12017: स्था घ्वोरिच्च¶
Padacheda: स्था-घ्वोः | S | 6 | 2 |
इत् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix सिच् before आत्मनेपद affixes is कित् after स्था ‘to stand’ and घु मृषस्तितिक्षायाम् (1.2.20) verbs, and these verbs change their आ into इ before these terminations.
Vasu English Translation¶
The affix सिच् before आत्मनेपद affixes is कित् after स्था ‘to stand’ and घु मृषस्तितिक्षायाम् (1.2.20) verbs, and these verbs change their आ into इ before these terminations. The roots स्था ‘to stand,’ दा ‘to give,’ धा ‘to place’, दै ‘to pity’, धे ‘to feed’, दो ‘to cut’ change their vowels into इ before the terminations of the Aorist of the Atmanepada ; and those terminations are also kit. As उपास्थित, ‘he worshipped’, उपास्थिषाताम्, उपास्थिषत; ‘he gave’, अधित ‘he fed.’
Bhashya¶
स्थाघ्वोरिच्च - इच्च कस्य तकारेत्त्वम् - कस्य हेतोरिकारस्तपरः क्रियते? - दीर्घो मा भूत् - दीर्घो मा भूदिति। - ऋतेपि सः - अन्तरेणाप्यारम्भं सिद्धोऽत्र दीर्घः घुमास्थागापाजहातिसां हलिः (6.4.66) इति। - अनन्तरे प्लुतो मा भूत् - इदं तर्हि प्रयोजनम्- अनन्तरे प्लुतो मा भूदिति। कुतो नु खल्वेतत् अनन्तरार्थ आरम्भे ह्रस्वो भविष्यति, न पुनः प्लुत इति?। - प्लुतश्च विषये स्मृतः - विषये प्लुत उच्यते। यदा च स विषयो, भवितव्यमेव तदा प्लुतेन। इच्च कस्य तकारेत्वं दीर्घो मा भूदृतेऽपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ॥ 1 ॥ स्थाघ्वोरिच्च ॥ 17 ॥
Kashika¶
सिजात्मनेपदेष्विति वर्तते। तिष्ठतेर्धातोर्घुसंज्ञकानां च इकारश्चान्तादेशः सिच्च किद् भवत्यात्मनेपदेषु परतः। उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानाम् — अदित। अधित॥
इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः।
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः॥
Siddhanta Kaumudi¶
अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि ।{$ {!963 श्यैङ्!} गतौ$} । श्यायते । शश्ये ।{$ {!964 प्यैङ्!} वृद्धौ$} । प्यायते । पप्ये । प्याता ।{$ {!965 त्रैङ्!} पालने$} । त्रायते । तत्रे ।{$ {!966 पूङ्!} पवने$} । पवते । पुपुवे । पविता ।{$ {!967 मूङ्!} बन्धने$} । मवते ।{$ {!968 डीङ्!} विहायसा गतौ $}। डयते । डयिता ।{$ {!969 तॄ!} प्लवनतरणयोः$} ॥
Laghu Siddhanta Kaumudi¶
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ {$ {! 10 डुधाञ् !} धारणपोषणयोः $} (धातुपाठे (03.0011)) ॥ दधाति॥
Balamanorama¶
स्थाघ्वोरिच्च - लुङि सिचि अदास् त इति स्थिते — स्थाध्वोरिच्च । ‘असंयोगाल्लिट्’ इत्यतः किदिति,हनस्सि॑जित्यतः सिजिति चानुवर्तते । तदाह - अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र ‘गातिस्थे’ ति सिचो लुका लुप्तत्वात् । अत एव ‘लिङ्सिचौ’ इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात् । अदितेति । इत्त्वेकृतेह्रस्वादङ्गा॑दिति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः । सिचः कित्त्वादिकारस्य न गुणः । अदिषातामदिषत । अदिथाः अदिषाथाम् । अदिढ्वम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यदित्यपि ज्ञेयम् । श्यैङ् गतौ । श्यायते इति । शपि आयादेशः । शिद्विषत्वादात्वं नेति भावः । शश्ये इति । एशि आत्वे आतो लोपः । शश्याते शश्यिरे । क्रादिनियमादिट् । शश्यिषे शश्याथे शश्यिध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैङ्धातुरपि श्यैङ्वत् । त्रैङप्येवम् । पूङ् पवने इति । पवते इति । सेट्, ऊदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः । अवादेशः । पुपुवे इति । कित्त्वाद्गुणाऽभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवहे पुपुविमहे । पविता । पविष्यते । पवताम् । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणेऽयादेश इति भावः । डिडए डिडिवहे डिडिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । अडयिष्ट ।अडयिष्यत । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् ।
Tattvabodhini¶
स्थाघ्वोरिच्च - स्थाध्वोरिच्च । इहलिङ्सिचौ॑इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, परस्मैपदेषुगातिस्थे॑ तिलुकः प्रवृत्तेव्र्यावर्त्त्याऽलाभात् । अस्थित । अस्थिषाताम् ।भाव्यमानोऽण् क्वचित्सवर्णान् गृह्णाती॑त्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः । अत्र वदन्ति — विधीयमानस्य सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम् । न चात्र दीर्घः स्यादिति वाच्यं,घुमास्थे॑ त्यनेनैव तत्सिद्धा विधिवैयथ्र्यापत्तेः । न चैवमपि प्लुतः स्यादिति वाच्यं,प्लुताऽप्लुतप्रसङ्गेप्लुतश्च विषये स्मृतः॑ इति सिद्धान्तादिति । डीङ् । विहायसा — आकाशेन ।विहायसा॑ मिति पाठस्त्वनाकर इत्याहुः ।
Padamanjari¶
चकारेण कित्वं समुच्चीयत इत्याह - सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । ऽउपान्मन्त्रकरणेऽ ऽअकर्मकाच्चऽ इत्यात्मनेपदम्, ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । न चेत्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्वस्यासिज्निमितत्वाद् भवत्येव लोपः । इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-ऽसिद्धोऽत्र दीर्घःऽ इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम् - अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्यर्थं प्लुतप्रवृत्यर्थं च वस्तुबलात्समपादि ॥
Prakriyasarvasvam¶
अनयोस्तङि सिच् कित् स्यात्, इच्चान्तादेशः । अघिषाताम् । अधिषत । ह्रस्वादङ्गात् । अधिथाः । ‘धि च’ । ‘इणः षीध्वम्–’ । अधिढ्वम् । अधिषि । लिटि ।
Sutra Prayogas¶
न्यधित (शिशुपालवधम्): स्थाध्वोरिच्च इतीकारः।
समधित (शिशुपालवधम्): स्थाध्वोरिच्च इतीकारः।
नादित (शिशुपालवधम्): स्थाघ्वोरिच्च इतीकारः।
उपास्थिताऽसौ (भट्टिकाव्यम्): स्था-ध्वोरिच्च इत्यादिनेवं कित्वं च ।
अवास्थित (भट्टिकाव्यम्): स्था·ध्वोरिच्च इति कित्वमित्वं च।
माऽन्तिर्धथाः (भट्टिकाव्यम्): लुङि स्थाघ्वोरिच्च इति सिचः कित्त्वमित्त्वं च ।
प्रास्थिषता (भट्टिकाव्यम्): स्था-ध्वोरिच्च इति कित्त्वमित्त्वं च।
उपास्थिषत (भट्टिकाव्यम्): स्था-ध्वोरिच्च इति संप्रीताः हृष्टाः तेषामनुज्ञातप्रवेशत्वात्।
उपाधिता (भट्टिकाव्यम्): स्था-घ्वोरिच्च इति इत्वम्।