12018: न क्त्वा सेट् ==================== **Padacheda:** न | S | 0 | 0 | क्त्वा | S | | | 1 सेट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्त्वा when it takes the augment इट् (i.e. when it is सेट्) is not कित् । Vasu English Translation ------------------------ The affix क्त्वा when it takes the augment इट् (i.e. when it is सेट्) is not कित् । We had had occasion to refer to this *sutra* in explaining *sutra* (1.2.7). The affix *ktva* (the actual affix being *tva*, the *k* being merely *it* or indicatory letter) is on the face of it a *kit* affix. This *sutra* however limits its *kitness* to cases where it is not *set*. If it is *set*, i.e. has before it the intermediate इ it will not be treated like a *kit* affix. Thus in कृत्वा, हुत्वा, the affix त्वा is added directly to the root कृ 'to do' and हु 'to sacrifice,' without an intermediate इ and therefore the root has not been *gunated*, the affix here being *kit*. But in स्वेदित्वा, देवित्वा, वर्त्तित्वा, from स्विद्, दिव् and वृत् 'to sweat,' 'to shine,' 'to be,' the affix is not *kit*, because there is an intermediate इ before त्वा and the root has been consequently *gunated*. Of course this *sutra* relates to क्त्वा *ktva* only. Other affixes though having an intermediate इ will be treated as *kit*, if they have an indicatory क्. Thus the affix क्तिन् (3.3.94) by which feminine nouns are formed from roots is a कित् affix. This affix when सेट्, will remain कित्, as नि + ग्रह् + इट् + क्तिन् = नि + गृह् + इ + ति (6.1.16) = निगृहीतिः (7.2.37). Here there is *samprasarana* by treating *klin* as *kit*. So also in उपस्निहितिः and निकुचितिः there is no *guna*. After ग्रह् &c., the affix क्तिन् takes the augment इट् by a *Vartika* under *sutra* (7.2.9) which see. Bhashya ------- न क्त्वा सेट् - न सेडिति कृतेऽकित्त्वे - न सेडित्येव सिद्धम्, नार्थः क्त्वाग्रहणेन। निष्ठायामपि तर्हि प्राप्नोति- गुधितः गुधितवानिति। - निष्ठायामवधारणात् - निष्ठायामवधारणान्न भविष्यति। किमवधारणम्? निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (1.2.16) इति। परोक्षायां तर्हि प्राप्नोति। किं च स्यात्? पपिव पपिम क्ङितीत्याकारलोपो न स्यात्। मा भूदेवम्, इटीत्येवं भविष्यति। इदं तर्हि- जग्मिव जघ्निव क्ङितीत्युपधालोपो न स्यात्। - ज्ञापकान्न परोक्षायाम् - ज्ञापकात्परोक्षायां न भविष्यति। किं ज्ञापकम्? - सनि झल्ग्रहणं विदुः - यदयम् इको झल् (1.2.9) इति झल्ग्रहणं करोति तज्ज्ञापयत्याचार्यः- औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्य इति। कथं कृत्वा ज्ञापकम्? झल्ग्रहणस्यैतत्प्रयोजनं झलादौ यथा स्यात्, इह मा भूत्- शिशयिषत इति। यदि चात्रातिदेशिकस्यापि कित्त्वस्य प्रतिषेधः स्यात्, झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, न सेड् इति प्रतिषेधो भविष्यति। पश्यति त्वाचार्य औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति, ततो झल्ग्रहणं करोति। नैतदस्ति ज्ञापकम्। उत्तरार्थमेतत्स्यात् स्थाघ्वोरिच्च (1.2.17) झलादौ यथा स्यात्, इह मा भूत्- उपास्थायिषातामुपास्थायिषत। - इत्त्वं कित्सन्नियोगेन - कित्त्वसन्नियोगेनेत्त्वमुच्यते। तेनासति कित्त्वे इत्त्वं न भविष्यति। - रेण तुल्यं सुधीवनि - तद्यथा- सुधीवा सुपीवेति ङीप्सन्नियोगेन र उच्यमानोऽसति ङीपि न भविति। अथ वाऽस्त्वत्रेत्त्वम्। का रूपसिद्धिः? वृद्धौ कृतायामायादेशो भविष्यति। - वस्वर्थम् - वस्वर्थं तर्हि क्त्वाग्रहणं कर्तव्यम्। वसोर्ह्यौपदेशिकं कित्त्वम्। किं च स्यात्? पपिवान् तस्थिवान् कितीत्याकारलोपो न स्यात्। मा भूदेवम्। इटीत्येवं भविष्यति। इदं तर्हि जग्मिवान् जघ्निवान् कितीत्युपधालोपो न स्यात्। - किदतिदेशात् - अस्त्वत्रौपदेशिकस्य कित्त्वस्य प्रतिषेधः। आतिदेशिकमत्र