11043: सुडनपुंसकस्य =================== **Padacheda:** सुट् | S | 1 | 1 | अनपुंसकस्य | S | 6 | 1 | Sutrartha --------- **नपुंसकलिङ्गभिन्नशब्दात् विहितानाम् 'सुँ', 'औ', 'जस्', 'अम्', 'औट्' प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । अनेन सूत्रेण पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् च विहितानाम् सुट्-प्रत्याहारस्य प्रत्ययानाम् 'सर्वनामस्थान' इति संज्ञा दीयते । सुट्-इति कश्चन प्रत्याहारः । **स्वौजसमौट्...** (4.1.2) अस्मिन् सूत्रे ये २१ प्रत्ययाः पाठ्यन्ते, तेषु विद्यमानाः प्रारम्भिकाः पञ्च प्रत्ययाः - 'सुँ, औ, जस्, अम्, औट्' - एतेषां ग्रहणम् 'सुट्' अस्मिन् प्रत्याहारे कृतम् अस्ति । एते प्रत्ययाः यदा पुंल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयन्ते, तदा एतेषाम् 'सर्वनामस्थान' इति संज्ञा भवति । **प्रयोजनम्** सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे - 1. नकारान्तस्य अङ्गस्य उपधावर्णस्य **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन दीर्घादेशः भवति - .. code-block:: text राजन् + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः । राजन् इति पुंलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति ।] --> राजान् + औ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन उपधादीर्घः] --> राजानौ 2. ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन गुणः भवति - .. code-block:: text मातृ + अम् [द्वितीयैकवचनस्य 'अम्' प्रत्ययः । 'मातृ' इति स्त्रीलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः भवति ।] → मातर् + अम् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः]] → मातरम् Sutrartha (English) ------------------- The सुँ, औ, जस्, अम्, and औट् प्रत्ययाः attached to a non-नपुंसकलिङ्ग word are called 'सर्वनामस्थान'. Vasu English Summary -------------------- The first five case affixes comprised in the प्रत्यहार सुट् (i.e. the three case-terminations of the Nominative, and the singular and dual of the Accusative) are also called सर्वनामस्थान , except the case-affixes of the neuter gender. Vasu English Translation ------------------------ The first five case affixes comprised in the प्रत्यहार सुट् (i.e. the three case-terminations of the Nominative, and the singular and dual of the Accusative) are also called सर्वनामस्थान , except the case-affixes of the neuter gender. This defines further the word *sarvanamasthana*. The case-terminations in Sanskrit are 21 as arranged below:- - Nominative प्रथमा सु (स्) औ जस् (अस्) - Accusative द्वितीया अम् औट् शस् (अस्) - Instrumental तृतीया टा (आ) भ्याम् भिस् - Dative चतुर्थी ङे (ए) भ्याम् भ्यस् - Ablative पंचमी ङसि (अस्) भ्याम् भ्यस् - Genitive षष्ठी ङस् (अस्) ओस् आम् - Locative सप्तमी ङि (इ) ओस् सुप् (सु) The above are the 21 *vibhaktis*, the ज् of जस्, the श् of शस्, the ट् of औट् &c. are indicatory. All these *vibhaktis* are included in the *pratyahara* सुप् formed by taking the first *vibhakti* and the last letter of the last *vibhakti*. Similarly the first five terminations (सु. औ, जस्, अम् and औट्) are represented by सुट् and are called *sarvanamasthana* in the masculine and feminine genders. In the declension of nouns, it will be seen, that some nouns have two bases, one before these *sarvanamasthana* and the other before the rest. Thus the word राजन् 'king' has the base राजान् before the सुट् *vibhaktis*, while in the remaining cases, the base is राज्ञ् and राज as:- - Nominative राजा राजानौ राजानः - Accusative राजानम् राजानौ राज्ञः - Instrumental राज्ञा राजभ्यां राजभिः But in the neuter nouns there is no such difference. Bhashya ------- सुडनपुंसकस्य ॥ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ॥ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति। कुण्डानि तिष्ठन्ति। वनानि तिष्ठन्ति। असमर्थसमासश्चायं द्रष्टव्योऽनपुंसकस्येति। न हि नञ्ञो नपुंसकेन सार्मथ्यम्। केन तर्हि ? भवतिना। न भवति नपुंसकस्येति। यत्तावदुच्यते - शि सर्वामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेध इति। ॥ नाप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः - नपुंसकस्य नेति। किं तर्हि ? पर्युदासोऽयम् - यदन्यन्नपुंसकादिति। नपुंसके न व्यापारः। केनचित् यदि प्राप्नोति, तेन भविष्यति। पूर्वेण च प्राप्नोति। ॥ अप्राप्तेर्वा । अथवा - अनन्तरा प्राप्तिः सा प्रतिषिध्यते। कुत एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम्। यदप्युच्यते - असमर्थसमासश्चायं द्रष्टव्य इति। यद्यपि वक्तव्यः। अथवैतर्हि बहूनि प्रयोजनानि। कानि? असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति। Kashika ------- सुडिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिर्न प्रतिषेधः, तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुडिति किम्? राज्ञः पश्य। अनपुंसकस्येति किम्? सामनी। वेमनी॥ Siddhanta Kaumudi ----------------- सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥ Laghu Siddhanta Kaumudi ----------------------- स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥ Balamanorama ------------ **सुडनपुंसकस्य** - तत्र किं सर्वनामस्थानमित्यत आह — सुडनपुंसकस्य ।शि सर्वनामस्थान॑मित्यतःसर्वानामस्थान॑मित्यनुवर्तते । अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे — सुडिति प्रत्याहार इति ।सु॑इत्यत्र औटष्टकारेणे॑ति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात् । Tattvabodhini ------------- **सुडनपुंसकस्य** - सुडनपुंसकस्य ।सुट् स्त्रीपुंसयो॑रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकंप्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती॑ति कैयटः । तेनअसूर्यंपश्यानि मुखानी॑त्यादि सिद्धम् । Padamanjari ----------- सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात् प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति परिहर्तव्यं स्याद्, असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति । स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति । विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । 'विभाषा ङिश्योः' इत्यिल्लोपाभावे दीर्घो न भवति ॥ Nyaas ----- सुइति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव वचनानयन्तर्भवन्तीत्याह -`सुडिति पञ्च वचनानि` इत्यादि। `नपुंसकादन्यत्र` इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदंवाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा-प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि `कुण्डानि तिष्ठन्ति` इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।त19) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधेऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कर्तव्यः- `सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति` इति। ततश्चासम्बद्धं प्रतिषेधवचन-मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थप्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं -पर्युदास एवाश्रितः। नपुंसके न विधिः` इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। `न प्रतिषेधः` इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- `तेन` इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। `राजा` इति। पूर्वद्दीर्घः। हल्ङ्यादिलोपः। `सामनी,वमनी`इति। **नपुंसकाच्च** (7.1.19) इति औङःशीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति। Sarala ------ **सुडिति** । प्रथमैकवचनमारभ्य औटष्टकारपर्यन्तं सुट् प्रत्याहारः, नतु सुडागमस्याऽत्र ग्रहणम्, **सर्वनामस्थाने चाऽसम्बुद्धौ** (६.४.८) इत्यादावसम्बुद्धाविति पर्युदाससामर्थ्यात् ॥ Sudha ----- **सुडनपुंसकस्येति ।** **शि सर्वनामस्थानम्**(1.1.42) इत्यतः सर्वनामस्थानमित्यनुवर्तते । सुट् इति - सु इत्यारभ्य औटष्टकारेण प्रत्याहारस्तदेतदाह - **स्वादिपञ्चवचनानोत्यादिना |**