत्यस्मिन् अंशे एकः एव वर्णः विद्यते, अतः 'त्' इति अपृक्तः प्रत्ययः । 3) 'क्विप्' प्रत्यये इत्संज्ञकयोः ककारपकारयोः लोपं कृत्वा, ततः उच्चारणार्थं स्थापितस्य वकारोत्तरस्य इकारस्यापि लोपं कृत्वा अवशिष्टः 'व्' इति प्रत्ययः अपि अपृक्तसंज्ञकः भवति । **प्रयोजनम्** अपृक्तसंज्ञाम् आश्रित्य अष्टाध्याय्यां भिन्नानि कार्याणि उक्तानि सन्ति । यथा, हलन्तशब्दात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन लोपः भवति - .. code-block:: text मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] --> मरुत् + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उँकारस्य इत्संहज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । अवशिष्टस्य 'स्' इत्यस्य 'अपृक्तः' इति संज्ञा भवति ।] --> मरुत् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः] **प्रयोगः** अष्टाध्याय्याम् 'अपृक्त'संज्ञायाः साक्षात् प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः अस्ति - 1. **वेरपृक्तस्य** (6.1.67) 2. **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) 3. **गुणोऽपृक्ते** (7.3.91) 4. **अस्तिसिचोऽपृक्ते** (7.3.96) अनुवृत्तिरूपेण तु अन्यत्रापि अस्य शब्दस्य प्रयोगः भवितुम् अर्हति । Sutrartha (English) ------------------- A प्रत्ययः that contains only one letter is called अपृक्त । Vasu English Summary -------------------- An affix consisting of a single letter is called अपृक्त। Vasu English Translation ------------------------ An affix consisting of a single letter is called अपृक्त। This defines *Aprikta* affixes. They are those affixes which consist of only one letter of the alphabet. Thus the affix त् *t* in असेधीत् is a one lettered suffix and is an *Aprikta*. Similarly, the affix क्विन् *kvin* is an *Aprikta*, because the letters क्, इ, and न् are merely indicatory, the real affix is व् *v*. This व् *v* being a single letter, and therefore an *Aprikta*, when added to a base, is elided by rule (6.1.67) \[1\] (the *Aprikta* व् *v* is elided). Thus घृतस्पृश् + क्विन् = घृतस्पृक् + व् = (3.2.58) \[2\] = घृतस्पृक् ॥ अंशभज् + ण्वि = अंशभाक् 'co-sharer.' (3.2.62) \[3\]. An affix which consists of more than one letter is not an *Aprikta*. As दर्विः 'a ladle' formed by the *Unadi* affix विन् (वृदृभ्यां विन्). ## Footnotes - [1] — वेरपृक्तस्य ॥ - [2] — स्पृशोऽनुद के क्विन् ॥ - [3] - भजोण्विः ॥ Bhashya ------- अपृक्त एकाल्प्रत्ययः - अपृक्तसञ्ज्ञायां हल्ग्रहणं स्वादिलोपे हलोऽग्रहणार्थम् - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। एकहल्प्रत्ययोऽपृक्तसञ्ञ्ज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? स्वादिलोपे हलोऽग्रहणार्थम्। एवं हि स्वादिलोपे हलो ग्रहणं न कर्तव्यं भवति। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (6.1.68) इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमल्ग्रहणम् - अणिञोर्लुगर्थमल्ग्रहणं कर्तव्यम्। किं प्रयोजनम्? अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति ण्यक्षत्रियार्षञ्ञितो यूनि लुगणिञ्ञोः (2.4.58) इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गः - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गो भवति। इहापि प्राप्नोति- फाण्टाहृतेरपत्यं माणवकः फाण्टाहृतः इति। णवचनसार्मथ्यान्न भविष्यति। - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थं वचनम् - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थमेतत्स्यात्। फगतो मा भूदिति। - पैलादिषु वचनात्सिद्धम् - यद्येतावत्प्रयोजनं स्यात् पैलादिष्वेवास्य पाठं कुर्वीत। तत्र पाठादन्येषामपि फको निवृत्तिर्भवति। एवं सिद्धे सति यदयं णं शास्ति तज्ज्ञापयत्याचार्यो - नास्य लुग्भवतीति। तान्येतानि त्रीणि ग्रहणानि भवन्ति - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं न