12018: न क्त्वा सेट्¶
Padacheda: न | S | 0 | 0 |
क्त्वा | S | | | 1
सेट् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्त्वा when it takes the augment इट् (i.e. when it is सेट्) is not कित् ।
Vasu English Translation¶
The affix क्त्वा when it takes the augment इट् (i.e. when it is सेट्) is not कित् । We had had occasion to refer to this sutra in explaining sutra (1.2.7). The affix ktva (the actual affix being tva, the k being merely it or indicatory letter) is on the face of it a kit affix. This sutra however limits its kitness to cases where it is not set. If it is set, i.e. has before it the intermediate इ it will not be treated like a kit affix. Thus in कृत्वा, हुत्वा, the affix त्वा is added directly to the root कृ ‘to do’ and हु ‘to sacrifice,’ without an intermediate इ and therefore the root has not been gunated, the affix here being kit. But in स्वेदित्वा, देवित्वा, वर्त्तित्वा, from स्विद्, दिव् and वृत् ‘to sweat,’ ‘to shine,’ ‘to be,’ the affix is not kit, because there is an intermediate इ before त्वा and the root has been consequently gunated.
Of course this sutra relates to क्त्वा ktva only. Other affixes though having an intermediate इ will be treated as kit, if they have an indicatory क्. Thus the affix क्तिन् (3.3.94) by which feminine nouns are formed from roots is a कित् affix. This affix when सेट्, will remain कित्, as नि + ग्रह् + इट् + क्तिन् = नि + गृह् + इ + ति (6.1.16) = निगृहीतिः (7.2.37). Here there is samprasarana by treating klin as kit. So also in उपस्निहितिः and निकुचितिः there is no guna. After ग्रह् &c., the affix क्तिन् takes the augment इट् by a Vartika under sutra (7.2.9) which see.
Bhashya¶
न क्त्वा सेट् - न सेडिति कृतेऽकित्त्वे - न सेडित्येव सिद्धम्, नार्थः क्त्वाग्रहणेन। निष्ठायामपि तर्हि प्राप्नोति- गुधितः गुधितवानिति। - निष्ठायामवधारणात् - निष्ठायामवधारणान्न भविष्यति। किमवधारणम्? निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (1.2.16) इति। परोक्षायां तर्हि प्राप्नोति। किं च स्यात्? पपिव पपिम क्ङितीत्याकारलोपो न स्यात्। मा भूदेवम्, इटीत्येवं भविष्यति। इदं तर्हि- जग्मिव जघ्निव क्ङितीत्युपधालोपो न स्यात्। - ज्ञापकान्न परोक्षायाम् - ज्ञापकात्परोक्षायां न भविष्यति। किं ज्ञापकम्? - सनि झल्ग्रहणं विदुः - यदयम् इको झल् (1.2.9) इति झल्ग्रहणं करोति तज्ज्ञापयत्याचार्यः- औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्य इति। कथं कृत्वा ज्ञापकम्? झल्ग्रहणस्यैतत्प्रयोजनं झलादौ यथा स्यात्, इह मा भूत्- शिशयिषत इति। यदि चात्रातिदेशिकस्यापि कित्त्वस्य प्रतिषेधः स्यात्, झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, न सेड् इति प्रतिषेधो भविष्यति। पश्यति त्वाचार्य औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति, ततो झल्ग्रहणं करोति। नैतदस्ति ज्ञापकम्। उत्तरार्थमेतत्स्यात् स्थाघ्वोरिच्च (1.2.17) झलादौ यथा स्यात्, इह मा भूत्- उपास्थायिषातामुपास्थायिषत। - इत्त्वं कित्सन्नियोगेन - कित्त्वसन्नियोगेनेत्त्वमुच्यते। तेनासति कित्त्वे इत्त्वं न भविष्यति। - रेण तुल्यं सुधीवनि - तद्यथा- सुधीवा सुपीवेति ङीप्सन्नियोगेन र उच्यमानोऽसति ङीपि न भविति। अथ वाऽस्त्वत्रेत्त्वम्। का रूपसिद्धिः? वृद्धौ कृतायामायादेशो भविष्यति। - वस्वर्थम् - वस्वर्थं तर्हि क्त्वाग्रहणं कर्तव्यम्। वसोर्ह्यौपदेशिकं कित्त्वम्। किं च स्यात्? पपिवान् तस्थिवान् कितीत्याकारलोपो न स्यात्। मा भूदेवम्। इटीत्येवं भविष्यति। इदं तर्हि जग्मिवान् जघ्निवान् कितीत्युपधालोपो न स्यात्। - किदतिदेशात् - अस्त्वत्रौपदेशिकस्य कित्त्वस्य प्रतिषेधः। आतिदेशिकमत्र कित्त्वं भविष्यति। यत्र तर्हि तत्प्रतिषिध्यते, अञ्ञ्जेः- आजिवानिति। एवं तर्हि च्छान्दसः क्वसुः। लिट् च च्छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिन्ङिद्भवतीति ङित्युपधालोपो भविष्यति। - (नि) गृहीतिः - इदं तर्हि प्रयोजनम्। इह मा भूत्- निगृहीतिः उपस्निहितिः निकुचितिः। तत्तर्हि क्त्वाग्रहणं कर्तव्यम्? न कर्तव्यम्। - क्त्वा च विग्रहात् - उपरिष्टाद् योगविभागः करिष्यते- न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः(19) मृषस्तितिक्षायाम् (20) उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (21)। ततः पूङः। पूङश्च निष्ठा सेट् किन्न भवति। ततः क्त्वा च क्त्वा च सेट् किन्न भवति। पूङ इति निवृत्तम्। न सेडिति कृतेऽकित्त्वे निष्ठायावधारणात्। ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥ 1 ॥ इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि। वस्वर्थं कितदीदेशाद् गृहीतिः क्त्वा च विग्रहात् ॥ 2 ॥ न क्त्वा सेट् ॥ 18 ॥
Kashika¶
क्त्वाप्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेडिति किम्? कृत्वा। हृत्वा। क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः॥
न सेड् इति कृतेऽकित्त्वे निष्ठायामवधारणात्।
ज्ञापकान् न परोक्षायां सनि झल्ग्रहणं विदुः॥ १॥
इत्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि।
वस्वर्थं किदतीदेशान् निगृहीतिः प्रयोजनम् ॥ २॥
Siddhanta Kaumudi¶
सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥
Laghu Siddhanta Kaumudi¶
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
Padamanjari¶
