12024: वञ्चिलुञ्च्यृतश्च ======================== **Padacheda:** वञ्चि-लुञ्चि-ऋतः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The सेट् क्त्वा is optionally कित् after the verbs वञ्च् 'to cheat', लुञ्च् 'to pluck' and ऋत् 'to dare or abhor'. Vasu English Translation ------------------------ The सेट् क्त्वा is optionally कित् after the verbs वञ्च् 'to cheat', लुञ्च् 'to pluck' and ऋत् 'to dare or abhor'. After the above three verbs, the *ktva* affix being *set*, may or may not be *kit*. As वचित्वा or वंचित्वा 'having cheated.' So also लुचित्वा or लुंचित्वा 'having plucked', ऋतित्वा or अर्तित्वा 'having dared.' When the verb ऋत् *rit* takes the affix ईयङ् it is not governed by this *sutra*. See *sutra* (3.1.29). 1.2.25.md When the *ktva* is not *set*, but *anit*, then there is no option allowed. As वच् + क्त्वा = वक्त्वा. Kashika ------- वञ्चि लुञ्चि ऋत् इत्येतेभ्यः परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा। **ऋतेरीयङ्** (३.१.२९) आर्धधातुके विकल्पितः। स यत्र पक्षे नास्ति तत्रेदम् उदाहरणम्। सेड् इत्येव — वक्त्वा॥ Siddhanta Kaumudi ----------------- सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥ Tattvabodhini ------------- **वञ्चिलुञ्च्यृतश्च** - वचित्वेति । वञ्चु प्रलम्भने । लुचित्वेति । लुञ्च अपनयने । ऋतित्वेति । ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषयेऋतेरीय॑ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते । Padamanjari ----------- ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥ Nyaas ----- `वन्चु प्रलम्भने` (धातुपाठः-1703), `लुन्च अपनयने` (धातुपाठः-187), `ऋत` इति सौत्रौ धातुः, यत्र `ऋतेरीयङ` (3.1.29) इतीयङ विहितः। `ऋतेरीयङ` आर्धधातुके विकल्प्यते` इति। `आदाय आर्धधातुके वा` (3.1.31) इत्यनेन। `वचित्वा` इति। `अनिदिताम्। (6.4.24) इति नलोपः। `वक्तवा` इति। **उदितो वा** (7.2.56) इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्यविकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात। Prakriyasarvasvam ----------------- एभ्यः सेट् क्त्वा वा न कित् स्यात् । वचित्वा वञ्चित्वा । 'लुञ्च अपनयने' । लुचित्वा लुञ्चित्वा । ऋतिः सौत्रो दयाजुगुप्सागतिषु । ऋतित्वा अर्तित्वा ॥