कर्तव्यम्। अणिञोर्लुकि ग्रहणं कर्तव्यम्। अल्ग्रहणेऽपि वै क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति- अपृक्तसञ्ज्ञायामलग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं कर्तव्यम्। अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति, अपृक्तग्रहणं कर्तव्यम्। तत्र नास्ति लाघवकृतो विशेषः। अयमस्ति विशेषः। अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? अलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? अल्ग्रहणसार्मथ्यात्। यदि च योऽल् चान्यश्च तत्र स्यात्, अल्ग्रहणमनर्थकं स्यात्। हल्ग्रहणेपि वै क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? हलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? हल्ग्रहणसार्मथ्यात्। यदि च यो हल् चान्यश्च तत्र स्यात्, हल्ग्रहणमनर्थकं स्यात्। अस्त्यन्यद्धल्ग्रहणस्य प्रयोजनम्। किम्? हलन्तस्य यथा स्यादजन्तस्य मा भूदिति। एवं तर्हि सिद्धे सति यदल्ग्रहणे क्रियमाणे एकग्रहणं करोति, तज्ज्ञापयत्याचार्यः- अन्यत्र वर्णग्रहणे जातिग्रहणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् इत्युक्तं तदुपपन्नं भवति ॥ अपृक्त एकाल्प्रत्ययः ॥ 41 ॥ Kashika ------- अपृक्त इतीयं संज्ञा भवति एकाल् यः प्रत्ययस्तस्य । असहायवाची एकशब्दः। **स्पृशोऽनुदके क्विन्** (३.२.५८) — घृतस्पृक्। **भजो ण्विः** (३.२.६२) — अर्धभाक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्त — प्रदेशाः — **वेरपृक्तस्य** (६.१.६७) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥ Balamanorama ------------ **अपृक्त एकाल् प्रत्ययः** - सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह — अपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दो ।ञसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । 'स्' इत्यस्याऽपृक्तसंज्ञायाम् । Tattvabodhini ------------- **अपृक्त एकाल् प्रत्ययः** - अपृक्त एकाल् । असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा । न च सङ्ख्यावाचित्वेअभैत्सी॑दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात् । एकालिति किम् जागृविः ।वरेपृक्तस्ये॑ति लोपो न ।अ॑लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति । फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनोहलन्ताच्चे॑ति कित्त्वम् । तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात् । ततश्च नलोपो न स्यादित्यभ्युपगम्यनिपात एकाजना॑ ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान । Padamanjari ----------- घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥ Nyaas ----- `घृतस्पृक्` इति। **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। `अद्र्धभाक्` इति। **चोः कुः** (8.2.30) इति जकारस्य गकारः। उभयत्र **वाऽवसाने** (8.4.56) इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् **वेरपृक्तस्य** (6.1.67) इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति।`दर्विः` इति। `दृ विदारणे` (धातुपाठः-1493) `वृ दृभ्यां विन्` (द।उ।1।23) इति विन्। `जागृविः` इति। `जागृ निद्राक्षये` (धातुपाठः-1072), `जृशृस्तृजागृभ्यः क्विन्` (द।उ।1।24) इति क्विन्। `सुराः` इति। `षूञ् अभिषवे` (धातुपाठः-1247), सुरां सुनोतीति **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्; सुरासुत्, ह्रस्वस्य तुक्। `तमाचष्टे` (वा। 201) इति णिच्। `णाविष्टवत् कार्यं प्रातिपदिकस्य` (वा।813) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवचनम्, हल्ङ्यादिना (6.1.66) सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे `प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्।अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामर्थ्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन **हलन्ताच्च** (1.2.10) इत्यत्र यदुक्तम् - `दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्` इति तदुपपन्नं भवति। Prakriyasarvasvam ----------------- sutra_text: अपृक्त एकाल् प्रत्ययः