न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति । निगृहीतिरिति । अत्र ऽतितुत्रऽ इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । ऽकुञ्च कौटिल्याल्पीभावयोःऽ । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्वाद्भवन्ति । न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उतरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । ऽनिष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषःऽ इति नियमः-शीङदिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठ्èअवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम ऽगमहनऽ इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । ऽइको झल्ऽ इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम् - शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्वम्, ऽन सेट्ऽ इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः । ननु चोतरार्थं झल्ग्रहणम्, स्थाघ्वोरित्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कापवादत्वाद्यौकि कृते यकारस्येत्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुतरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्वं कित्वसंयोगेनोच्यते, न चात्र कित्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री ऽअनो बहुव्रीहेःऽ इति प्रकृतस्य ङीपो निषेधे सति ऽसंनियोगशिष्टानामन्यतराभावे उभयोरप्यभावःऽ इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृतौ । जग्मिवानित्यत्र क्वसौः कित्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्वस्य प्रतिषेधः, आतिदेशिकं कित्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च ऽवस्वेकाजाद्धसाम्ऽ इतीडागमः, तत्र कृते कित्वप्रतिषेधाद् नलोपनिवृतौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृतौ कित्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् च्छन्दसि सार्वधातुकमपि भवति ऽसार्वधातुकमपिद्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपः । न च संयोगान्तेषु कित्वङ्त्वियोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्यर्थं क्त्वाग्रहणमित्यर्थः । यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङ्श्च-पूङ्श्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र ऽपूङ्ःऽ इति निवृतमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ॥
Nyaas¶
क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। क्त्वाप्रत्ययः सेट् किन्न भवति इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति? कित्कार्यस्य प्रतिषेधाद्वा? यदि ह्यत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे लशक्वसेट्क्त्वातद्धितयोः इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कर्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्ययस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्।अथ सानुबन्धकस्य ग्रहणं किमर्थम् न त्वा इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्।निगृहीतिः`इति। **स्त्रियां क्तिन्** (3.3.94) `तितुत्रतथ (7.2.9) इति ग्रहादीनां प्रतिषेधो वक्तव्यः (वा।831।?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।`उपस्निहितिः इति। स्निह प्रीतौ (धातुपाठः-1200),`निकुचितिः` इति। कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः`(धा।प।185,186) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इत्यनुनासिकलोपश्च कित्त्वाद्भवति।`न सेट् इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति गुध परिवेष्टने (धातुपाठः-1120) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत्? नैतदस्ति; निष्ठायामवधारणात्। निष्ठा शीङस्विदिमिदि (1.2.19) इत्यत्रावधारणान्निष्ठायां न भविष्यति - शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्रनिष्टार्था शास्त्रे प्रकॢप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र गमहन (6.4.98) इत्यादिनोपधालोपो न स्यादित्यत आह - ज्ञापकान्न परोक्षायाम् इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम्? ज्ञापकात्। किं तज्ज्ञापकम्? इत्याह - सनि झल्ग्रहणं विदुः इति। यदयम् इको झल् (1.2.9) इति सन्विशेषणं करोति,ततो ज्ञायते - औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिष#एधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, स्थाध्वोरिच्च (1.2.17) इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति - उपास्थायिषातामिति। अत्र हि स्यसिच्सीयुट्तासिषु (6.4.62) इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति आतो युक् चिण्कृतोः (7.3.33) इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ स्थाध्वोरिच्च (1.2.17) इत्यत्रापि कित्त्वं कस्मान्न भवति? न सेट् इत्येतावता योगेन प्रतिषिद्धत्वात्।रेण तुल्यं सुधीवनि इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। अनो बहुव्रीहेः (4.1.12) इति ङीपोऽत्र प्रतिषेधे कृते यथा वनो र च (4.1.7) इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि क्त्वाग्रहणम्? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कर्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य न सेट् इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान् - इत्यत्रोपधालोपो न स्यात्। वस्वर्थं किदतीदेशात् इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् असंयोगाल्लिट् कित् (1.2.5) इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्रेतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति।एवं तर्हि - निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थंक्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र विभाषा गमहनविदविशाम् (7.2.68) इति क्वसोरिट्, उगिदचाम् (7.1.70) इति नुम्, हलङ्यादिसंयोगान्तलोपौ (5.1.69; 8.2.23)`सान्तमहतः` (6.4.10) इत्यादिना दीर्घः।
Prakriyasarvasvam¶
सेट् क्त्वा न कित् स्यात् । तेन गुणः शयित्वा । नर्तित्वा । ध्वंसित्वा । अत्राकित्त्वान्नलोपाभावः ॥
Sutra Prayogas¶
वर्तित्वा (भट्टिकाव्यम्): न क्त्वा सेट् इति कित्त्वप्रतिषेधः।
मृदित्वेवेन्द्र-गोचरम् (भट्टिकाव्यम्): न क्त्वा सेट् इति कित्त्वप्रतिषेधे प्राप्ते।