कित्त्वं भविष्यति। यत्र तर्हि तत्प्रतिषिध्यते, अञ्ञ्जेः- आजिवानिति। एवं तर्हि च्छान्दसः क्वसुः। लिट् च च्छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिन्ङिद्भवतीति ङित्युपधालोपो भविष्यति। - (नि) गृहीतिः - इदं तर्हि प्रयोजनम्। इह मा भूत्- निगृहीतिः उपस्निहितिः निकुचितिः। तत्तर्हि क्त्वाग्रहणं कर्तव्यम्? न कर्तव्यम्। - क्त्वा च विग्रहात् - उपरिष्टाद् योगविभागः करिष्यते- न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः(19) मृषस्तितिक्षायाम् (20) उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (21)। ततः पूङः। पूङश्च निष्ठा सेट् किन्न भवति। ततः क्त्वा च क्त्वा च सेट् किन्न भवति। पूङ इति निवृत्तम्। न सेडिति कृतेऽकित्त्वे निष्ठायावधारणात्। ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥ 1 ॥ इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि। वस्वर्थं कितदीदेशाद् गृहीतिः क्त्वा च विग्रहात् ॥ 2 ॥ न क्त्वा सेट् ॥ 18 ॥ Kashika ------- क्त्वाप्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेडिति किम्? कृत्वा। हृत्वा। क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः॥ न सेड् इति कृतेऽकित्त्वे निष्ठायामवधारणात्। ज्ञापकान् न परोक्षायां सनि झल्ग्रहणं विदुः॥ १॥ इत्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि। वस्वर्थं किदतीदेशान् निगृहीतिः प्रयोजनम् ॥ २॥ Siddhanta Kaumudi ----------------- सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥ Laghu Siddhanta Kaumudi ----------------------- सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥ Padamanjari ----------- न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति । निगृहीतिरिति । अत्र ऽतितुत्रऽ इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । ऽकुञ्च कौटिल्याल्पीभावयोःऽ । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्वाद्भवन्ति । न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उतरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । ऽनिष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषःऽ इति नियमः-शीङदिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठ्èअवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम ऽगमहनऽ इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । ऽइको झल्ऽ इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम् - शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्वम्, ऽन सेट्ऽ इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः । ननु चोतरार्थं झल्ग्रहणम्, स्थाघ्वोरित्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कापवादत्वाद्यौकि कृते यकारस्येत्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुतरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्वं कित्वसंयोगेनोच्यते, न चात्र कित्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री ऽअनो बहुव्रीहेःऽ इति प्रकृतस्य ङीपो निषेधे सति ऽसंनियोगशिष्टानामन्यतराभावे उभयोरप्यभावःऽ इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृतौ । जग्मिवानित्यत्र क्वसौः कित्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्वस्य प्रतिषेधः, आतिदेशिकं कित्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च ऽवस्वेकाजाद्धसाम्ऽ इतीडागमः, तत्र कृते कित्वप्रतिषेधाद् नलोपनिवृतौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृतौ कित्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् च्छन्दसि सार्वधातुकमपि भवति ऽसार्वधातुकमपिद्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपः । न च संयोगान्तेषु कित्वङ्त्वियोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्यर्थं क्त्वाग्रहणमित्यर्थः । यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङ्श्च-पूङ्श्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र ऽपूङ्ःऽ इति निवृतमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ॥ Nyaas ----- क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। `क्त्वाप्रत्ययः सेट् किन्न भवति` इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति? कित्कार्यस्य प्रतिषेधाद्वा? यदि ह्यत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे `लशक्वसेट्क्त्वातद्धितयोः` इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कर्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्ययस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्।अथ सानुबन्धकस्य ग्रहणं किमर्थम् `न त्वा` इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्।`निगृहीतिः`इति। **स्त्रियां क्तिन्** (3.3.94) `तितुत्रतथ` (7.2.9) इति `ग्रहादीनां प्रतिषेधो वक्तव्यः (वा।831।?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।`उपस्निहितिः` इति। `स्निह प्रीतौ` (धातुपाठः-1200),`निकुचितिः` इति। `कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः`(धा।प।185,186) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इत्यनुनासिकलोपश्च कित्त्वाद्भवति।`न सेट्` इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति `गुध परिवेष्टने` (धातुपाठः-1120) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत्? नैतदस्ति; निष्ठायामवधारणात्। `निष्ठा शीङस्विदिमिदि` (1.2.19) इत्यत्रावधारणान्निष्ठायां न भविष्यति - शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्रनिष्टार्था शास्त्रे प्रकॢप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र `गमहन` (6.4.98) इत्यादिनोपधालोपो न स्यादित्यत आह - `ज्ञापकान्न परोक्षायाम्` इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम्? ज्ञापकात्। किं तज्ज्ञापकम्? इत्याह - `सनि झल्ग्रहणं विदुः` इति। यदयम् **इको झल्** (1.2.9) इति सन्विशेषणं करोति,ततो ज्ञायते - औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिष#एधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, `स्थाध्वोरिच्च` (1.2.17) इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति - उपास्थायिषातामिति। अत्र हि `स्यसिच्सीयुट्तासिषु` (6.4.62) इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति **आतो युक् चिण्कृतोः** (7.3.33) इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ `स्थाध्वोरिच्च` (1.2.17) इत्यत्रापि कित्त्वं कस्मान्न भवति? `न सेट्` इत्येतावता योगेन प्रतिषिद्धत्वात्।`रेण तुल्यं सुधीवनि` इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। **अनो बहुव्रीहेः** (4.1.12) इति ङीपोऽत्र प्रतिषेधे कृते यथा **वनो र च** (4.1.7) इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि क्त्वाग्रहणम्? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कर्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य `न सेट्` इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान् - इत्यत्रोपधालोपो न स्यात्। `वस्वर्थं किदतीदेशात्` इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् **असंयोगाल्लिट् कित्** (1.2.5) इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्रेतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति।एवं तर्हि - निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थंक्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र **विभाषा गमहनविदविशाम्** (7.2.68) इति क्वसोरिट्, `उगिदचाम्` (7.1.70) इति नुम्, हलङ्यादिसंयोगान्तलोपौ (5.1.69; 8.2.23)`सान्तमहतः` (6.4.10) इत्यादिना दीर्घः। Prakriyasarvasvam ----------------- सेट् क्त्वा न कित् स्यात् । तेन गुणः शयित्वा । नर्तित्वा । ध्वंसित्वा । अत्राकित्त्वान्नलोपाभावः ॥ Sutra Prayogas -------------- * **वर्तित्वा** (भट्टिकाव्यम्): `न क्त्वा सेट्` इति कित्त्वप्रतिषेधः। * **मृदित्वेवेन्द्र-गोचरम्** (भट्टिकाव्यम्): `न क्त्वा सेट्` इति कित्त्वप्रतिषेधे प्राप्ते।