12019: निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः

Padacheda: निष्ठा | S | 1 | 1 |

शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The सेट् निष्ठा affixes are not कित् after the verbs शीङ् ‘to lie down’, स्विद् ‘to sweat’, मिद् ‘to melt’, क्ष्विद् ‘to be unctuous’, and दृश् ‘to offend’.

Vasu English Translation

The सेट् निष्ठा affixes are not कित् after the verbs शीङ् ‘to lie down’, स्विद् ‘to sweat’, मिद् ‘to melt’, क्ष्विद् ‘to be unctuous’, and दृश् ‘to offend’. The Nishthas are kta and ktavatu (see sutra 26, Chapter I). They are obviously kit affixes. But in the case of the above five roots they are not kit, and the vowels take guna. Thus शयितः slept, शयितवान्, प्रस्वेदितः, प्रमेदितः, प्रक्ष्वेदितः, प्रस्वेदितवान्, प्रमेदितवान्, प्रक्ष्वेदितवान्, प्रधर्षितः, प्रधर्षितवान् &c. In all the above roots the Nishtha affixes are also set.

The roots स्विद् (ञिष्विदा), मिद् (ञिमिदा), क्षिद् (ञिक्षिदा) and धृष् (ञिधृषा) have all long आ as indicatory, as well as the syllable ञि. These roots therefore by Rule (7.2.16) are generally anit, and consequently beyond the scope of the operation of the present sutra. As स्विन्नः, स्विन्नवान्. But when the Nishtha affixes denote ‘a state or condition, bhava,’ or ‘beginning of action,’ then the above four roots optionally become set. (7.2.17). It is in that case that the present sutra is applicable to them.

Kashika

न सेडिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृष् इत्येतेभ्यः परो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितः, शयितवान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रधर्षितः, प्रधर्षितवान्। सेड् इत्येव — स्विन्नः, स्विन्नवान्। स्विदादीनाम् आदितश्च (७.२.१६) इति निष्ठायामिट् प्रतिषिध्यते। विभाषा भावादिकर्मणोः (७.२.१७) इति पक्षेऽभ्यनुज्ञायते, स विषयः कित्त्वप्रतिषेधस्य॥

Siddhanta Kaumudi

एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् ।<!आदिकर्मणि निष्ठा वक्तव्या !> (वार्तिकम्) ॥

Balamanorama

निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः - निष्ठा शीङ् ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति च । तदाह — एभ्यः सेडिति । शीङिति ङकारस्य फलमाह — अनुबन्धेति । यङ् लुकि॒श्तिपा शपे॑ति निषेधार्थ इत्यर्थः । सेश्यितवानिति । अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः । आदिकर्मणि निष्ठा वक्तव्येति । दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म । तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः । तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः ।

Tattvabodhini

निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः - शेश्यित इति ।एरनेकाचः॑ इति यण् ।

Padamanjari

ऽ ञिष्विदा स्नेहनमोचनयोःऽ इत्यस्य भौवादिकस्य ञिद्धातोर्ग्रहणम्, न तु ऽष्विदा गात्रप्रक्षरणेऽ इति दैवादिकस्य; ञिद्भिः साहचर्यात्, अस्य चाञित्वात् । ऽञिक्ष्विदा स्नेहनमोचनयोःऽ इति दैवादिकस्य ग्रहणम्, न तु ऽञिक्ष्विदा अव्यक्ते शब्देऽ इत्यस्य भौवादिकस्य; मिदिना साहचर्यात्,ऽञिधृषा प्रागल्भ्येऽ । शयितवानिति । ऽअत्वसन्तस्यऽ इति दीर्घः । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति, स एव धातुर्द्विरुच्यत इति कृत्वा तत्रापवादः स्मर्यते । श्तिपा शपाऽनुबन्धेन निर्द्दिष्ट्ंअ यद्गणेन च । यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि ॥ इति । तदहि शीङेऽनबन्धनिर्देशो यङ्लुङ्निवृत्यर्थः, शेश्यितः, शेश्यितवान् - ऽएरनेकाचःऽ इति यण् ॥

Nyaas

शीङ स्वप्ने (धातुपाठः-1032) , ञिष्विदा गात्रप्रक्षरणे (धातुपाठः-1188), ञिमिदा स्नेहने (धातुपाठः-1243), ञिक्ष्विदा स्नेहनमोचनयोः (धातुपाठः-1244), ञिधृषा प्रागल्भ्ये (धातुपाठः-1269)। शयिततवान् इति। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः। शयितः इति। गत्यथाकर्मक (3.4.72) इत्यादिना कर्तरि क्तः। प्रस्वेदितः इत्यादौ आदिकर्मणि क्तः कर्तरि च (3.4.71) इत्यनेन प्रशब्द आदिकर्म = प्रारम्भं द्योतयति।प्रधर्षितः इति। वैयात्यादन्यत्रेदमुदाहरणम्। तत्र हि धृषिशसीवैयात्ये (7.2.19) इतीट्प्रतिषेधेन भवितव्यम्। प्रकृतिग्रहणे यङलुको ग्रहणं स्मरति। अतो यङलुको एरनेकाचः (6.4.82) इत्यादिना यणादेशः॥

Prakriyasarvasvam

एभ्यः परा सेट् निष्ठा किन्न स्यात् । तेन धृषेर्गुण उक्तः ॥

Sutra Prayogas

  • प्रमेदिताः (भट्टिकाव्यम्): निष्ठा शीङ् इति कित्वप्रतिषेधात् गुणः।