12022: पूङः क्त्वा च ==================== **Padacheda:** पूङः | S | 5 | 1 | क्त्वा | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The सेट् निष्ठा affix and the सेट् क्त्वा are not कित् after the verb पुङ् 'to purify'. Vasu English Translation ------------------------ The सेट् निष्ठा affix and the सेट् क्त्वा are not कित् after the verb पुङ् 'to purify'. The word 'optionally' of the previous *sutra* (1.2.21) does not govern this *sutra*, because the word 'optionally' has been again used in the next *sutra* (1.2.23); of which there would have been no necessity had the word 'optionally' governing force in this *sutra*, for then this would have also governed the next *sutra*. The *anuvritti* of न सेट् however is to be read in this *sutra*. By rule (7.2.51), after the verb पू the affixes *Nishtha* and क्त्वा *ktva* take the intermediate इ. So that क्त्वा *ktva* being *set* (by virtue of Rule (7.2.51)) would have been non-*kit* by Rule 18; and it might be asked what is the necessity of repeating it in this *sutra*, when *sutra* (1.2.18) comprised the case. The reason of this repetition is that by mentioning क्त्वा *ktva* in this *sutra*, it has governing force over the succeeding *sutras*. As पवितः, पवितवान्. Bhashya ------- पूङः क्त्वा च - पूङः क्त्वानिष्ठयोरिटि वाप्रसङ्गः सेट्प्रकरणात् - पूङः क्त्वानिष्ठयोरिटि विभाषा कित्त्वं प्राप्नोति। किं कारणम्?। सेट्प्रकरणात्। सेडिति वर्तते। - न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् - न वा एष दोषः। किं कारणम्?। सेट्त्वस्याकिदाश्रयत्वात्। अकिदाश्रयं सेट्त्वम्। यदा अकित्त्वं तदेटा भवितव्यम्। सेट्त्वस्याकिदाश्रयत्वादनिट्येव विभाषा कित्त्वं भविष्यति। इडि्वधौ पूङो ग्रहणं क्रियते। तेन वचनादिट्। सेट्प्रकरणाच्च इट्येव विभाषा कित्त्वं प्राप्नोति। - इडि्वधौ ह्यग्रहणम् - इडि्वधौ हि पूङो ग्रहणं न कर्तव्यं भवति। भारद्वाजीयाः पठन्ति- - नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम् - नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः सिद्धम्। कथम्? विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये च ये विधयस्ते नित्या भवन्ति। किमर्थं तर्हि क्त्वाग्रहणम्? क्त्वा ग्रहणमुत्तरार्थम्। उत्तरार्थं क्त्वाग्रहणं क्रियते नोपधात्थफान्ताद्वा (23) वञ्चिलुञ्ञ्च्यृतश्च (24) इति ॥ पूङः क्त्वा च ॥ 22 ॥ Kashika ------- अन्यतरस्याम् इति न स्वर्यते, उत्तरसूत्रे पुनर्वावचनात्। न सेड् इति वर्तते। पूङश्चेड् विहितः **क्लिशः क्त्वानिष्ठयोः** (७.२.५०) **पूङश्च** (७.२.५१) इति। पूङः परो निष्ठाप्रत्ययः क्त्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययस्य **न क्त्वा सेट् ** (१.२.१८) इति सिद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तम् — ‘नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थम्>> (महाभाष्य १.२०१) इति॥ Siddhanta Kaumudi ----------------- पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात् - (SK3324) इत्यत्र हि क्त्वैव संबध्यते ॥ Balamanorama ------------ **पूङः क्त्वा च** - पूङः क्त्वा च ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति,निष्ठा शीङित्यतो निष्टेति च । तदाह — पूङः क्त्वा निष्ठा चेत्यादि । ननुन क्त्वा से॑डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह — क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति — नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा ।पूङश्चे॑त्येवोक्तौ तु 'निष्ठा शी' ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः । Tattvabodhini ------------- **पूङः क्त्वा च** - पूङः क्त्वा च ।न क्त्वा से॑डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह — उत्तरार्थमिति । क्त्वैवेति । नतु निष्ठा, चानुकृष्टत्वादिति भावः । Padamanjari ----------- इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥ Nyaas ----- `न सेट् वर्तते` इत्यक्तम्। **न क्त्वा सेट्** (1.2.18) इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; `श्रयुकः किति` (7.2.11) इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह - पूङश्चेड् विहितः` इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह - `क्त्वाप्रत्ययस्य` इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि? **न क्त्वा सेट्** (1.2.18) इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य **न क्त्वा सेट्** (1.2.18) इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह - `तथा च ` इत्यादि। `पूङ्श्च` (7.2.51) इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम् - `नित्यमकित्त्वमिडाद्योः` इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्यत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य **न क्त्वा सेट्** (1.2.18) इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम् - `क्त्वाग्रहणमुत्तरार्थम्` इति। `पूङः` इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; `श्रयुकः किति` (7.2.11) इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥ Prakriyasarvasvam ----------------- अस्मात् परा सेण्निष्ठा क्त्वा च किन्न स्यात् । तेनेट्पक्षे गुणः । पूतः, पवितः ॥